सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

, written as द with a loop of ब inside/below.
In line 7, द्ब has the loop. So it is स्वयन्त्वेवैतान्यावद्वसेद्बलीन्हरेत् ॥ १५ ॥.

Let's check line 8:
यावत् गृहे वसेत् तावत् एतान्सर्वान्बलीन् पुनः पित्र्यबलेरवरानिवेत्यर्थः ॥
Wait, "पित्र्यबलेरवरानिवेत्यर्थः" or "पित्र्यबलेरपरानिवेत्यर्थः"?
Wait! Look at the letter in रवरानि or रपरानि:
Is it व or प?
Wait, look at अपरान्: "पित्र्यबलेः अपरान् इव इति अर्थः" -> "पित्र्यबलेरपरानिवेत्यर्थः"!
Wait, "अपरान्" means "the others"! In line 2: "यथोपपादमितरान्", commentary line 3: "इतरान् पित्र्यबलेरन्यान् बलीन्...".
Then in line 8: "एतान् सर्वान् बलीन् पुनः पित्र्यबलेरपरानिवेत्यर्थः" -> "पित्र्यबलेः अपरान् इव"!
Wait, look at the letter: is it प?
Look at प in उपविष्टः (line 3): the left stroke goes

६० बलिहरणविधिः । [ १ प्रपाठके
इति गृहमेधिव्रतम् ॥ १८ ॥
इति एवमहरहः पञ्चानां यज्ञानामनुष्ठानं गृहमेधिव्रतम् गृहैर्दारैर्मेधन्ते
सङ्गच्छन्त इति गृहमेधिनः । "मेधृसङ्गमे" ताच्छील्ये णिनिः (पा० ३।२।७८)
सपत्नीकास्तेषां व्रतम् शास्त्रविहितोनियमइत्यर्थः । तदेवम् । पञ्चयज्ञावशिष्ट-
मन्नन्दम्पती भुञ्जीयाताम्—
“भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैवहि ।
भुञ्जीयातान्ततः पश्चादवशिष्टन्तु दम्पती ॥”
इति–स्मरणात् । स्वेषु–आत्मीयेषु गृहस्थितबन्धुवर्गेषु बालवृद्धातुरपूर्व-
केषु ।। अकृत्वा च पञ्च महायज्ञान्भुञ्जतस्तयोर्व्रतलोपोभवति । ऋते सुवासि-
नीप्रभृतिभ्यः । तदाह मनुः—
“सुवासिनीः कुमारीश्च रोगिणो

