सामग्री पर जाएँ
सर्वकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 107, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 107

गोपथब्राह्मणे पूर्वभागे प्र० १ । क० ३६ ६६
यत्तृतीयमाचामति संस्थितहोमांस्तेनास्मिन्नवरुन्धे, स यद् द्विः परिशुम्भति तत्स-
मित्संबर्हिः, स यत्सर्वाणि खानि सर्वं देहमाप्याययति यच्चान्यदातारं मन्त्रकार्थ्यं
यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्धे, स यदोंपूर्वान् मन्त्रान् प्रयुङ्क्त आसर्वमेधा-
देते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु
सत्त्वेषु कामचारः कामविमोचनं भवत्यद्धं च न प्रमीयते य एवं वेद ।
तदप्येतद् ऋचोक्तम् । आपो भृग्वङ्गिरो रूपमापो भृग्वङ्गिरोमयं । सर्वं-
मापॊमयं भूतं सर्वं भृग्वङ्गिरोमयं । अन्तरैते त्रयो वेदा भृगूनङ्गिरसोऽनुगाः ।
अपां पुष्पं मूर्तिराकाशं पवित्रमुत्तममित्याचम्याभ्युक्ष्यात्मानमनुमन्त्रयत
इन्द्र जोवेति ब्राह्मणम् ॥ ३९ ॥
इति अथर्ववेदे गोपथब्राह्मणपूर्वभागे प्रथमः प्रपाठकः ॥ १ ॥
कण्डिका ३९ ॥ आचमन के विधान और लाभ ॥
( आपो गर्भं जनयन्तीः इति-अथ० ४ । २ । ८ ) गर्भ [ अर्थात् बालक रूप
संसार ] को उत्पन्न करते हुये जल [ इस मन्त्र से सिद्ध होता है कि ] ( अपां गर्भः
पुरुषः सः यज्ञः ) जल का गर्भ [ अन्तर्यामी ] पुरुष [ ब्रह्म ] है वही यज्ञ है । ( अद्भिः
प्र णीयमानः यज्ञः प्राङ्तायते तस्मात् आचमनीयम् पूर्वम् आहारयति ) जल के
साथ चलाया हुआ यज्ञ पहिले विस्तृत किया जाता है इसलिये आचमन योग्य जल वह
[ व्रतधारी ] पहिले विधि के साथ पीता है । ( सः यत् आचामति त्रिः आचामति )
वह जब आचमन करता है, तीन बार आचमन करता है, (द्विः परिशुम्भति ) दो बार
सजाता है [ आगे देखो ], ( आयुः अवरुह्य पाप्मानं निर्णुदति ) आयु पर चढ़कर
[ बढ़ाकर ] पाप को निकाल देता है । ( यजुषा उपसाद्य मन्त्रान् उद्धृत्य प्रयुज्य
अवसाय, प्राचीः शाखाः सन्धाय निरंगुष्ठे पाणौ-अमृतम् असि, अमृत !
उपस्तरणम् असि, अमृताय त्वा उपस्तृणामि इति [ ब्राह्मणवचनानि ] पाणौ
उदकम् आनीय-जीवाः स्थ इति सूक्तेन [ अथ० १९ । ६६ । १-४ ] त्रिः
आचामति ) देवपूजा के साथ पास आकर, मन्त्रों को निकाल कर, प्रयोग में ला कर ओर
निश्चय करके, और पुरानी शाखाओं [ वेदव्याख्याओं ] को मिला कर, अगूंठा छोड़ कर
हाथ में-तू अमृत [ मृत्यु से बचाने वाला जल ] है, हे अमृत ! तू बहुत फैलाने वाला
है, अमरपन के लिये तुझे फैलाता हूँ [ पीता हूँ-इन तीन ब्राह्मण वचनों से ] हाथ में
३६-(जनयन्तीः) जनयतेः शतृः । जसि पूर्वसवर्णदीर्घः । जनयन्त्य । उत्पा-
दयन्त्यः (प्रणीयमानः) प्रवर्त्तमानः ( प्राङ्तायते ) प्र+अञ्चु गतिपूजनयोः-क्विन्,
तनु विस्तारे कर्मणि लट् । तनोतेर्यकि (पा० ६ । ४ । ४४) इति आत्वम् । प्राङ् पूर्वे
तायते । विस्तार्यते ( आचमनीयम् ) आचमनयोग्यं जलम् ( आहारयति ) विधि-
पूर्वकं पिबति ( परिशुम्भति ) शुम्भ शोभायाम्-णिजर्थे । परिशुम्भयति । सर्वतः
शोभयति ( अवरुह्य ) आरुह्य । दीर्घं कृत्वा ( यजुषा ) देवपूजनेन ( उद्धृत्य )
उत् +धृञ् धारणे वा हृञ् हरणे-ल्यप् । पृथक् कृत्वा ( प्रयुज्य ) प्रयोगे नीत्वा