सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

५ ] वसंतवर्णनम् ४१
भृशलीनषट्चरणचक्रवशा ऽधिकनीलनीरजदले सरसि ।
. कमलै रलंभिविलसत्कमलैर्गगने नवोदितशशांकरुचिः ॥ २६ ॥
मलिनांबुबिंदुतुलनां कलय—न्विकसत्पलाशकुसुमवृंतमभात् ।
शिरसाऽग्निसाधनतपो रचय न्निव मालतीविरहतोऽलियुवा ॥ २७ ॥
कृतवेलनामलयदिक्पवनै र्धनवलयो रुरुचिरेऽतितरां ।
उपगूहनानि चिरकालभवन् मिथः प्रविरतं - - त्य इव ॥ २८ ॥
सकलत्रिलोकविजयप्रभवं श्रमवारिसंगतमनंगपतिं ।
इव वीजयंत्यभिबभौ सुरभौ कदलीदलै रनिलसंगचलैः ॥ २९ ॥
हृदयेश्वरं भजत मानममुं त्यजताशु नैति समयो हि गतः ।
इति बोधयन्निव कुरंगदृशो रुचिरं चिकूज परपुष्टयुवा ॥ ३० ॥
किमु चुंबनं किमथवा मधुरं मधु इत्यसाविव विवेचनकृत् ।
क्षणमंबुजं क्षणमथ भ्रमरी—वदनं चुचुंब मधुकृत्प्रवणः ॥ ३१ ॥
विलसद्विलासिनि वसंतऋतौ कुसुमानि कानिचिदिहाविदुषां ।
इदमीददेतदिदमित्यवदन् इव झंकृतैर्मधुकराः कतिचित् ॥ ३२ ॥
विधुतत्वराणि विदधन्नितरां युवमानसानि दयितानुनये ।
चटुकूजितैः कलरवो मदयन् दयितां चुचुंब परिरभ्य मुहुः ॥ ३३ ॥
विकसत्सुमस्तबकचारुकुचा नवपल्लवाद्भुतकरक्रमणाः ।
मधुमागताः समवलोकयितुं वनदेवता इव लता व्यरुचन् ॥ ३४ ॥
अधिकाधिकं तनुविलेपविधौ प्रमदाभिराद्रियत वह्निशिखं ।
उपकारकारि सुचिरोपनतं सहसैव हेयमिह वस्तु कथं ॥ ३५ ॥
पथिकांगनाजनपरासनजै र्गुरुपाततैकैरिव नितांतचिताः ।
हविराचिताऽजनघनद्युतयो भ्रमरा बभुः प्रतिवनभ्रमिराः ॥ ३६ ॥
इति वीक्ष्य वीक्षणयुगप्रसभा—हृतसंमदं सुरभिकालमिमं ।
परिपृच्छय जैत्रजगतीदयितं सहि वीरमाग्रजकुमारवरः ॥ ३७ ॥
अदसीयरूपविलुलोचयिषा—नुग्रहाधिरूढललनावदनैः ।
दिवसेपि विस्फुरदनेकसुधा—करबिंबमंबरतलं जनयन् ॥ ३८ ॥
6 k

४२ श्रीहम्मीरमहाकाव्ये [सर्गः
घनसारसारमृगनाभिमिलन्—मलयद्रुनागरजःप्रकरैः ।
कृतदेवनो वनविनोदचिकी—रवरोधवंधुरवधूमधुरः ॥ ३९ ॥
प्रचलदलावलिलसत्पवनं तरुराजिराजितपुरोपवनं ।
प्रययौ स यौवनवयः सवयः—परिहासभासुरतरास्यशशी ॥ ४० ॥
चतुर्भिः कलापकं
तरुणा लसन्नवनवाभरणा अय चेलुरर्हन्तमचेलभृतः ।
मदकृन्मधूत्सवकृते मदनो—द्यमदीप्तदीप्तिमुतनूभिरमा ॥ ४१ ॥
कृतभूष्यापि वदनांबुरुहः सखि सांप्रतं तव रुषोदिषया ।
कृतमेहि सत्वरममुं दयितं सुतरां प्रसाद्य जहि वैरिमुदं ॥ ४२ ॥
इति काचन प्रियसखीवचनैः सुचिरं विमृश्य हृदये निपुणं ।
परिहृत्य मानमुपगत्य पतिं विशदप्रसादललितं व्यतनोत् ॥ ४३ ॥ युग्मं
अनुनेतुमन्यतर इंदुमुखीं विविधेंगितानि विदधन्निपुणं ।
परिरभ्यतेस्म तरसैव तया सपूर्वसूचिततदिंगितया ॥ ४४ ॥
प्रचलालिकाननमितः कितवो विरहा तवांग स किमातनुते ।
प्रविलोकयाव इति कांपि मिषादुपनीय तां प्रियतमाय ददौ ॥ ४५ ॥
अनुनेतुमंबुजदृशः पदयोः पतितस्य कस्यचन वेणिरभात् ।
इदमीयमानमभिपाटयितुं कुसुमायुधस्य तरवारिरिव ॥ ४६ ॥
अयि पश्य शस्यवदने मधुरा मधुवासरा झटिति यांति कथं ।
अधुनापि मानमिममादधती स्वपराहिलं किमु चिकीर्षसि हा ॥ ४७ ॥
इति कश्चन प्रकुपितां दयिता मनुनीय योषिदनुनीतिचणः ।
उपगूहनं प्रतिपदं वितरन्नचलन्मधूत्सवकृते सुकृती ॥ ४८ ॥
न विलोकसे न च ददासि वचः कथमेष जीवतु तवानुचरः ।
इति पीतवल्लभतचा इतरा मदपानतोप्यधिकमाप मदं ॥ ४९ ॥
नवपल्लवाङ्गुतकरां मधुपा—वलिवेणिमिद्धसुमगुच्छकुचां ।
नववल्लभाभिव विलोक्य वनीं दधुरुत्सुकत्वमथ रंतुममी ॥ ५० ॥

५] वसंतवर्णनम् ४३
तरुणीगणे विकरुणं प्रसवा—वचयं विधातुमभियोगवति ।
तरुभिः प्रकंपितमिव प्रवह—त्पवमानेवेलितदलालिमिषात् ॥ ५१ ॥
प्रविहाय काननसुमान्यभितो निपतद्भिरंबुजधिया वदने ।
भृशमुन्मदिष्णुमधुकान्निकरैरुदवेजि काचन सरोजमुखी ॥ ५२ ॥
दयितां लताग्रमपिरोहयता क्वच नापि केनचिददायि तनौ ।
नखरक्षतं यदतनोत्किलितं न मुदं तदीयहृदये कियतीं ॥ ५३ ॥
सुमकंदुकौ निजकरग्रथितौ सहसं प्रदर्श्य किल केन च न ॥
त्वदुरोजकौ ध्रुवमित्यममौ वदतेत्यहासि कुपितापि सुदृक् ॥ ५४ ॥
अयि वल्लभे मधुरगंधमिदं कुसुमं वदन्नितिपरो विदुरः ।
उपनासमाप्य किल सिंघयण—च्छलतः करं न्यधित तामधरे ॥ ५५ ॥
मुखचुंबनं यदि ददासि सकृत् प्रददे तदा कुसुममाल्यमिदं ।
गदतीति भर्त्तरि सखीविदितं त्रपया मुदा च समगदि परा ॥ ५६ ॥
दयितस्य वृक्षमधिरूढवतः पदमाशु पल्लवधिया विधृतं ।
न चकष्र्ष नैव च मुमोच परा तदवाप्तिजातपुलकप्रसरा ॥ ५७ ॥
पुरतो लताततिषु रम्यतमाः प्रसवाः स्फुरंति ननु चंद्रमुखी ।
इति विप्रलोभ्य दयितामितरो विजनप्रदेशमनयद्रतये ॥ ५८ ॥
अयि पश्यतोपि कुसुमस्तवकः क्व गतो ममेति कितवोक्तिपरः ।
करसाद्विधाय दयितोरसिजं निजगाद लब्धमिति कोपि हसन् ॥ ५९ ॥
अयि पश्यतोपि कुसुमस्तवकः क्व गतो ममेति कितवोक्तिपरः ।
प्रममर्द नैकयुवतेः कुचयो र्युगुलं गवेषणपरः--- ॥ ६० ॥
तनुवल्लिवद्धनवपुष्पगलन्—मकरंदलुब्धमधुकृन्निकरः ।
परिरभ्यतेस्म तरुकैतवतो ऽनिविदग्धया प्रियतमः परया ॥ ६१ ॥
फलदाधिरूढहृदयाधिपति—प्रविलोकिनापहृतचेतनया ।
विनरेममंग वितरेममिति प्रसवं वृथैव परयाभिदधे ॥ ६२ ॥
इतरेण गोत्रभिदया प्रहितः कुसुमोच्चयानुवनितामनया ।
प्रहतो --- तव निःश्वसिते रनवेक्ष्य तां किमुदितः प्रति यां ॥ ६३ ॥

