सामग्री पर जाएँ
सर्वकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 494, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 494

४१६ गोपथब्राह्मणे उत्तरभागे प्र० ५ । क० ३ ॥
यः स्तुवते, तेन रात्रिः पञ्चदशस्तोत्रा, तेनोभे पञ्चदशस्तोत्रे भवतः, तेन ते समा-
वद्भाजी भवतः । परिमितं स्तुवन्त्यपरिमितमनुशंसन्ति, परिमितं भूतमपरिमितं
भव्यमपरिमितान्येवावरुन्द्ध्यादित्यतिशंसन्ति । स्तोममति वै प्रजास्यात्मानमति
पशवः । तद्यदेवास्यात्या१त्मानन्तदेवास्यैतेनाप्याययन्ति । अथो द्वयं वा इदं सर्वं स्नेह-
श्चैव तत्तेजश्च । अथ तदहोरात्राभ्यामाप्तं२ स्नेहतेजसोराप्त्यै । गायत्रीं स्तोत्रियानु-
रूपं शंसन्ति, तेजो वै गायत्री, तमः पाप्मा, रात्रिस्तेन तेजसा तमः पाप्मानन्तरन्ति
पुनरादाय३, शंसन्ति । एवं हि सामगाः स्तुवते, यथास्तुतमनुशस्तं भवति । न हि
तत् स्तुतं यन्नानुशस्तम् । तदाहुः, अथ कस्मादुत्तमात् प्रतीहारादाहूय साम्ना
शस्त्रमुपसन्तन्वन्तीति ॥ ३ ॥
कण्डिका ३ ॥ अतिरात्र यज्ञ में पवमान आदि स्तोत्रों का विचार ॥
( पवमानवत् अहः इति आहुः, रात्रिः पवमानवती न, कथम् उभे पव-
मानवती भवतः, केन ते समावद्भाजौ भवतः इति ) वे [ ब्रह्मवादी ] कहते हैं दिन
[ यज्ञ ] पवमान स्तोत्र वाला है, और रात्रि [ यज्ञ ] पवमान स्तोत्र वाली नहीं है, कैसे
दोनों [ दिन और रात ] पवमान स्तोत्र वाले होते हैं और किस कारण से वे दोनों एक से
भाग वाले होते हैं । [ इसका समाधान ] ( इन्द्राय मद्वने सुतम्. इदं वसो सुतमन्धः,
इदं हि अन्वोजसा सुतम् इति—यत् एव स्तुवन्ति च शंसन्ति च, तेन रात्रिः पव-
मानवती, तेन उभे पवमानवती भवतः, तेन ते समावद्भाजौ भवतः ) इन्द्राय
मद्वने सुतम्.......ऋ० ८ । ६२ । १६, [ सायणभाष्य ८१ ] । साम० उ० २ । ७ । ४ ।
इदं वसो सुतम् अन्धः.......ऋ० ८ । २ । १, सा० पू० २ । ३ । १०, इदं हि अनु ओजसा
सुतम्.......ऋ० ३ । ५१ । १०, सा० पू० २ । ८ । १, इन [ तीन मन्त्रों ] से वे [उद्गाता
लोग ] स्तोत्र पढ़ते हैं और [ होता लोग ] शस्त्र पढ़ते हैं, इससे रात्रि पवमान स्तोत्र
वाली है [ क्योंकि तीनों मन्त्रों में सुत—निचोड़ा गया सोम—शब्द पवमानवाची है ], इस
से दोनों पवमान स्तोत्र वाले हैं, इस कारण से वे दोनों एकसे भाग वाले हैं ॥
( पञ्चदश स्तोत्रम् अहः इति आहुः रात्रिः पञ्चदश स्तोत्रा न, कथम् उभे
पञ्चदश स्तोत्रे भवतः, केन ते समावद्भाजौ भवतः इति ) वे [ ब्रह्मवादी ] कहते
३— (पवमानवत्) पवमानस्तोत्रयुक्तम् ( उभे ) अहोरात्रे ( समावद्भाजौ )
समानभागयुक्ते ( मद्वने ) अन्येभ्योऽपि दृश्यन्ते (पा० ३ । २ । ७५) मदी हर्षे
—क्वनिप् । हर्षशीलाय ( सुतम् ) अभिषुतं सोमम् ( वसो ) हे वासयितः ( अन्धः )
अन्नम् ( ओजसा ) बलेन (स्तुवन्ति) उद्गातारः स्तोत्रं पठन्ति ( शंसन्ति ) होतारः
शस्त्रं पठन्ति ( पवमानवती ) पवमानस्तोत्रयुक्ता । तथा द्विवचनस्य ईकारादेशः
१. पू. सं. 'त्या' पाठः नास्ति ॥ २. पू. सं. 'आप्यं' इति पाठः ॥
३. पू. सं 'आदायं' इति पाठः ॥ सम्पा० ॥