गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 229, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे पूर्वभागे प्र० ४ । क० ६ १९१
कण्डिका ९ ॥
अहोरात्राभ्यां वै देवाः प्रायणीयमन्तरात्रं निरमिमत १, अर्द्धमासेभ्यश्चतुर्विंश-
महः २, ब्रह्मणोऽभिप्लवं ३, क्षत्रात् पृष्ठ्यम् ४, अग्नेरभिजितम् ५, अद्द्भ्यः स्वर-
सामानः ६, सूर्याद्विषुवन्तम् ७ उक्ता आवृत्ताः स्वरसामानः । इन्द्राद्विश्वजितम् ८,
उक्तौ पृष्ठ्याभिप्लवौ मित्रावरुणाभ्यां गवायूषी¹ ६, विश्वेभ्यो देवेभ्यः दशरात्रं
१०, दिग्भ्यो दशरात्रिकं पृष्ठ्यं षडहम् ११, एभ्यो लोकेभ्यः छन्दोमत् त्र्यहं १२,
संवत्सरात् दशममहः १३, प्रजा¹पतेर्महाव्रतं १४, स्वर्गाल्लोकादुदयनीयमतिरात्रं
१५, तद्वा एतत् संवत्सरस्य जन्म, स य एवमेतत् संवत्सरस्य जन्म वेद संवत्सरेण
सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणम् ॥ ६ ॥
कण्डिका ९ ॥ प्रायणीय अतिरात्रादि पन्द्रह प्रकार के यज्ञ और संवत्सर ॥
(अहोरात्राभ्यां वै देवाः प्रायणीयम् अतिरात्रं निरमिमत) दिन और रात
से ही विद्वानों ने प्रायणीय [पाने योग्य] अतिरात्र [रात्रि में पूरा होने वाले यज्ञ] को
बनाया । १ । (अर्धमासेभ्यः चतुर्विंशम् अहः) आधे महीनों से चतुर्विंशमहः [चौबीस
अवयव वाले दिन अर्थात् यज्ञ] को । २ । (ब्रह्मणः अभिप्लवम्) ब्रह्मा से अभिप्लव
[उछल जाना, यज्ञ] को । ३ । (क्षत्रात् पृष्ठ्यम्) क्षत्रिय से पृष्ठ्य [सेचन यज्ञ]
को । ४ । (अग्नेः अभिजितम्) अग्नि [पराक्रम] से अभिजित् [विजय यज्ञ]
को । ५ । (अद्भ्यः स्वरसामानः) जल से स्वरसामों [स्वर सहित साम वाले यज्ञों]
को । ६ । (सूर्यात् विषुवन्तम्) सूर्य से विषुवत् [तुल्य रात्रि दिन के काल, अर्थात्
ग्रीष्म विषुवत् और हेमन्त विषुवत् वाले यज्ञ] को । ७ । (आवृत्ताः स्वरसामानः उक्ताः)
बार बार आने वाले स्वरसाम यज्ञ कहे गये । (इन्द्रात् विश्वजितम्) इन्द्र [ऐश्वर्य्य-
वान्] से विश्वजित् [दिग्विजय यज्ञ] को । ८ । (पृष्ठ्याभिप्लवौ उक्तौ) पृष्ठ्य और
अभिप्लव यज्ञ कहे गये । (मित्रावरुणाभ्यां गवायूषी) मित्र और वरुण [प्राण और अपान]
से गवायूषी [गौ विद्या वा पृथिवी और आयु अर्थात् जीवन दो यज्ञों] को । ६ ।
(विश्वेभ्यो देवेभ्यः दाशरात्रम्) विश्वे देवाओं [सब दिव्य गुणों] से दशरात्र [दशरात्रि
यज्ञ] को । १० । (दिग्भ्यः दशरात्रिकं पृष्ठ्यं षडहम्) दिशाओं से दशरात्रिक पृष्ठ्य
षडह को । ११ । (एभ्यो लोकेभ्यः छन्दोमत् त्र्यहम्) इन लोकों से छन्दोमत् त्र्यह
[छन्दयुक्त तीन दिन वाले यज्ञ] को । १२ । (संवत्सरात् दशम् अहः) संवत्सर [वर्ष]
से दशम अहः [दसवें दिन वाले यज्ञ] को । १३ । (प्रजापतेः महाव्रतम्) प्रजापति
[पुरुष] से महाव्रत [उत्तम नियम] को । १४ । (स्वर्गात् लोकात् उदयनीयम्
९—(अतिरात्रम्) अतिक्रान्तो रात्रिम्, अच् समासान्तः । यज्ञविशेषम्
(क्षत्रात्) क्षत्रियात् (पृष्ठ्यम्) तिथपृष्ठगूथ० (उ० २ । १२) पृषु सेचने—
थक् । पृष्ठादुपसङ्ख्यानम् (वा० पा० ४ । २ । ४२) पृष्ठ—यन् । सेचनम् ।
(स्वरसामानः) आर्षी प्रथमा द्वितीयार्थे । स्वरसाम्नः । स्वरसहितसामवतो
यज्ञान् (विषुवन्तम्) तुल्यरात्रिदिनकालवन्तं यज्ञम् (आवृत्ताः) अभ्यस्ताः
(मित्रावरुणाभ्याम्) प्राणापानाभ्याम् (गवायूषी) गौश्च आयुश्च । यज्ञविशेषम्
१. यहाँ देखें १६० पृ० की टिप्पणी ॥ सम्पा० ॥