४४ श्रीहम्मीरमहाकाव्ये [ सर्गः
अयि पश्य पश्य पुरतो लकुचे सुकुचे कथं भ्रमति भृंगयुवा ।
इति विप्रलोभ्य दयितामितरो निपपौ परां सुचिरमर्द्धदृशा ॥ ६४ ॥
तरुराजितो विकसितप्रसव—प्रकरान्निधाय शिरसि प्रयतान् ।
गुरुझंकृतिप्रमुखरा भ्रमरा वनरक्षका इव परां रुरुधुः ॥ ६५ ॥
दधदंतरा नवतिरस्करिणीमिव तापनोदनमिषेण पटीं ।
वनितां विलोभ्य कितवो हृदयाधिकृतां चुचुंब गतभीरितरां ॥ ६६ ॥
उपवीजयन्निजकराग्रयित—प्रविकाशिभासिकुसुमव्यजनैः ।
कृतविप्रियोपि भृशमन्वनयत् सुदृशं परः स्मरकलाविदुरः ॥ ६७ ॥
तरुशृंगसंस्थितसुमग्रहणे—र्ध्वसरत्करत्वतः सुकृशादुदरात् ।
गलदंबराक्षणमभादपरा प्रकटीभवत्तनुकशक्तिरिव ॥ ६८ ॥
कितवेन पल्लवमिषादधरे विधृते प्रिया यदतनोद्वसितं ।
अभवत्तदेव किल तत्कपट—स्फुटपाटवस्य शशिभासि यशः ॥ ६९ ॥
जडगात्रवर्तनपराङ्ग्गमितां दधदेकबाहुलतया दयितां ।
नलिनं करेण च परेण परः शुशुभे स्मरः सशरचाप इव ॥ ७० ॥
कामिन्याः कुसुमानि चेतुमधिरोहंत्यास्तरुस्कंधकं
भूमौ स्थायिनि दक्षिणे पदतले वामे च शाखास्पृशि ।
कृत्वा किंचन कैतवं विनमितोऽधोनाभिमूलं परो
दृष्ट्वोदीरितकाम ऊर्ध्वसुरते वांच्छामतुच्छां दधौ ॥ ७१ ॥
शाखाग्रस्थमिदं ददासि कुसुमं चेत्तर्हि यद्याचसे
तत्तेहं प्रददे प्रिय ध्रुवमिति प्रोक्तेऽन्यया मुग्धया ।
नीत्वा लग्नकतां तदालिमचिराद्दत्वा च पुष्पं छलात्
आसीद्यद्धृदये द्वयोरपि तयोर्धूर्तेन तत्प्रस्तुतं ॥ ७२ ॥
करांबुजालंबितलंबशाखा मिथोपि संयोजितपादपद्माः ।
आंदोलनिता आलिजनैः स्वयं ता दोलातुलां शिश्रियुरंबुजाक्ष्यः ॥ ७३ ॥
कामिनीकरजकोटिविलून—स्रस्तपल्लववनावनीपीठे ।
पुष्पराजिभिरराजत मुक्ता—वेणिवद्विपुलविद्रुमपात्रे ॥ ७४ ॥

५ ] . वसंतवर्णनम् ४५
प्रसवचोलवतंसककंकण—स्तबकराजिविराजितविग्रहाः ।
शुशुभिरे सुदृशो धृतकंकटा इव भटाः कुसुमायुधभूपतेः ॥ ७५ ॥
इति रुचिरविधाभिः स्वांगसंगोपभोग-
स्फुरितविततलीलाश्रेणिभिः श्रेयसीभिः ।
ऋतुपतिसमयोत्थां काननीं पुष्पलक्ष्मीं
झगिति सफलभावं निन्यिरे पौरवीराः ॥ ७६ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा-
काव्ये वीरांके वसंतवर्णनोनाम पंचमः सर्गः समाप्तः ॥
अथ षष्ठः सर्गः
प्रेक्ष्य काननविलासवशेन स्वेदिनोऽथ तरुणांन्नृपपुत्रः ।
वारिकेलिकलनाय जगन्वान् जैत्रसागरसरः सरसश्री ॥ १ ॥
उलसच्छुकगरुत्समकांति र्यस्यतीरतरुराजिरराजत् ।
चंद्रबिंबमभितः प्रसरंती सिंहिकांगजगजाध्वजिनीव ॥ २ ॥
अंतराप्रतिफलद्रणपूर्व—स्तंभनामपुररम्पतरात्रि ।
यन्नहास विपुलांकविलासि—द्वारकं किल सरिद्दूदयेशं ॥ ३ ॥
तीरूढतरुनीलपलाश—स्मेरजालकहरिन्मणिमुक्तं ।
वृत्तरम्यमवनीवनितायाः कर्णकुंडलतुलामवहद्यत् ॥ ४ ॥
नीलनीरजदलावलिदंभ—व्यक्तलक्ष्मविधृतामृतपूरं ।
यत्कृतावतरणं भुवि रेजे चंद्रबिंबमिव राहुभयेन ॥ ५ ॥
कर्णिकांकविचरन् मधुपोद्य—तारकोन्मिषितपंकजदंभात् ।
आलुलोकिषुनिकामिव लक्ष्मीं यद्दधार शतशो नयनानि ॥ ६ ॥ षद्भिः कुलकं
आयतैश्चलदृशोथ नितंबैः सत्वरं रुरुधिरे वनवर्त्म ।
अग्रतोंबुललनाय यियासू न्वार्यंय इव जीवितनाथान् ॥ ७ ॥
स्वां श्रियं पयसि वीक्ष्य तरुण्यो द्राग्मनांसि चक्रुषुर्मुकुरेभ्यः ।
तत्किमत्र यदि वा प्रमदानां यत्र तिष्ठति मनश्चिरमेव ॥ ८ ॥

यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण प्रस्तुत है:

