गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 451, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० ४ । क० २ ४१३
कण्डिका २ ॥
तं वो दस्ममृतीषहं. तत्त्वा यामि सुवीर्य्यमिति ब्राह्मणाच्छंसिनः स्तोत्रिया-
नुरूपौ । उदु त्ये मधुमत्तमा गिर इति बार्हतः प्रगाथः । पशवो वै प्रगाथः, पशवः
स्वरः, पशूनामाप्त्यै । अतो मध्यं वै सर्वेषां छन्दसां बृहती, मध्यं माध्यन्दिनं
सवनानां, तन्मध्येनेव मध्यं समर्द्धयति । इन्द्रः पूर्भिदातिरद्दासमर्कैरित्युक्थमुखम् ।
उदु ब्रह्मारायैरत श्रवस्येति पर्य्यासः । एवेदिन्द्रं वृषणं वज्रबाहुमिति परिदधाति ।
वसिष्ठासो अभ्यर्चन्ति अर्कैरिति । अन्नं वा अर्कोऽन्नाद्यमेवास्मै तत्परिदधाति । स
न स्तुतो वीरवद्धातु गोमदिति, प्रजाञ्चैवास्मै तत्पशूंश्चाशास्ते । यूयं पात स्वस्तिभिः
सदा न इति, स्वस्तिमती रूपसमृद्धा । एतद्वै यज्ञस्य समृद्धं, यत् रूपसमृद्धम् ।
यत् कर्म्म क्रियमाणमृग्यजुर्वाभिवदति, स्वस्ति तस्य यज्ञस्य पारमश्नुते । य एवं वेद
यश्चैवं विद्वान् ब्राह्मणाच्छंसी एतया परिदधाति । ऋजीषी वज्री वृषभस्तुराषा-
डिति यजति । एतामेव तद्देवतां यथाभागं प्रीणाति, वषट्कृत्यानुवषट्करोति ।
प्रत्येवाभिमृशन्ते नाप्याययन्ति, न ह्यानाराशं॰साः सीदन्ति ॥ २ ॥
कण्डिका २ ॥ एकाह यज्ञ के माध्यन्दिन सवन में ब्राह्मणाच्छंसी
के मन्त्र प्रयोग ॥
( तं वो दस्ममृतीषहम्, तत् त्वा यामि सुवीर्यम्, इति ब्राह्मणाच्छंसिनः
स्तोत्रियानुरूपौ ) तं वो दस्ममृतीषहं......और तत् त्वा यामि सुवीर्यम्...यह दो
मन्त्र ब्राह्मणाच्छंसी [ ऋत्विज् ] के स्तोत्रिय और अनुरूप हैं। ( उदु त्ये मधु-
मत्तमा गिरः...इति बार्हतः प्रगाथः ) उदु त्ये मधुमत्तमा गिरः...यह मन्त्र बृहती
छन्द वाला प्रगाथ [ अच्छे प्रकार गाने योग्य स्तोत्र ] है । ( पशवः वै प्रगाथः,
पशवः स्वरः पशूनाम् आप्त्यै ) पशुओं [ के तुल्य ] ही प्रगाथ है, पशुओं [ के
तुल्य ] ही स्वर है, पशुओं की प्राप्ति के लिये [ वह बोला जाता है—देखो गो०
उ० ३ । २२ ] । ( अतः सर्वेषां छन्दसां मध्यं वै बृहती, सवनानां मध्यं माध्यं-
दिनम्, तत् मध्येन एव मध्यं समर्थयति ) इसलिये कि सब छन्दों का मध्य
ही बृहती है [ गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्क्ति, त्रिष्टुप् और जगती—इन सात
छन्दों में बृहती मध्यम है ], [ तीनों ] सवनों का मध्य माध्यन्दिन है, इसलिये मध्य से ही
मध्य को वह सम्पन्न करता है । ( इन्द्रः पूर्भिदातिरद् दास मर्कैः...इति उक्थमुखम् )
इन्द्रः पूर्भिदातिरद् दासमर्कैः...यह मन्त्र उक्थ [ स्तोत्र ] का आरम्भ है । ( उदु ब्रह्माण्यैरत
१-( तम् ) प्रसिद्धम् ( वः ) युष्मदर्थम् ( दस्मम् ) इषिबुधीन्धिदसि०
( उ० १ । १४५ ) दस दर्शनसंदंशनयोः-मक् । दर्शनीयम् ( ऋतीषहम् ) सांहित-
को दीर्घः । ऋतयो बाधकाः शत्रवः, तेषामभिभवितारम् । तत् , तादृक् ( त्वा )
त्वाम् ( यामि ) याचामि-निरु० २ । १ । याचे ( सुवीर्यम् ) महद्वीरवत्त्वम्
( उत् ) ऊर्ध्वम् ( उ ) चार्थे ( त्ये ) ते ( मधुमत्तमाः ) अतिशयेन मधुराः