सामग्री पर जाएँ
सर्वकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 159, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 159

गोपथब्राह्मणे पूर्वभागे प्र० २ । क० २१ ॥ १२१
अश्ववार को पाता है । ( सः देवान् आगच्छत् स देवेभ्यः अन्वातिष्ठत् ) वह [ अग्नि ]
देवों [ इन्द्रियों ] में आया और वह देवों के लिये अनुष्ठान करने लगा । (तस्मात् देवाः
अबिभयुः, तं ब्रह्मणे प्रायच्छन् ) उससे देव डर गये, उसे उन्होंने ब्राह्मण को दे दिया ।
( तम् एतया ऋचा अशमयत् ) उस [ ब्राह्मण ] ने उसको इस ऋचा से शान्त किया
[ कण्डिका २१ देखो ] ॥ २० ॥
भावार्थः-देव इन्द्रियां और असुर रोगादि विघ्न हैं, ब्राह्मण जीव है, अश्व,
वैश्वानर और जातवेदा अग्नि के नाम हैं। भावार्थ यह है कि जीवात्मा अग्नि को रोगादि
विघ्नों से बचाकर, शरीर को स्वस्थ रखकर कार्यकुशल होवे-मिलाओ क० १८, १६,
और २० को ॥ २० ॥
कण्डिका २१ ॥
अग्निं त्वाहुर्वैश्वानरं सदनान् प्रदहन्वगाः । स नो देवत्राविद्ब्रूहि मा रिषामा
वयन्तवेति । तमेताभिः पञ्चभिऋग्भिरुपाकुरुते यदक्रन्दः प्रथमं जायमान इति ।
सोऽशाम्यत्तस्मादश्वः पशूनां जिघत्सृतमो भवति वैश्वानरो ह्येष तस्मा-
दग्निपदमश्वं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्तन्तस्य रसमपीड य् स रसोऽभव-
द्रसो ह वा एष तं वा एतं रसं सन्तं रथ इत्याचक्षते, परोक्षेण परोक्षप्रिया इव-
हि देवा भवन्ति प्रत्यक्षद्विषः । स देवानागच्छत् स देवेभ्योऽन्वातिष्ठत्तस्माद्देवा
अबिभयुस्तं ब्रह्मणे प्रायच्छन्तमेतयर्चर्चाऽऽज्याहुत्याऽभ्यजुहोदिन्द्रस्यौजॊ मरुतामनी-
कमिति । रथमभिहुत्य तमेतयर्चाऽतिष्ठद्व वनस्पते वीड्वङ्गो हि भूया इति ।
तस्मादाग्न्याधेयिकं रथं ब्रह्मणे ददाति, ब्रह्मणे हि प्रत्तं तस्य तक्षाणस्तनू-
ज्येष्ठां दक्षिणां निरमिमीत । तां पञ्चस्वन्वश्यदृचि यजुषि साम्नि शान्तेऽथ घोरे ।
तासां द्वे ब्रह्मणे प्रायच्छद्वाचं च ज्योतिश्च, वाग्वै धेनुर्ज्योतिर्हिरण्यं तस्मा-
दाग्न्याधेयिकां चातुष्प्राश्यां धेनुं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्ता पशुषु शाम्यमा-
नेषु चक्षुर्हापयन्ति चक्षुरेव तदात्मनि धत्ते यद्वै चक्षुस्तद्धिरण्यं तस्मादाग्न्याधे-
यिकं हिरण्यं ब्रह्मणे ददाति, ब्रह्मणे हि प्रत्तं तस्यात्मन्नधत्त तेन प्राज्वल्यत् यन्ना-
धत्त तदाग्लाऽभवत्तदाग्ला भूत्वा सा समुद्रं प्राविशतसा समुद्रमदहत्तस्मात्समुद्रो
दुर्गिरपि वैश्वानरेण हि दग्धः सा पृथिवीमुदैत्सा पृथिवीं व्यदहत्सा देवानाग-
च्छत्सा देवानहेडत्ते१ देवा ब्रह्माणमुपाधावन् स नैवागायन्नानृत्यत् संषा ग्लंषा
कारुविदा नाम तं वा एतमाग्लाहतं सन्तमाग्लागृध इत्याचक्षते, परोक्षेण परोक्ष-
प्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । य एष ब्राह्मणो गायनो वा नर्त्तनो वा
भवति तमाग्लागृध इत्याचक्षते, तस्माद् ब्राह्मणो नैव गायेन्नानृत्येन्माग्लागृधः
स्यात्तस्माद् ब्राह्मयं पूर्वं हविरपरं प्राजापत्यं प्राजापत्यात् ब्राह्मयमेवोत्तममिति
ब्राह्मणम् ।। २१ ।।
१. हेडृ धातोः आत्मनेपदित्त्वात् 'अहेडत' इति समीचीनः पाठः प्रतिभाति ॥ सम्पा० ॥