४६ श्रीहम्मीरमहाकाव्ये [सर्गः
उत्तरंगिणि सरोभसि नार्य श्चिक्षिपुर्विकसितानि सुमानि ।
उज्जिजीविषयेव यजंत्यो मन्मथस्य गिरिशं जलमूर्त्तिं ॥ ९ ॥
तीरसंस्थितविलासवतीनां वारिणि प्रतिफलत्सु मुखेषु ।
स्मेरवारिजधिया निपंततो हासयन्मधुकरास्तरुणौघान् ॥ १० ॥
वारिगोचरजुषां युवतीना मुल्लसत्प्रतिनिधिव्यपदेशात् ।
आतिथेयमिव कर्तुममूषा माविरासतं सरोजलदेव्यः ॥ ११ ॥
अयगाधजलदर्शनजाता—त्तंककंपिततनूस्तनुमध्याः ।
पाणिनाऽथ विनिगृह्य कथंचि द्द्वेशयंति सलिलं स्म युवानः ॥ १२ ॥
किं पुरो विदधतीं जलकेलिं स्वां सखीमपि न पश्यसि मुग्धे ।
दर्शयन्निति च तत्प्रतिबिंबं तां व्यशिश्वसदहो चतुरोन्यः ॥ १३ ॥
अस्यगाधमिह वारि तदेवं न प्रवेष्टुमुचितं तव मुग्धे ।
इत्युदीर्य विविशे कितवेना—न्येन वक्षसि निधाय मृगाक्षीं ॥ १४ ॥
उत्सुकापि सुतरां जलकेला-—वंचले प्रणयिना विधृतापि ।
तद्विलोकरसभावशात्मा काप्यवास्थित तथैव परोपि ॥ १५ ॥
आहतः कुचतटैः प्रमदानां चेतनाविरहितोपि तडागः ।
क्षोभभावमगमत् सहसा य—त्तत्र कारणमसौ रसवत्ता ॥ १६ ॥
अस्पृशत्प्रथममंबु वधूना मंगसंगचपलं जघनानि ।
खेलतिस्म तदनूरुसिजेषु क्व क्रमः स्फुरति हंत जडानां ॥ १७ ॥
जानुदघ्नमपि तत्सरसौभः कंठदघ्नमभवद्द्रुतमेव ।
योषिदंगविगलल्लवणिम्ना स्फीततामुपगृहीतमिवोच्चैः ॥ १८ ॥
आजनेरपि वितीर्णमरंदा—न्यंबुजानि मधुपाः प्रविहाय ।
भेजिरे मृगदृशां वदनानि स्यात्कुतोहि मलिनेषु विवेकः ॥ १९ ॥
संचरच्चटुलदृग्वदनाब्जा—लोकतर्कितनिशाकरबिंबैः ।
खादितुं बिसलतोपगृहीता त्यजे न बुभुजे न च चक्रैः ॥ २० ॥
योषितां स्तनतटे स्खलतोच्चै रस्म्रियंत पयसा पुनरेव ।
शैशवे प्रवहता गिरिमार्गे कूलशैलसबलास्फालनानि ॥ २१ ॥

६ ] जलक्रीडावर्णनम् ४७
प्रेयसीवदनमुक्षितुमात्तं नीरमंजलिपुटे दयितेन ।
तत्र बिंबितमवेक्ष्य तदेवा--मोचिनोपचितभंगभयेन ॥ २२ ॥
सेसिचत् प्रियतमो मदिराक्ष्या शक्तया कुलतया प्रतिसेके ।
गृह्यतेस्म भुजया लघु कंठे बाणयुद्धविदिवासि करेण ॥ २३ ॥
वल्लभे विकसितंबुजमुख्या उन्मदे पिबति वक्त्रसरोजं ।
भ्रश्यदंबुकणकेशकलाप--च्छद्मनालिभिररोदि शुचेव ॥ २४ ॥
गाढपीडितरदावलिरंध्रै र्याः स्त्रियो मुमुचिरे जलधाराः ।
ताभिरास्त मदनः सलिलाश्रो भर्तृमानदहनास्त्रशमाय ॥ २५ ॥
कंठदघ्नपयसि स्थितवत्या जीविताधिपतिना गजगत्याः ।
यद्यबुध्यत तयोर्द्युतिहान्या--ब्जद्वयांतरगतं वदनाब्जं ॥ २६ ॥
श्रीरपाहियत नो नयनाना मेभिरेभिरिति संभृतकोपाः ।
मज्जयंति कमलानि सरस्तू--न्मज्जयंति च मुहुः सुदृशः स्म ॥ २७ ॥
वारिणि प्रतिनिधिव्यपदेशात् व्यत्ययेन मदनश्च रतिश्च ।
तत्तदाप्तरुचिरत्वविशेषौ संश्रिताविव वधूं च वरं च ॥ २८ ॥
कैतवेन करवारिभिरेकां प्राप्य कश्चन पराङ्मुखभावं ।
चुंबतिस्म विदितोदितरागो ऽन्यां मुहुः कमलिनीमिव भृंगः ॥ २९ ॥
शैलसारकठिने प्रमदाना मंभसां स्तनतटे स्खलितानां ।
फेनपंक्तिरिव हारलताया द्विगुते सरसि मौक्तिकपंक्तिः ॥ ३० ॥
अंभसाहृतविलेपनभंगौ योषितां वपुषि कांतकृतानि ।
रेजिरे नखपदानि सपत्न्यु--च्चाटनार्थमिव मंत्रपदानि ॥ ३१ ॥
त्रुट्यतोपि जलपूरितरंध्रैः शुक्तिजन्मभिरपाति न हारात् ।
के त्यजंति सुदृशां कुचयुग्म--स्पर्शसौख्यमभिलब्धरसा वा ॥ ३२ ॥
नीरपूरणवशाद्रितमौनं नूपुरं चटुलपादसरोजे ।
संननाय्यसदवेदि मृगाक्ष्या गुह्यको वट इवानुपलब्धेः ॥ ३३ ॥
कंठदघ्न उदके विहरंती वाणिनीविशदपक्ष्मधत्त ।
स्मेरमब्जमिति तन्मुखवीक्षा--सख्यविश्वसितमानसमाशु ॥ ३४ ॥

. ४८ श्रीहम्मीरमहाकाव्ये [सर्गः
भापनाभ्यसमुपेत्य जलांत भर्तरि स्पृशति सक्थिकरेण ।
त्रासकंपिततनूस्तनुमध्या—श्चर्यचुंबितमवेक्षि सखीभिः ॥ ३५ ॥
प्रेयसा दशनरंध्रविमुक्तै रुक्षितोदककणैर्मदिराक्षी ।
प्रीतिजातपुलकोद्धुषितांगा कामकांडनिचितेव चकासे ॥ ३६ ॥
मुक्तगंधमपि वारिविहारैः पुष्पदाम न जहे शशिमुख्या ।
न स्वतोपि गुणवान् सुखहेयः किं पुनर्यदि स जीवनलीनः ॥ ३७ ॥
पंकजच्छददृशः कटिवस्त्रे नर्मणा व्यपहृते दयितेन ।
वस्त्रवन्निजदलानि ददानां—भोजिनी ध्रुवमधत्त सखीत्वं ॥ ३८ ॥
औक्षमौक्षमबलां ऽजितदृग्भ्यां कालिमा य उदवास्यत भर्त्रा ।
सोऽसहिष्णुवनितावदनाब्जे व्यक्ततामभजदाशु निविश्य ॥ ३९ ॥
ताडनाय समुदंचितमब्जं मत्प्रियामुखमिति प्रतिचुंबन् ।
तां स्मयेन परिवर्त्तितवक्त्रा मप्यहासयदहो कितवोन्यः ॥ ४० ॥
योषिता जलविहारवतीनां नूपुराणि रणितानि न चक्रुः ।
कः सदाचरणभाक् जलमध्ये स्वं तनोति यदि वा महिमानं ॥ ४१ ॥
सारसैरंभसि परस्परहर्षा दुज्झितैरपि सरोजमुखीभिः ।
श्रीरवाप्यत परा सुमगुच्छैः का श्रियां सुमनसो न पदं स्युः ॥ ४२ ॥
दंपती विधृतवार्यभिपूर्णा—यामशालिबिसशस्य तमास्यौ ।
प्रेमपानमिव चक्रतुरन्यो—न्यावलोकवशकूणितनेत्रौ ॥ ४३ ॥
स्मेरपंकजवने कथमन्यो ज्ञास्यदास्यकमलं कमलाक्ष्याः ।
कैतवेन कमले यदि सिक्ते नाहासिष्यदियमेव विमुग्धा ॥ ४४ ॥
चुंबितं स्मितसरोरुहबुद्ध्या तेन चाधरदले प्रहृतापि ।
कांतवक्त्रमलिना किल दष्टा—स्मीति तथ्यमपि नो बुबुधेन्या ।
वारिभिश्चलदृशामधरेभ्यो दूर्यतेस्म नवयावकरागः ।
मंडनं तदधिकं तु वितेने तत्र कांतनिहितैरदनांकैः ॥ ४६ ॥
मंडनं चपलदृग्नयनानां वारिणांजनमलोपि लवेन ।
भंजनेपि हि जडस्य मतिः किं कृत्यवस्तु वद पाटवमेति ॥ ४७ ॥

