गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 432, कुल 600 में से
संदर्भ में पढ़ें३६४ गोपथब्राह्मणे उत्तरभागे प्र० ३ । क० १६
उत्पन्न संसार में (सोमपातमा) अत्यन्त सोम [तत्त्व रस] के पीने वाले [अथवा
अत्यन्त ऐश्वर्य के रक्षक] हैं॥
६-इन्द्राग्नी आगतम्-ऊपर संख्या २ देखो॥
कण्डिका १६॥
अथ शंसावोमिति, स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयायै इति,
चतुश्चतुराह्वयन्ते । चतस्रो वै दिशः, दिक्षु तत् प्रतितिष्ठन्ति । अथो चतुष्पादः पशवः,
पशूनामाप्त्यै अथो चतुष्पर्वाणो हि प्रातःसवने होत्रकाः । तस्माच्चतुःसर्वे गायत्राणि
शंसन्ति । गायत्रं हि प्रातःसवनं सर्वे समवतीभिः परिदधति । तद्यत् समवतीभिः
परिदधति, अन्तो वै पर्यासोऽन्त उदर्कः, अन्तेनैवान्तं परिदधति । सर्वे मद्वतीभिर्यजन्ति,
तद्यत् मद्वतीभिर्यजन्ति । सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति । यद्यज्ञेऽभिरूपं,
तत्समृद्धम् । सर्वेऽनुवषट् कुर्वन्ति, स्विष्टकृत्त्वा अनुवषट्कारो नेत् स्विष्टकृतमन्तरया-
मेति । अयं वै लोकः प्रातःसवनम् । तस्य पञ्च दिशः पञ्चोक्थानि । प्रातःसवनस्य स
एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोत्येताः पञ्च दिश आप्नोति ॥ १६ ॥
कण्डिका १६ ॥ प्रातःसवन में (शंसावोम्) मन्त्र को
चार चार बार बोलें ॥
(अथ शंसावोम् इति, स्तोत्रियाय अनुरूपाय उक्थमुखाय परिधानीयायै
इति चतुः चतुः आह्वयन्ते) फिर (शंसाव ओम्) हम दोनों स्तुति करें, हां
[क० १०]-इस मन्त्र से स्तोत्रिय [स्तुति योग्य व्यवहार] के लिये, अनुरूप [विषय
की अनुकूलता] के लिये, उक्थमुख [यज्ञ की मुख्यता] के लिये और परिधानीया
[समाप्ति क्रिया] के लिये--इस प्रकार चार चार बार वे बोलते हैं। (चतस्रः वै दिशः,
दिक्षु तत् प्रतितिष्ठन्ति) चार ही दिशा हैं, दिशाओं में उससे वे [याजक] प्रतिष्ठा
पाते हैं। (अथो चतुष्पादः पशवः, पशूनाम् आप्त्यै) फिर चार पांव वाले पशु होते हैं,
पशुओं की प्राप्ति के लिये [यह यज्ञ है]। (अथो प्रातः सवने चतुष्पर्वाणः हि
होत्रकाः) फिर प्रातःसवन में चार प्रकार वाले ही सहायक होता लोग होते हैं। (तस्मात्
चतुः सर्वे गायत्राणि शंसन्ति) इसलिये चार बार वे सब गायत्री [गाने योग्य] छन्द
वाले स्तोत्रों को बोलते हैं। (गायत्रं हि प्रातःसवनं सर्वे समवतीभिः परिदधति, यत्
तत् समवतीभिः परिदधति) गायत्री [गाने योग्य] छन्द वाले ही प्रातःसवन को वे सब
समवती ऋचाओं से [सम शब्द वाली ऋचाओं से जैसे-समं ज्योतिः सूर्येण...... अथर्व०
१६-(शंसावोम्) क० १० (स्तोत्रियाय) स्तुतियोग्यव्यवहाराय
(अनुरूपाय) विषयानुकूलत्वाय (उक्थमुखाय) यज्ञमुख्यतायै (परिधानीयायै)
समाप्तिक्रियायै (प्रतितिष्ठन्ति) प्रतिष्ठां प्राप्नुवन्ति (चतुष्पर्वाणः) स्नामदि-
पद्यर्तिपृ० (उ० ४ । ११३ ।) पृ पालनपूरणयोः-वनिप् । चतुरङ्गोपेतः
(समवतीभिः) समशब्दयुक्ताभिः ऋग्भिः (उदर्कः) उत्+ऋच स्तुतौ-घञ् ।