गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 490, कुल 600 में से
संदर्भ में पढ़ें४५२ गोपथब्राह्मणे उत्तरभागे प्र० ४ । क० १०.
( वाचः वै एतौ स्तनौ, ते वाव सत्यानृते ) वाणी के [ स्त्रीलिङ्ग होने से ] यह दोनों
स्तन [ कुच वा चूची ] हैं जो ही सत्य और झूठ हैं। ( सत्यम् एनम् अवति अनृतम् एनं न
हिनस्ति, यः एवं वेद ) सत्य उसकी रक्षा करता है और झूठ उसको नहीं सताता है जो
ऐसा जानता है ॥ १६ ॥
भावार्थ :--मनुष्य को उन्नति के लिये सत्य का ग्रहण और असत्य का त्याग करना
चाहिये ॥ १६ ॥
विशेषः १--एकाह यज्ञ समाप्त हुआ ॥
विशेषः २ - इस कण्डिका को मिलाओ--ऐ० ब्रा० ४ । १ ॥
विशेषः ३--( ते वा ) के स्थान पर ( द्वे वा ) ऐ० ब्रा० से शुद्ध किया है ॥
इति श्रीमद्राजाधिराज-प्रथितमहागुणमहिम-श्रीसयाजीराव-गायकवाहा-
धिष्ठित-बड़ोदेपुरीगत-श्रावणमासदक्षिणापरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु
लब्धदक्षिणेन श्री पण्डित क्षेमकरणदास त्रिवेदिना अथर्ववेदभाष्यकारेण
कृते गोपथब्राह्मणभाष्य उत्तरभागे चतुर्थः प्रपाठकः समाप्तः ॥
अय प्रपाठकः प्रयागनगरे माघमासे शुक्लचतुर्दश्यां तिथौ १९८० [ अशी-
त्युत्तरेकोनविंशतिशतके ] विक्रमीये संवत्सरे सुसमाप्तिमगात् ॥
मुद्रितम्—आश्विनशुक्ला ४ संवत् १९८१ वि० ता० २ अक्टूबर सन् १९२४ ई० ॥
अथ पञ्चमः प्रपाठकः ॥
कण्डिका १ ॥
ओम् । अहर्वै देवा आश्रयन्त रात्रीमसुराः । तेऽसुराः समावद्वीर्य्या एवा-
सन्, नो व्यावर्तन्त । सोऽब्रवीत् इन्द्रः, कश्चाहं चेमानसुरान् रात्रीमन्ववैष्यामहा
इति । स देवेषु न प्रत्यविन्दत्, अभिभूय रात्रेस्तमसः । मृत्योस्तम इव हि रात्रिः,
मृत्युर्वै तमः, तस्माद्वाप्येतर्हि भूयानिव नक्तम् । स यावन्मात्रमिवाप¹क्रम्य बिभेति,
तं वै छन्दांस्येवान्ववायन्। तद्यच्छन्दांस्येवान्ववायन्, तस्मादिन्द्रश्च छन्दांसि च
रात्रिं वहन्ति, न निविच्छस्यते न पुरोरुङ् न धाय्या नान्या देवता। इन्द्रश्च ह्येव
छन्दांसि च रात्रिं वहन्ति तान्वै पर्य्यायैः पर्य्यायमनुदन्त । यत् पर्य्यायैः पर्य्याय-
मनुदन्त, तस्मात् पर्य्यायाः, तत् पर्य्यायाणां पर्य्यायत्वम् । तान्वै प्रथमैरेव पर्य्यायैः
पूर्वरात्रादनुदन्त, मध्यमैर्मध्यरात्रादुत्तमैरपररात्रात् । अपिशर्वर्या अपिस्मसीत्य-
ङ्गस्य ) अभिप्राप्तस्य ( स्तनौ ) स्तन मेघशब्दे—अच् । स्त्रीणाम् अङ्गभेदौ (सत्या-
नृते ) सत्यं यथार्थवदनं च अनृतं मिथ्यावदनं च ( अवति ) रक्षति ( हिनस्ति )
दुःखयति ॥
१. पू. सं. “आप्रक्रम्य” इति पाठः ॥ सम्पा० ॥