८ ] जलक्रीडावर्णनम् ४९
बिंबिते॑बुनि निजाननपद्मे कापि दृग्द्वयमवेक्ष्य झषाक्षी ।
पद्मकोशगतमीनधिया तत् गृह्णती दयितचित्तमगृहीत् ॥ ४८ ॥
सांद्रितेंबुनि किलललनानां नेत्रकज्जलभरैर्हसितैश्च ।
गांगवारिकलितं रविकन्यां मेनिरे युवजनाः किमु धन्यां ॥ ४९ ॥
एहि मंक्षु नलिनीषु निलीनां दर्शयामि सुतनो भवदाली ।
विप्रतार्य दयितामिति कश्चित्तां जिगाय निभृते पणबंधे ॥ ५० ॥
प्रौढदेवनवशाद्रितवृद्धौ सारसैर्भसि निमग्नसरोजे ।
कुंतलच्छलमिलद्भ्रमरौघे योषितां सरसिजायितमास्यैः ॥ ५१ ॥
उत्तानमंभसि सुखं प्लुतिलाघवेन निष्पंदमंबुजदृशामभितस्थुषीनां ।
रेजुः स्तनाः सुविवृता भृशमुच्छ्वसंत-
श्चक्रा इवापविवरं मिलितस्स्वकांताः ॥ ५२ ॥
व्यात्युक्षीषु भृशोक्षणाकुलितया वक्रीकृतग्रीवया
व्यालोक्य प्रतिबिंषितां स्वकबवीं पृष्ठप्रतिष्ठेंबुनि ।
प्रेयान्वाराहिशंकया स्म परया संश्लिष्यते भीतया
प्लातुं स्वासिलताशया पुनरिमां चिक्षेप हस्तं स च ॥ ५३ ॥
चिकुरनिचयमाशु खंसयामास नेत्रां—बुरुहमपि चुचुंबोरोजपीठे लुलोठ ।
जघनतटमुपासामास पस्पर्श पादौ प्रिय इव वनितानां सारसो वारिपूरः॥५४॥
स्रस्तो धम्मिल्लबंधो गलितमखिलमप्यंजनं लोचनानां
भ्रष्टो रागोघराणामविरलपुलकैर्व्याप्तमंगं समग्रं ।
नष्टा शक्तिः कपोलस्तनतटलिखितापत्रलेखाप्यपास्ता
वारिक्रीडा वधूनामजनि रतिरसस्य प्रवेशध्रुवेव ॥ ५५ ॥
परिनिस्सरच्चटुलदृग्जघनो—रसिजावलीरितरंगतति ।
अभिन्नज्जलं झगिति कूलभुवः सहयानमाभिरभितन्वदिव ॥ ५६ ॥
अत्युत्सुकत्वनिपतत्पदपातजात—स्फीतध्वनिश्रुतिवियोजितपक्षि पक्षाः ।
अन्योन्यपाणितलताडनलब्धलक्ष्या नीरान्निरीयुरथ दंपतयः सहेलं ॥ ५७ ॥
7 k

५० श्रीहम्मीरमहाकाव्ये [सर्गः
विलोक्यतां स्वच्छतयाऽबलानां जग्मुर्न वासांसि जलाद्रितानि ।
ध्रुवं परित्यागभयेन तासां निलीय देहद्युतिषु स्थितानि ॥ ५८ ॥
गतेऽगरागेपि तनूदरीणां न कायलक्ष्मीराधरीबभूव ।
स्वभावंरम्यस्य जनस्य यद्वा विभूषणं मंगलमात्रदायि ॥ ५९ ॥
विनिर्गतानां सरसो वधूनां पृष्ठे प्रलंबी शुचिकेशपाशः ।
परीक्षितुं प्रत्युत हेमपट्टे निवेशिताभात् कषपट्टिकेव ॥ ६० ॥
विनिर्गतानां सरसो वधूनां पृष्ठे प्रलंबी शुचिकेशपाशः ।
मेरोः शिलायां सुखमासितस्य शिखंडिनो बर्हमिव व्यराजत् ॥ ६१ ॥
निर्णीरितानि बिबभुर्वनिताजनानां चेलांचलैर्मृदुतरैर्नितरां वपूंषि ।
उत्तेजितानि सुमनोविशिखस्य शस्त्राणीवाखिलत्रिजगतीजयबद्धबुद्धेः ॥ ६२ ॥
उन्मिषन्नयननीलसरोजा भ्रूलतालसितकांततरंगाः ।
मुक्तबंधकचशैवलरम्याः सारसीं श्रियमलानिष नार्यः ॥ ६३ ॥
भूषापहृत्या रिपुरमस्मदीय मसौ यमात्तः सलिलं बिभर्ति ।
इति प्रकोपादिरिवांगनाभि रबध्यतावर्त्यशिरोजपाशः ॥ ६४ ॥
इत्थं विधाय जलकेलिमनन्यजन्यां
श्रीजैत्रसिंहतनयः स हमीरवीरः ।
स्वान् स्वान् गृहान् प्रतिविसृज्य जनान्सहैतान्
वेश्माससाद निजमर्थिकृतप्रसादः ॥ ६५ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर-
महाकाव्ये वीरांक जलक्रीडावर्णनोनाम षष्ठः सर्गः समाप्तः ॥
अथ सप्तमः सर्गः
अथ निशासमयागमलालसं चलदृशां प्रविदन्निव मानसं ।
चरमभूमिधराग्रिमचूलिका महिमरश्मिरभूषयदंशुभिः ॥ १ ॥
विधिवशाद्विपदं समुपेष्युषीं न खलु कोप्यवधीरयितुं क्षमः ।
गददिवेद्यहिमद्युतिमंडलः समभवद्विगलद्द्युतिमंडलः ॥ २ ॥

