गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 69, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे पूर्वभागे प्र० १ । क० १६ ॥ ३१
और जिस का ( एवं विद्वान् ) ऐसा जानने वाला ( ब्रह्मा ) ब्रह्मा ( दक्षिणतः ) दाहिनी
ओर को ( उदङ्मुख आसीनः) उत्तर मुख बैठा हुआ ( यज्ञे ) यज्ञ में ( आज्याहुतीः )
घी की आहुतियां (जुहोति ) देता है, ( इति ब्राह्मणम् ) यह ब्राह्मण [ ब्रह्म
ज्ञान ] है ।। १५ ।।
भावार्थः--जब ब्रह्मा सर्ववेदवेत्ता और कर्मकुशल होता है, तब यजमान का यज्ञ
सफल होता है ।। १५ ।।
कण्डिका १६ ।।
ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे, स खलु ब्रह्मा सृष्टश्चिन्तामापेदे केना-
हमकेनाक्षरेण सर्वांश्च कामान् सर्वांश्च लोकान् सर्वांश्च देवान् सर्वांश्च वेदान्
सर्वांश्च यज्ञान् सर्वांश्च शब्दान् सर्वांश्च व्युष्टीः सर्वाणि च भूतानि स्थावर-
जङ्गमान्यनुभवेयमिति स ब्रह्मचर्य्यमचरत् । स ओमित्येतदक्षरमपश्यद् द्विवर्णञ्च-
तुमार्त्रं सर्वव्यापि सर्वविभवयातयामं ब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवतं तथा सर्वांश्च
कामान् सर्वांश्च लोकान् सर्वांश्च देवान् सर्वांश्च वेदान् सर्वांश्च यज्ञान् सर्वांश्च
शब्दान् सर्वांश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यन्वभवत्तस्य प्रथमेन
वर्णेनापस्नेहंश्चान्वभवत्तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्यन्वभवत् ।। १६ ।।
कण्डिका १६ ॥ ब्रह्मा का ब्रह्मचर्य, ओम् जगत् की सृष्टि ॥
( ब्रह्मा ह वै ) ब्रह्म ने निश्चय करके ( ब्रह्माणम् ) ब्रह्मा [ अपने सामर्थ्य
विशेष ] को ( पुष्करे ) आकाश में ( ससृजे ) उत्पन्न किया । (सः खलु ब्रह्मा सृष्टः )
वह भी ब्रह्मा उत्पन्न होकर ( चिन्ताम् आपेदे ) चिन्ता को प्राप्त हुआ-( अहम् ) मैं
( केन एकेन अक्षरेण ) कौन से एक अक्षर [ अविनाशी ब्रह्म ] से ( सर्वान् च कामान् )
सब ही कामनाओं, (सर्वान् च लोकान् ) और सब लोकों, (सर्वान् च देवान् ) और सब
दिव्य पदार्थों, (सर्वान् च वेदान् ) और सब वेदों, ( सर्वान् च यज्ञान् ) और सब यज्ञों
[ देवपूजा संगतिकरण और दान ] ( सर्वान् च शब्दान् ) और सब शब्दों (सर्वाः च
व्युष्टीः ) और सब विविध बस्तियों, ( सर्वाणि च स्थावरजङ्गमानि भूतानि ) सब
स्थावर और जङ्गम सत्ताओं को ( अनुभवेयम् इति ) बनाऊँ । (सः ब्रह्मचर्य्यम् अचरत् )
( अपहन्ति ) हन हिंसागत्योः । दूरे गमयति ( अपात्येति ) अप + अति + इण्
गतौ-लट् । उल्लङ्घ्य गच्छति ( आजातिम् ) आङ् ईषदर्थे । अल्पजीवनम् ।
( कामचारः ) स्वेच्छागमनम् ॥
१६--(पुष्करे) पुषः कित् (उ० ४ । ४) पुष्यतेः करन् कित् । पुष्करमन्तरिक्षं
पोषति भूतानि-निरु० ५ । १४ । अन्तरिक्षे । अवकाशे (व्युष्टीः) वि + वस निवासे-
क्तिन् । विविधवसतीः (भूतानि) भू सत्तायां-क्तः। सत्तामात्राणि (अनुभवेयम्) अनु-भू
सत्तायाम् । कुर्याम् । उत्पादयेयम् (ब्रह्मचर्य्यम्) क० १३ । ओम्-क० ५ (अयातयाम-
ब्रह्म) न + या प्रापणे-क्तः । अस्तिस्तुसुहु० (उ० १ । १४०) या प्रापणे-मन् । यद्वा यम
उपरमे--वन् । न यातो गतो यामः समयो यस्मात् तेन तथामूतेन ब्रह्मणा युक्तम् ।