सामग्री पर जाएँ
सर्वकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 359, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 359

गोपथब्राह्मणे उत्तरभागे प्र० २। क० ७॥ ३२१
पराजयामहा इति त एताः पुरः प्रत्यकुर्वत, हविर्धानन्दिव आग्नीध्रमन्तरिक्षात्सदः
पृथिव्याः। ते देवा अब्रुवन्, उपसदमुपायाम, उपसदा वै महापुरञ्जयन्तीति। त
एभ्यो लोकेभ्यो निरघ्नन्, एकयामुष्माल्लोकादेकयान्तरिक्षादेकया पृथिव्याः।
तस्मादाहुः, उपसदा वै महापुरञ्जयन्तीति। त एभ्यो लोकेभ्यो निर्हता ऋतून्
प्राविशन्। ते षडुपायन्, तानुपसद्भिरेवर्तुभ्यो निरघ्नन्, द्वाभ्याममुष्माल्लोकाद्
द्वाभ्यामन्तरिक्षाद् द्वाभ्यां पृथिव्याः। ते ऋतुभ्यो निर्हताः संवत्सरं प्राविशन्।
ते द्वादशोपायन्, तानुपसद्भिरेव संवत्सरान्निरघ्नन्, चतसृभिरमुष्माल्लोकाच्चत-
सृभिरन्तरिक्षाच्चतसृभिः पृथिव्याः। ते संवत्सरान्¹निर्हता अहोरात्रे प्राविशन्, ते
यत्सायमुपायन्, तेनैतान् राज्या अनुदन्त, यत् प्रातः, तेनाह्नः। तस्माद् गौः साय-
म्प्रातःस्तनमप्यायते। प्रातःसायन्तन्तानुपसद्भिरेवैभ्यो लोकेभ्यो नुदमाना आयन्,
ततो देवा अभवन् परासुराः। सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यन्नुदमान एति, य
एवं विद्वानुपसदमुपैति ॥ ७ ॥
कण्डिका ७ ।। देवासुर सङ्ग्राम में उपसद् यज्ञ द्वारा देवताओं की विजय ।।
( देवाः च ऋषयः च ह वै असुरैः संयत्ताः आसन् ) देव [ विद्वान् ] और ऋषि
[ सन्मार्गदर्शक लोग ] असुरों [ राक्षसों वा विघ्नों ] करके वशीभूत हुये। ( तेषाम्
असुराणाम् इमाः पुरः प्रत्यभिजिताः आसन्, अयस्मयी पृथिवी, रजता अन्तरिक्षं,
हरिणी द्यौः ) उन असुरों करके यह नगरियां [ देवताओं से ] लड़कर जीती हुयी
थीं—गति [ वा सुवर्ण ] वाली [ नगरी ] पृथिवी, सब लोकों वाली [ नगरी ] अन्तरिक्ष
और प्रकाश वाली [ नगरी ] सूर्यलोक । ( ते देवाः सङ्घातं सङ्घातं पराजयन्त ) वे
देवता टोली टोली करके हराये गये । ( ते विदुः, अनायतनाः हि वै श्यः स्मः, तस्मात्
पराजयामहै इति त एताः पुरः प्रत्यकुर्वत, हविर्धानं दिवः, आग्नीध्रम् अन्तरिक्षात्,
सदः पृथिव्याः ) उन्होंने विचारा—घरों के बिना हम सोते हुये हैं, इसलिये [ असुरों को ]
७-( देवाः ) विद्वांसः ( ऋषयः ) सन्मार्गदर्शकाः ( असुरैः ) असेरुन्
( उ० १ । ४२ ) असु क्षेपणे—उरन् । शुभगुणस्य क्षेपणशीलैः । राक्षसैः । विघ्नैः ।
( संयत्ताः ) सम् + यती प्रयत्ने—क्तः । आयत्ताः वशीभूताः ( पुरः ) नगराणि ।
दुर्गाणि ( अयस्मयी ) सर्वधातुभ्योऽसुन् ( उ० ४ । १८६ ) इण् गतौ—असुन् । अयः,
हिरण्यनाम—निघ० १ । २ । सुवर्णमयी । गतिमती ( रजता ) सृषिरञ्जिभ्यां कित्
( उ० ३ । १११ ) रञ्ज रागे—अतच्, ततः अर्शआद्यच् टाप् । लोका रजांस्युच्यन्ते—
निरु० ४ । १९ । रज एव रजतं, सर्वलोकमयी नगरी ( हरिणी ) श्यास्त्याहृञ्भविभ्य
इनच् ( उ० २ । ४६ ) हृञ् हरणे—इनच्, ङीप् । मत्वर्थीयलोपः । हिरण्मयी ।
प्रकाशमयी ( द्यौः ) सूर्यलोकः ( सङ्घातम् ) समूहम् ( अनायतनाः ) आश्रयरहिताः
( श्यः ) शीङ् स्वप्ने—क्विप् । शयिताः । निद्रिताः ( प्रत्यकुर्वत ) प्रतिकूलाः
कृतवन्तः ( हविर्धानम् ) हविषः अन्नस्य यज्ञस्थानविशेषम् ( सदः ) सदनस्थानम्
१. पू. सं. 'संवत्सरा' इति पाठः ॥ सम्पा० ॥
२१˙