७ ] जलक्रीडावर्णनम् ५१
जगति-नाम पतंग इति स्फुटं मम दधुस्तदमी शलभेषु किं ।
इति वहन्निव सूरिपु कोपितां यहपुपौ जनि लोहितविग्रहः ॥ ३ ॥
अविरतांवरसंचरणोल्लसत् गुरुपरिश्रमसंगतविग्रहः ।
सलिलकेलिचिकीरिव वाहिनी दयितमध्यमगाहत भास्करः ॥ ४ ॥
जलशयेशशयांबुजनिन्हुते ककुचसिंधुसुतोरासिजभ्रमं ।
प्रवितरञ्जगतां जलधेर्जले-शकमप्रमभाद्रविमंडलं ॥ ५ ॥
भुवनचक्षुपि भास्वति वारुणी मभिनिषेव्य जडेऽपधिमज्जति ।
उचितमेव तदा त्वमपि व्यधात् यदखिलं भुवनं स्ववशं तमः ॥ ६ ॥
अहिंमभासि हृदेकतमप्रिये नयनमार्ग मतीत्य गते क्वचित् ।
अपरादिग्भवरागहुताशने प्रविविशे प्रणयेन दिनश्रिया ॥ ७ ॥
गलितभासि हृदेकतमप्रिये व्रजति भास्वति शोच्यदशांतरं ।
विशदतिव्रजैकतवतो विशात् हृदिव शोकतसः सरसीरुहां ॥ ८ ॥
विधिनियोगतयापतदापदं समभिवीक्ष्य पतिं महसामिह ।
सपदि संचुकुचे सरसीरुहे रपश्श्रिभिः सुहृदा मुचितं ह्यदः ॥ ९ ॥
सितगुरेव कुरंगकलंकभाग् मलिनहृत्क्षणदास्प वधूरपि ।
तदिहही किमवेक्ष्यत इत्यभूत् कमलिनी विनिमीलिसरोजदृक् ॥ १० ॥
उडुपतिश्रुतिपानपरिस्फुर त्वगजिगीषुतयेव दिनात्यये ।
निशि वियोगवतां पततां गणा निखिलमेव रवेः पपुरातपं ॥ ११ ॥
पुनरनाप्तिभिया पपुरातपं दिनकृतः किममून्यधिकं रुचेः ।
रथपदाह्व पतन् मिथुनानि नो यदधुना व्यपहंतं सहासितुं ॥ १२ ॥
निशि वियोगवतः पततः स्थिता बिसलतायलचंचुपुटे बभौ ।
असुगणं वनिताविरहाद्दिनि-र्जिगमिषुं विनिरोद्धुमिवार्गला ॥ १३ ॥
विसगुणोपि ययोर्युगचारिणोः कथमपि स्म नमाति पुरांतरा ।
अपि सरिद्दयितः सममात्तयो र्विलसितं न विधेः स्मृतिगोचरः ॥ १४ ॥
रुहद्दशां स्ववशे सकलं जगत् रचयितुं रतिजीवितवल्लभः ।
दिनविरामरणन्मुरजावलि-स्वनमिषेण निदेशमिवादित ॥ १५ ॥

५२ श्रीहम्मीरमहाकाव्ये [सर्गः
तिमिरराशिरुदित्वरशक्तिरप्यधित नीचपदानि पुरा वशे ।
निजसमानवशीकरणोद्यमः प्रविजिगीषुगुणो ह्ययमादिमः ॥ १६ ॥
स्मरशरव्यितदुर्दयितांगना ज्वलितदुःखहुताशकणा इव ।
प्रतिपदं कृतलोचनकौतुका रुरुचिरेतितरां शिखिकीटकाः ॥ १७ ॥
अतिविदग्धतयाभ्रमिमाचरन्न कुलटा जन आट दृशोः पथं ।
विविधयुक्तिनिषेवणहृष्टहन् मनसिजेन वितीर्णवरादिव ॥ १८ ॥
भृशमपि क्षिपति प्रतिवासरं मयि मुहुर्मुहुरेति तमः कुतः ।
इति रुषेव वहन्नतिलोहितं वपुरगादुदयं रजनीकरः ॥ १९ ॥
शमयितुं तिमिराणि यदुत्सुको—प्यमृतसूरुदियाय शनैः शनैः ।
तदिदमंकमृगो मघवाप्रिया—र्पिततृणग्रसने खलु लुब्धवान् ॥ २० ॥
भुवनभेदनसंभवशोणितो—पचितमन्मथमार्गणघर्षणैः ।
अरुणतामिव यच्छशिमंडलं श्रियमदाद्गगनस्य निजस्य च ॥ २१ ॥
क्रकचचक्रजकेसरपांडुर—प्रसृमरोरुकरोत्करकैतवात् ।
अनुनिशादयितां हिमवालुका—प्रकरमास्यदिवाखरदीधितिः ॥ २२ ॥
हृदयमध्यगतं दधदुच्चकैः स्फुटतरांकमिषेण तमस्विनीं ।
अजयदर्धवपुर्धृतवल्लभं पशुपतिं प्रणयातिशयाच्छशी ॥ २३ ॥
सरसिजानि विहाय हरिप्रि ——————————
————————— कटाक्षनिरीक्षणलक्षिता ॥ २४ ॥
हिमकरं दयितं मिलितुं निशा विवसिताद्भुतभूषणया दधे ।
अविरलोदिततारकपेटक—च्छलमयी नवमौक्तिकजालिका ॥ २५ ॥
चिरभवन्मिलनादुपगूहनं द्विजपतावदयं ददति श्रियः ।
त्रुटति हारलतास्मसमुत्पत—द्विविधमौक्तिकतारकितांबरा ॥ २६ ॥
सुमशरान्प्रविहाय सुमायुधः शशिकरान् यदमन्यत तत्पदे ।
उचितमेव नवंनवमिच्छतां परिचिते रिपुता हि महीयसी ॥ २७ ॥
किममृतैः सिसिचे किमु चंदनैः किमु हमीरकुमारयशोभरैः ।
चितमिदं जगदिंदुकरोत्करै व्यतनुतेति वितर्कपरंपरां ॥ २८ ॥

७ ] . जलक्रीडावर्णनम् ५३
प्रियसरोजदृशां रतविज्ञता—स्थितिविवेकरुविभाविव दीक्षिताः ।
विविधभोगवतां रतमंदिरे रुरुचिरे परितोपि दशौधनाः ॥ २९ ॥
प्रणयिभिः सह सांप्रतमाहवः स्मरभवो भविता गुमहादिति ।
विविधभूषणकंकटसंग्रहा ड्यहवशां सुदृशो हृदयं व्यधुः ॥ ३० ॥
श्रवणकुंडलवेणिविलोचनां—युजमृजोषपिना मृगलोचनाः ।
सपदि चक्रहपाणशरावली—प्रभृति शस्त्रचयं किमराञ्जयन् ॥ ३१ ॥
उपगते दयिते भविता मया किमिह संपतयापि मुटर्मुहुः ।
इति रणत्कलकिंकिणिकामिषा—च्छ्रवणपूरित मेखलया जगौ ॥ ३२ ॥
तरुणिमोष्मविशुष्यदुपाहिता—च्छतरचंदनलेपनकौतवात् ।
मदनयुद्धकृते परिधापिता—विव कुचौ परया नववाससा ॥ ३३ ॥
रणितकिंकिणिसन्मनिमेखला—वलिमिषेण नगोढवपूरते ।
पतिभयादभितः स्मरमंदिरं स्फुरितजागरिदुर्गमिव व्यधात् ॥ ३४ ॥
रुरुचिरतितरां रुचिरद्युति—प्रसवसंभवशेष्परराजपः ।
स्मितसरोजदृशां मुखचंद्रमः—प्रसरदुन्नतिकांतिचया ’इव ॥ ३५ ॥
सरलकुज्जलकांतिलिपिच्छलात् वशकृतौ जगतः कमिता रतेः ।
ससुभटेषु पुरोगमतां दृशोः कथयतिस्म न किं हरिणीदृशां ॥ ३६ ॥
प्रतिफलन्निह मा रजनीकरो विदितलक्ष्ममुग्वं वितनिष्ट नः ।
इति धियेव जितेन्दुकपोलयो विदधिरे नवपत्रलताः स्त्रियः ॥ ३७ ॥
सहजपाटलतातिमनोहरे दधुरमूरधरे यदलक्तकं ।
तुहिनभासिरितीकरणश्रम—भ्रमकरं तदजायत नो किमु ॥ ३८ ॥
उरसिजेषु सखीजननिर्मिता मकरिका विवभुर्मृगचक्षुषाम् ।
मकरकेतुविभोस्तनवासिता—नुमिति साधनवंधुरविभ्रमाः ॥ ३९ ॥
परिपिबन् रमणो ध्वनिमेतयो र्भवति नैव समाभरतादरः ।
चरणयोर्विधृते इति नूपुरे मृदुगिरो हृदये बहु मेनिरे ॥ ४० ॥
न पटयोरपि सूचिकया विना भवति योग्यतमा किल योजना ।
दयितसंगमनेष्विति दूतिका जनगतागतमभ्यलपन् स्त्रियः ॥ ४१ ॥

