सामग्री पर जाएँ
सर्वकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 122, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 122

८४ गोपथब्राह्मणे पूर्वभागे प्र० २ । क० ५ ॥
मिति ब्रह्मचर्य्यमिति किं लौक्यमिति ब्रह्मचर्य्यमेवेति, तत् को वेद इति, दन्तावलो
धोम्रोऽथ खलु दन्तावलो धौम्रो यावति तावति काले पारीक्षितं जनमेजयमभ्या-
जगाम, तस्मा उत्थाय स्वयमेव विष्टरं निदधौ, तमुपसंगृह्य पप्रच्छाधीहि भो किं
पुण्यमिति ब्रह्मचर्य्यमिति, किं लौक्यमिति ब्रह्मचर्य्यमेवेति, तस्मा एतत् प्रोवा-
चाष्टाचत्वारिंशद्वर्षं सर्ववेदब्रह्मचर्य्यं, तच्चतुर्द्धा वेदेषु व्यूह्य द्वादशवर्षं ब्रह्मचर्यं
द्वादशवर्षाण्यवरार्द्धमपि स्तायँश्चरेद्यथाश्वत्यपरम् । तस्मा उहस्यूषभो सहस्रन्द-
दावप्यपि कीर्त्तितमाचार्यो ब्रह्मचारीत्येक आहुराकाशमधिदैवतमथाध्यात्मं ब्राह्मणो
व्रतवांश्चरणवान् ब्रह्मचारी ॥ ५ ॥
कण्डिका ५ ॥ जनमेजय का दो हंसों और दन्तावल से ब्रह्मचर्य की महिमा
और अड़तालीस वर्ष आदि समय पर वार्तालाप ॥
( जनमेजयः ह वै पारीक्षितः मृगयां चरिष्यन् हसाभ्याम् अशिक्षत्
उपावतस्थे इति ) जनमेजय [ शत्रुओं का कँपाने वाला ] ही परीक्षित् के पुत्र ने आखेट
को जाते हुये दो हंसों से शिक्षा पाई और ठहर गया । ( तौ जनमेजयं पारीक्षितम्
ऊचतुः ) वे दोनों जनमेजय परीक्षित् के पुत्र से बोले [ उसे बुलाया ], ( अभ्याजगाम )
वह पास आया । ( स ह उवाच-नमः वां भगवन्तौ कौ नु भगवन्तौ इति ) वह
बोला-हे भगवन् ! तुम दोनों को नमस्कार, हे भगवन् आप दोनों कौन हैं। (तौ
ऊचतुः-दक्षिणाग्निः च आहवनीयः च इति ) वे दोनों बोले--हम दक्षिणाग्नि और
आहवनीय अग्नि हैं। ( सः ह उवाच-नमः वां भगवन्तौ, तत् आकीयताम् ह उपारा-
मम् इति इति ) वह बोल!-हे भगवन् ! तुम दोनों को नमस्कार, सो [ आप का ] उपवन
जाना जावे । अपि किल देवाः न रमन्ते नहि देवाः न रमन्ते, अपि च एकोपारा-
मात् आरामं देवाः उपसंक्रामन्ति इति ) [ हंस बोले ] यह प्रसिद्ध है-देवता नहीं
क्रीड़ा करते हैं, सो यह बात नहीं है कि देवता नहीं क्रीड़ा करते हैं, किन्तु एक उपवन से
दूसरे उपवन को देवता चले जाते हैं। ( सः ह उवाच-नमः वां भगवन्तौ किं पुण्यम्
इति ) वह फिर बोला -हे भगवन् ! तुम दोनों को नमस्कार, पुण्य [ पवित्र धर्म ] क्या
है। ( ब्रह्मचर्य्यम् इति) [ वे दोनों बोले ] ब्रह्मचर्य्य है। (किं लौक्यम् इति )
५- (जनमेजयः) जनान् पामरान् शत्रून् एजयति कम्पयतीति । एजेः खश् (पा०
३ । २ । २८ ) एजृ कम्पने-णिच्-खश् । अरुद्विषदजन्तस्य मुम् ( पा० ६ । ३ । ६७ )
इति मुम् । राजर्षिविशेषः । ( पारीक्षितः ) परीक्षितपुत्रः ( अशिक्षत् ) शिक्ष विद्यो-
पादाने च-लङ् । शिक्षां प्राप्तवान् ( आकीयताम् ) आ+कि ज्ञाने-कर्मणि लोट् ।
ज्ञायताम् ( उपारामम् ) प्रथमार्थे द्वितीया । उपारामः । उपवनम् । ( किल )
प्रसिद्धौ ( लौक्यम् ) लोक-ष्यञ् स्वार्थे । दर्शनीयम् । विचारणीयम् । ( वेद ) वेत्ता
( दन्तावलः ) दन्तशिखात् संज्ञायाम् ( पा० ५ । २ । ११३ ) दन्त-अलच् मत्वर्थे । वले
(पा० ६ । ३ । ११८ ) पूर्वस्य दीर्घः । बृहद्दन्तवान् । ऋषिविशेषः ( धौम्रः ) धूम्र-
अण् । कृष्णलोहितवर्णवान् । धूम्रस्य ऋषिविशेषस्य शिष्यः (खलु) प्रसिद्धौ (अधीहि)