गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 445, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० ३ । क० २३ ४०७
करें । ( तत् यज्ञम् उन्मूलम् एव कुर्युः ) [ जो वे अन्यथा करें ] उस यज्ञ को ही वे
निर्मूल कर दें । ( तस्मात् ताः सामान्याः एव स्युः ) इसलिये वे [ धाय्यायैं और
याज्यायैं ] सामान्य [ सब यज्ञों में समान ] ही होवें ॥ २२ ॥
भावार्थः- जैसे यज्ञ में उत्तम स्वर से अवसर के अनुसार स्तुति की जाती है, वैसे
ही मनुष्यों को सब स्थानों में मनोहर वाणी से अवसर के अनुकूल बोलना चाहिये ॥ २२ ॥
विशेषः १-इस कण्डिका को ऐतरेय ब्राह्मण ३ । २४ से मिलाओ ॥
विशेषः २-( शंस्तव्या प्रतिवादिनी ) के स्थान पर ( शंस्तव्याप्रतिवा-
दिनी = शंस्तव्या-अप्रतिवादिनी ) ऐतरेय ब्राह्मण से ठीक किया है ।
कण्डिका २३ ॥
तदाहुः, किंदेवत्यो यज्ञ इति । ऐन्द्र इति ब्रूयात्, ऐन्द्रे वावै यज्ञे सति
यथाभागमन्या देवता न्वावायन् । ता प्रातःसवने मरुत्वतीये तृतीयसवने च ।
अथ हैतत् केवलमेवेन्द्रस्य, यदूर्ध्वं मरुत्वतीयात् । तस्मात् सर्वे निष्केवल्यानि
शंसन्ति । यदेव निष्केवल्यानि, तत् स्वर्गस्य लोकस्य रूपम् । यद्धैव निष्केवल्यानि,
एकं ह वा अग्रे सवनमासीत् प्रातःसवनमेव । अथ हैतं प्रजापतिरिन्द्राय ज्येष्ठाय
पुत्रायैतत् सवनं निरमिमत, यत् माध्यन्दिनं सवनम् । तस्मात् माध्यन्दिने सवने
सर्वे निष्केवल्यानि शंसन्ति । यदेव निष्केवल्यानि, तत् स्वर्गस्य लोकस्य रूपम् ।
यद्धेव निष्केवल्यानि, या ह वै देवताः प्रातःसवने होता शंसति, ताः शस्त्वा
होत्राशंसिनोऽनुशंसन्ति । मैत्रावरुणं तृचं प्रउगे होता शंसति तदुभयं मैत्रावरु-
णम्, मैत्रावरुणं मैत्रावरुणोऽनुशंसति । ऐन्द्रं तृचं प्रउगे होता शंसति, तदुभय-
मैन्द्रम् । ऐन्द्रं ब्राह्मणाच्छंस्यनुशंसति, ऐन्द्राग्नं तृचं प्रउगे होता शंसति तदुभय-
मैन्द्राग्नम् । ऐन्द्राग्नमच्छावाकोऽनुशंसति । अथ हैतत् केवलमेवेन्द्रस्य, यदूर्ध्वं
मरुत्वतीयात् । तस्मात् सर्वे निष्केवल्यानि शंसन्ति । यदेव निष्केवल्यानि, तत्
स्वर्गस्य लोकस्य रूपम् । यद्धेव निष्केवल्यानि, यदेददेवीर्सहिष्ट माया अथाभवत्
केवलः सोमो अस्येति ऋचाभ्यनूक्तम् । देवान् ह यज्ञन्तन्वा¹नान् असुररक्षांस्य-
जिघांसन् । तेऽब्रुवन्, वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति, मध्यतो
वसिष्ठं, उत्तरतो भरद्वाजं, सर्वाननु विश्वामित्रम् । तस्मात् मैत्रावरुणो वामदे-
वान्न प्रच्यवते, वसिष्ठाद् ब्राह्मणाच्छंसी, भरद्वाजादच्छावाकः, सर्वे विश्वामि-
त्रात् । एत एवास्मै तदृषयोऽहरहर्नमर्गा अप्रमत्ता यज्ञं रक्षन्ति, य एवं वेद य एवं
वेद ॥ २३ ॥
इत्यथर्ववेदस्य गोपथब्राह्मणोत्तरभागे तृतीयः प्रपाठकः समाप्तः ।
अन्न-अशंआदाच् । अन्नवत्यः ( अन्नात् ) अन्नाय (उन्मूलम्) उन्मूलितम् ।
उत्पाटितम् ( सामान्याः ) साधारणाः ॥
१. पू. सं. 'तन्वानाः' इति पाठः ॥ सम्पा० ॥