५४ श्रीहम्मीरमहाकाव्ये [सर्गः
स्वमपि कांतममूष्वभितो विला-सिनमवेक्ष्य परिच्युतमत्सरा ।
रतिरपि श्रयतिस्म तनूदरी र्वलवता हि बलं न सहोचितं ॥ ४२ ॥
अथ मिथोपि मुखांबुजदर्पणे नयनगोचरचुंबितनुश्रियः ।
उदितकामरसादियतागमो-त्सुकतरं दधिरे प्रमदा मनः ॥ ४३ ॥
चलदृशां दयितेषु समानतां-बुजरुचेव कृशत्वमाश्रयत् ।
शितिसरोजरुचेव सह क्षणा दतिशयत्वमगादनुनेतृता ॥ ४४ ॥
मृगदृशः स्म विभांति कटाक्षिताः प्रणयिभिः स्फुटितोष्मपयःकणाः ।
निशितपक्ष्मविभिन्नवपुःस्रुता-द्यरसविंदुचयोपचिता इव ॥ ४५ ॥
मृदुरवा दयितेषु यथा यथा-यतकटाक्षचयानभिचिक्षिपुः ।
रतिपतिः स्पृशति स्म तथा तथा धनुरधिज्यमसौ विदयाशयः ॥ ४६ ॥
चरणलंबितहारमिषाच्छिता-क्षवलयैस्तलिमर्जुपसोद्यमैः ।
अजनि वारवधूटिनिर्मित-प्रवलमोहनभंगभयादिव ॥ ४७ ॥
इह धृते प्रविलोकयिता स मां तमहम्प्यखिलात्मतया रते ।
इति विचिंत्य पराधितपार्श्वतो गृहमणिं ज्वलितोज्वलवर्त्तिकं ॥ ४८ ॥
अयि तनोषि किमु द्यणुकोदरी-ति निगदन्नपि भर्त्तरि सत्वरं ।
त्यजति मानमशेषमपि प्रिया-स्म कटरे रजनीसंमयोर्जितं ॥ ४९ ॥
प्रियसमागमसूचकवामदृक्-स्फुरणतो मुदिताशयय दन्यया ।
हृदयनाथमनुप्रहितापि किं निजसखी न पथः स्म निवर्त्यते ॥ ५० ॥
आपि लवो युगकोटिशतायते धृतिपरस्य जनस्य ऋते यतः ।
हृदयहारिणि तत्र किमौचितीं स्पृशति मानिनि मानपरिग्रहः ॥ ५१ ॥
अनुनयन्नपि चैवमुपेक्षितो ह्यसुभगामिव चेद्भवतों त्यजेत् ।
किमयशःपटहो न तदा तव व्रजति कोपिनि डिंडिमडंबरं ॥ ५२ ॥
रतिकृतां प्रथितो रिपुरेव य स्तमपि मानभरं परिपुष्णती ।
सुचरितेत्युदितापि तदाशये कथमिव प्रतिभासि विलासिनी ॥ ५३ ॥
प्रतिवधूरधिगत्य समं त्वया सकलहं विदधे यदि तं स्वसात् ।
तव तदास्तु पुनः स कुतः करे परिचिताः पुरुषा हि न कस्यचित् ॥५४॥

७ ] जलक्रीडावर्णनम् ५५
सखि हृदेकहितं भज मार्दवं परुषतां तु दुरंततरां त्यज ।
परुषता रचिता हि हृदीश्वरे फलति केवलमात्मनि मूढता ॥ ५५ ॥
मम वचोद्य कुरु स्वहितं नचे दनुशयं हृदयं तव यास्यति ।
इति परा प्रतिबोध्य सखीं निजां रमणमंदिरमध्यमपानयत् ॥ ५६ ॥
षड्भिः कुलकं
स कितवोऽद्य समेष्यति चेत्तदा भुजयुगेन निबध्य रतालयं ।
समुपनीय निहन्मि तथा पुरा पुनरुपैति यथा न तदालयं ॥ ५७ ॥
हृदयनिकूटमध्यकृतोद्गमा कमितरीति मनोरथवल्लरी ।
सुभगया परया परया मुदा सफलभावमनीयत सत्वरं ॥ ५८ ॥
अनुनयान्वितमाश्रितगद्गदं सखि तथा वद जीवितवल्लभं ।
स समुपैति यथा न च कुप्यती—त्यभिविबोध्य सखीप्रहितान्यया ॥ ५९ ॥
यदि वियोगमवेक्ष्यमियद्व्यथं स्मयमधास्यमिमं हृदि किं तदा ।
इति परा परितप्य मुहुर्मुहु र्नयनमालिषु दीनमयाक्षिपत् ॥ ६० ॥
प्रिय स मेद्यसि सुभ्रु विमानह त्व किमीश यशो मदनस्य किं ।
सहि भवेक्षणजः किल सोपि तत्तव परेति हृदीशमजीहसत् ॥ ६१ ॥
प्रतिदिनं शतशोऽपि निवारितो मुहुरिह त्वमुपैषि कयाऽशया ।
कृतक कोपवतीत्यपरारया दुपरि तल्पमपातयदीश्वरं ॥ ६२ ॥
विनयतो वसनं कमितुः करौ करयुगेन परा त्रपयाऽग्रहीत ।
स्वयमपि स्फुरितोद्धषणैर्गल—न्निवसना सहसाथ किमातत ॥ ६३ ॥
यतिविरोधिंलसद्रसपूर्णयो रुपरि लोलदृशस्तनकुंभयोः ।
बभतुरीशकरांबुरुहे अधो—मुखपिधानतुलामिव बिभ्रती ॥ ६४ ॥
दृगतीतौ दयिते मृगचक्षुषां हृदि लवं यदि मानभरोऽल्लसत् ।
गृहपतौ समुपैयुषि कश्चिरं परगृहे लभते यदि वा स्थितिं ॥ ६५ ॥
स्पृशति भर्त्तरि हृत् हृदयेशयः सचकितं मदनोऽन्यनतध्रुवः ।
रासमुदतिष्ठदसंशयमत्रुटन् इतरया किमु कंचुकसंधयः ॥ ६६ ॥

५६ श्रीहम्मीरमहाकाव्ये [सर्गः
सपदि गोत्रपरिस्खलनात्प्रिया मनुपरो दहनास्त्रमिवाकिरत् ।
समधित प्रतिशस्त्रमिवाथ सा जलमयं स्वदश्रुततिच्छलात् ॥ ६७ ॥
तव मुखं कमलं मम चंद्रमा स्तनदनयो रधुना स्मरकारितः ।
भवतु संधिरिति प्रवदन् परः स्वदयिताऽऽननयोजनमातनोत् ॥ ६८ ॥
तव ममाप्यधरं निपिपासतोर्विधुरतास्तु न कस्य च नेत्यथ ।
विलसतः स्म तथापपतुर्र्यथा—धरदलं सममेव वधूवरौ ॥ ६९ ॥
उपरि यावमृतस्य तयोरिहा—प्युपरितैव भवत्विति दंपती ।
विलसतः स्म तथा धरयोर्यथो—परितयैव मिथो जनि चुंबने ॥ ७० ॥
दयितयोरमृतोपरि यौ तयो रधरयोरधरेत्यभिधा कथं ।
अवगतं यदि वाधरता तयो रधरपानविधौ ग्रहणान्मियः ॥ ७१ ॥
अमृतमित्यनृतं दयिताधरो यदि तदेष न किं गद नामृतं ।
निमिमिषुर्यदमुं पिबतां दृशो विमुमुहुर्हृदयान्यपि कामिनां ॥ ७२ ॥
विशदमेव न किं दयिताविलो—कनसुधारसपानमसूचयन् ।
मुकुलिताक्षससीत्कृतशब्दिता—ननपुरः करणेन विलासिनः ॥ ७३ ॥
हृदि मयानुसृते तव सा स्वयं निरगमत्किल माऽत्र विषीद तत् ।
दयितमित्यभिधास्खलनादवा—ङ्मुखमभाषत काप्यधृताधृतिः ॥ ७४ ॥
प्रियतमाधरपल्लवचुंबनो—पनतकांतमुखेंदुमिषाच्छशी ।
मयि सुधा किल तादृगिहापि किं किमधिकेति विवेक्तुमिवालसत् ॥ ७५ ॥
दयितयोर्मिथ एक मुखासव—ग्रहणलंपटयोर्मुखसंगमे ।
द्विशशितापनिमित्तमुदलरी न किमुवाह विपर्ययवर्जनां ॥ ७६ ॥
श्रियमुखामुख एव हरन्निजां प्रियतमामुखवेषधरः शशी ।
अधरपानमिषाद्रुरुधे न किं वदनवारिरुहेण विलासिनः ॥ ७७ ॥
प्रणयिना विधृतापि मनस्विनी वपुरुवाह यदुत्पुलकं किल ।
क्रिमियतापि जगाद न सा वशं तव गतास्मि विधेहि यदीहितं ॥ ७८ ॥
भजं धृतिं त्यज भीतिमहेतुकां हियमवांचय वक्त्रमुदंचय ।
अभिनवामुपदेष्टुमिति प्रिया मजनि कोपि सखीव पटुः स्वयं ॥ ७९ ॥

७ ] शृंगारवर्णनम् ५७
जघनसंगमनोत्सुकमानसं हृदयनाथमवेत्य मृगीदृशः ।
स्वयमपासरदेव तदंशुकं किमुधिताचरणे गुणिनो ऽबुधाः ॥ ८० ॥
असह आशु विदूरायितुं परो युवतिनीविमतिश्रुटदुत्सुकः ।
विषहते समुदीरितमन्मथो न खलु कश्चन कालविलंबनं ॥ ८१ ॥
परिसमाप्तरतोपि परः प्रिया—धररसं सुरसायनमन्विबन् ।
पुनरपि स्फुरिताप्तमसायको व्यधित किं किमसो न हदीपितं ॥ ८२ ॥
शशिमुखी सुरतेषु तथा चलत्—कनककुंडलकैतवकंपितौ ।
मृगदृशः पुरुषायित मूर्जितं समभिवीक्ष्य शलक्ष्णशालिनाश्विर ॥ ८३ ॥
वरयिता रतकेलिषु कौशलं भृशमसौ वहतीति परा मुदा ।
ऋजुरणन्नूपुरसिंञ्जितै रभिजगावि तद्गुणगौरवं ॥ ८४ ॥
मम मुखस्य विधोरपि दर्शनात् तव दृशौ कुमुदे अपि मीलितः ।
किमिदामन्यपरा शयनोन्मुखं स्तनतटेन जघान हि सं मुहु ॥ ८५ ॥
पुनरुपैषि तदोकसि तां विलो—क्यति जल्पसि वाथ तया समं ।
दयितयेत्युदितो विदधे शठो नहि नहीति मृषाप्यमृगोत्तरं ॥ ८६ ॥
जहिहि लाक्षणिकीं रूपमुत्तमे नहि न वेद्मि मनस्तव यन्मयि ।
अहह पश्य तवाधरपल्लवः स्फुरति मामिव चुंबिनुमुत्सुकः ॥ ८७ ॥
अपिच रागममांतमिवाशये न यहतो न दृशौ बहिरुद्गतं ।
इति विदग्धवचाः कुपितामपि प्रियतमां न परः किमहासयत ॥ ८८ ॥ युग्मं
रचयिता सखि तत्र किमेष मां नवरतं भविता च कथंकथं ।
इति मुहुः समवादि न का सखी रतिरसोत्सुकयापि नषोढया ॥ ८९ ॥
प्रियतमे पुरुषायितलाघवं किमपि पश्यति वक्त्रिनकंधरं ।
असहया रतमुज्झितुमन्यया गृहमणिः शमितः कुसुमौहया ॥ ९० ॥
सुरतकेलिषु शुभ्रु तवाहितं किमपि चेच्छपथोऽस्तु तदात्र मे ।
ऋतगिरं यदि मां न च मन्यसे ननु विधाय न पश्यसि किं तदा ॥ ९१ ॥
इति नवां रमणीं रतये परः स्मरकलाविदुरः समवूवुपत् ।
अतिविचक्षणतातिविमुग्धता—सुगविबोध्यमिदं यदि वा द्वयं ॥ ९२ ॥
8 k

५८ श्रीहम्मीरमहाकाव्ये [सर्गः
इति नवां रमणीं रमणः परः स्मरविलासकृते समबूबुधत् ।
सततनिर्मितकामकथोलसन् नवनवोक्त्यभिषिक्तमनोभवः ॥ ९३ ॥
प्रियतमस्य भृशं सुरतार्दने शपथपूर्वमदात् सुरतं पुरा ।
तदनुलब्धरसा न तदस्मर न्नववधूर्वपुरेस्मरवल्गितं ॥ ९४ ॥
अधरपानविधौ स्तनमर्दने नखरदोल्लिखने परिरंभणे ।
क्वचिदपि स्खलति स्म न कामिनां मतिरिहाप्यवधानभृतामिव ॥ ९५ ॥
हृदि यदेव दधे दयितैरते युवतयो ऽग्रत एव तदाचरन् ।
इतरथा कथमक्रमनस्रुकता रतिरहस्यमुपैति यथार्थतां ॥ ९६ ॥
इह सुखेषु सुखं सुरतोद्भवं महदिहापि मिठोप्यनुकूलता ।
रहसि केलिरिहापि यदृच्छया सममिहापि रतिर्यदि किं पुनः ॥ ९७ ॥
प्रियसखीभिरपि प्रतिबोधिता नवरतोत्सवतोभयशांकिनी ।
अतितरां परिरभ्य हृदीश्वरं कपटमुद्रितदृक् शयितेतरा ॥ ९८ ॥
दयितदष्टरदच्छदपल्लवा नववधूः करकंपनकैकवात् ।
विगतवंति दिनानि रतोत्सवै र्विरहितानि शुशोच मुहुर्न किं ॥ ९९ ॥
रतिरसं कलयन्नितमां पर स्तदुरुतागुणविघ्नितचुंबनः ।
परिनिनिंद कुचौ मुहुरीक्षयन् नच वधूं समयः स हि तादृशः॥ १०० ॥
रतिरसोपरमे स्खलनात्परः प्रणयिनीकुचपर्वतमस्तके ।
निपतितोपि मुमूर्च्छ न सन्मुखं दृढतरोजनि रंतुमहो पुनः ॥ १०१ ॥
प्रणयिनां यदभिद्यत कौसुमै रपि शरैर्हृदयं सुमधन्वनः ।
प्रणयिनीकुचशैलमहाहती—स्तदसहिष्ट यदद्भुतमेव तत् ॥ १०२ ॥
सपरिवेशशशिश्रियमूद्वहत् भुजयुगांतरवर्ति मुखं स्त्रियः।
चिचलिषो ऽहृदयाधिपरेतसो ऽपशकुनाय न किं समजायत ॥ १०३ ॥
रतिरसं परमात्मरसाधिकं कथममी कथयंतु न कामिनः ।
यदि सुखी परमात्मविदेकको रतिविदो सुखिनौ पुनरप्युभौ ॥ १०४ ॥
अधिकृतां करकंकतयोजनां विदधतौ रहसींदुमुखीवरौ ।
विबभतुः सुगृहीतपरस्परा—विव मिथोऽप्युपपादयितुं रतिं ॥ १०५ ॥

७ ] शृंगारवर्णनम् ५९
अधिशिरोधि मिथः करकंकत—प्रगुणिताननयुग्ममिपादभात् ।
प्रणवसंपुटयंत्रमिव स्फुर—द्विवलयं रतिकृष्टिकृतेन्ययोः ॥ १०६ ॥
प्रणयिनो मुखचंद्रमसि स्फुर—त्यभिमुखं तरले परिचुंबितुं ।
अनुचितं किमिदं नवनायिका—मुखसरोजमजायत यत्पराक् ॥ १०७ ॥
रतिविरामभवादुपगूहनात् विघटनेच्छुमवेक्ष परा प्रियं ।
सुदृढमूरुयुगेन निपीडयं—स्तत हुंहुमिति स्मितजल्पितं ॥ १०८ ॥
परिपिबन् दयितो दयिताधरं मुकुलिते नयने यदसौ व्यधात् ।
किममुनैव जगाद न यत्पुरो ऽमृतमवेक्षितुमप्यरमंजसं ॥ १०९ ॥
सुरतकौशलशालिनि वलभे मुकुलिताक्षिमियात्समीविक्षत् ।
अविषयो वचसां किमिहांतरा स्फुरति द्रष्टुमिवेति परा दृशौ ॥ ११० ॥
रतकलां कलयत्यसुवलभे किमपि कुंचिमुखी सुमुखी नवा ।
हह ननेति ममेति वचोमिषात् मदनदीपनमंत्रमिवास्मरत् ॥ १११ ॥
अपदयं दयितस्य रतोत्सवं रचयतो नतनाभिपथादधः ।
करतलं ददती मुदमातनो न्नववधूरधिकां सुरतादपि ॥ ११२ ॥
अदहदीश्वरनेत्रहुताशनो रतिपतिं विदुषामिति यद्वचः ।
ऋतममंस्त तदत्र स एव यो वशयितुं प्रबभूव न मानिनीं ॥ ११३ ॥
मदनोरिरस्य मदनारिरित्यसौ मदनेन देह इति साधुरन्वयः ।
भुवि कामतलमधुनेति केवलं कथमप्यथालसदहो समंततः ॥ ११४ ॥
उत्थुष्य तल्पादितरा रतांति कांतं भुजाभ्यां दृढमालिलिंग ।
आदातुकामेव तदंगयष्टे रंगसर्वस्तमपि प्रपीड्य ॥ ११५ ॥
दद्यैांगानि यथा यथातिकठिनान्त्येपा नवोढा रते
शंके धत्त तथा तथातिकठिनं चेतोपि चित्तप्रियः ।
मा मा मा न न मुंच मुंच हहहेत्युल्लापवत्यां मुहु-
स्तस्यां नो कथमप्यथास्य करुणातारुण्यमासादयत् ॥ ११६ ॥
दंपत्योर्वदनैर्दुसंगममिपात्तथ्यं मिथश्चुंबने
किं नैवाभ्युदगच्छदच्छरुचिभृत्सद्यः शशांकद्वयं ।

६० श्रीहम्मीरमहाकाव्ये [सर्गः
आसीत्तेन महाहवः स्मरभवो यद्युक्तमेवेति तत्
प्रीतिर्यच्च परैव युक्तमपि तत् यत्क्षेत्रयोरन्यता ॥ ११७ ॥
दृष्ट्वा स्वं प्रतिबिम्बमेव वहति प्रेयानयं स्वप्रिया-
मक्ष्णीति स्ववदश्रुवारिभिरकरोन्मुग्धानिपानं पुरः ।
तत्रैव प्रतिबिम्बनान्निपतितां भर्त्रा समंयत्पद-
द्वंद्वे स्वे मुमुदे च वीक्ष्य किमितोपि स्यात्परं योषितां ॥ ११८ ॥
कोपि स्मरोन्मुक्तविषाक्तबाण-मूर्च्छामतुच्छामिव हंतुकामः ।
शैलाविवालंब्य कुचौ कराभ्यां पपौ सुधामिंदुमुखीमुखेंदोः ॥ ११९ ॥
सुरत्राणः कस्य त्वमिति मुहुरेवाभिहितया-
पणेणाक्ष्या प्रोक्तं स्मरशरशरव्यत्वमितया ।
परेषां सर्वेषामवनि हिमरुचे तव पुनः
करक्रीतादासीगिरमिति पपौ कोपि सुकृती ॥ १२० ॥
स्वाभाविकात्सुरततो विपरीतमेत-द्रागं विशिष्य सुरतं वितनोति यूनां ।
निश्चेतनाप्यजनि रागवती यदत्र शय्यासयावकवधूपदबिंबदंभात् ॥ १२१ ॥
स्मरस्मेरलीलासुतल्पोदधस्तात् प्रसूनानि बभ्राजिरे निष्पतंति ।
मृगाक्षीवपुर्वल्लिविश्लेषभावा-न्निरासानदुःखाद्ददंतीव झंपां ॥ १२२ ॥
यस्यांगं तावदेवं बहिरपि विहितस्पर्शनं कामिनीना-
मीदृक्सौख्यं विधत्ते स खलु रचयिता किं न मध्ये प्रविष्टः ।
इत्थं ध्यात्वा रता॑ते सुदृढतमपरीरंभदंभेन मध्ये
कायं प्रक्षेप्तुमैच्छन्सकलमिव हितं कातराः कातराक्ष्यः ॥ १२३ ॥
भानोः संक्र्मणे श्रयेत मृदुतां विश्वं समस्तं यथा
मन्ये शिश्रियतुस्तनावपि तथा स्त्रीणां रतेः संक्रमे ।
नैवं चेदुरुशैलवत्कठिनयोः श्रांता रता॑ते भृशं
प्रेयांसः कणशोभवन्न पतिता मध्ये तयोस्तत्कथं ॥ १२४ ॥
क्षणं माने॑माने क्षणमथ मिथः काक्षकषणे
क्षणं हासोल्लासे क्षणमथ दृढालिंगनविधौ ।