४ कण्डिका ] गोभिलगृह्यसूत्रे – ६१
त्यर्थः । तथाच मनुः—
“सायन्त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ॥”
इति । तदनेन रात्रावपि वैश्वदेवबलिकर्म्मणोरविशेषेण कर्त्तव्यत्वन्दर्शि-
तम्(१) । प्रातरहनि पुमान् समन्त्रमित्यर्थः । बलिं हरेत् ॥ अत्र स्मृतौ—सिद्ध-
स्यान्नस्येति पक्षप्राप्तमनूद्यते न तु विधित्सितम् । सायं बलिं हरेदित्येव । तच्चा-
न्नाभावे फलादिनाऽपि । तथाच चतुर्विंशतिमते—
“अलाभे येन केनापि फलशाकोदकादिभिः ।
पयोदधिघृतैर्वापि वैश्वदेवं स्रुवेण तु ॥
हस्तेनान्नादिना कुर्याद्द्विरञ्जलिना जले ॥”
इति । तत्रापि यददनीयन्तेनैव होमस्तथाच परिशिष्टे—
“शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् ।
सङ्कल्पयेद्यदाहारं तेनैव जुहुयाद्धविः ॥”
इति । इतिकरणं बलिप्रकरणसमाप्तिख्यापकम् ॥ १९ ॥
तदिदं बलिहरणमहरहर्यत्पच्यते तेनैवान्नेन कर्त्तव्यम् । न खल्वेष निय-
मोवैश्वदेवेनैवान्नेन विधेयमित्याह—
सर्वस्य त्वेवान्नस्यैतान्बलीन्हरेत् पित्र्यस्य वा स्वस्त्ययनस्य
वाऽर्थार्थस्य वा ॥ २० ॥
सर्वस्येत्यनेन येन केनाऽपि बलीन्हरेत् । पित्र्यस्य पितृकर्म्मार्थं शृतस्य
अमावश्यादावन्वाहार्याद्यर्थस्येत्यर्थः । अत्र तस्येदमित्यर्थे “पितुर्यच्च” ( पा०
४।३।७९ ) इति यति “रीडृतः” ( पा० ७।४।२७ ) इति रीडो “यस्येतिच”
युज्यते वैश्वदेविकपाकान्नान्निषेधश्च भोजनप्रकरणीयो। वैश्वदेवविमुखस्वामिकान्नविषयो
“नात्मार्थम्पाचयेदन्नमि”ति निषिद्धपाकान्नपरोवेति ॥
( १ ) अत्र च्छन्दोगाह्निके श्रीदत्तोपाध्याया आहुः “इदं पत्नीकर्तृकं बलिहरणं यज-
मानतत्पुत्रादीनामसन्निधान इति केचित् । अन्ते तु—“स्वयन्त्वेवैतान्बलीनि”त्यारभ्य-
“स्त्री हि सायं प्रातः पुमानि”ति गोभिलगृह्यानुसाराद्गृहमेधिव्रतपक्षे सायं पत्नीकर्तृकमेव
बलिहरणं तत्परञ्च। मानववचनमिति वर्णयन्तीति । वसिष्ठः “वैश्वदेवं सायम्प्रातर्गृह्येऽग्नौ
जुहुयात्” इत्यादि। वैश्वदेवं विश्वदेवदेवताकम्। सायमिति। पुनः पाकान्ने। “पुनः पाक-
मुपादाय सायमप्यवनीपते । वैश्वदेवनिमित्तन्तु पत्न्या सार्द्धं बलिं हरेत ॥ तत्रापि श्वपचा-
दिभ्यस्तथैवान्नापवर्जनम् ।” इति विष्णुपुराणवचनात् । गृह्ये—आवसथ्याग्नौ इति तु
साग्निविषयम् । इत्याचारचिन्तामणिः । पत्न्या सार्द्धमिति पाककरणेन सहावस्थानेन च
साहित्यम् ।

६२ बलिहरणविधिः । [१ प्रपाठके
(पा० ६।४।१४८) इतीकारलोपः॥ वा-अथवा स्वस्त्ययनस्य(१) तदर्थं
पक्वस्य । अर्थार्थस्य स्वसमीहितसिद्धयर्थस्य। (२)वाशब्दोऽयं कैमुतिकन्यायम-
नुस्मारयति। पूर्वतनावस्थायान्तेन यथाकथञ्चित्पक्वस्येत्यर्थ आयाति। अत्र तु
शब्दोऽस्यैव बलिहरणस्य कालविशेषद्योतनार्थः । पूर्वन्तु तावद्वलिहरणंकुर्या-
त्पश्चाद्ब्राह्मणं भोजयेदिति चन्द्रकान्तभाष्यम् ॥ २० ॥
तदिदं बलिहरणम् ।
यज्ञादेव निवर्त्तते ॥ २१ ॥
यज्ञो ज्योतिष्टोमादिस्तस्माद्धेतोर्निवर्त्तते । यद्वा सप्तम्यर्थे व्यत्ययेन (पा०
३।१।८५) पञ्चमी । यज्ञे निवर्त्तते । बलिहरणञ्च होमादीनामप्युपलक्षणम् ।
“तस्माद्दीक्षितो न ददाति, न पचति, न जुहोति” इति च ब्राह्मणम्। न ददा-
तीत्यादि दीक्षणीयेष्टेरन्यत्र बोध्यम् । एवशब्दो बलिहोमादेरावश्यकत्वप्रद-
र्शनार्थः । नान्यथा आपद्यपि निवर्त्तते इति । तथा च स्मरन्ति—
“आपद्यपि हि कष्टायां पञ्चयज्ञान्न हापयेत् ।
स्वर्गापवर्गयोः प्राप्तिं महायज्ञैः प्रचक्षते ॥”
इति । सोऽयं सामान्यविधिरपवादविधिनानेनोपरुध्यते । न पुनरेतावता-
ऽशौचेऽपि कर्त्तव्यतैवामीषामिति भ्रमितव्यम्—
“सन्ध्यां पञ्चमहायज्ञांन्नैत्यकं स्मृतिकर्म्म च ।
तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया ॥”
इति-स्मरणात् ॥ “पञ्चयज्ञविधानञ्च न कुर्यान्मृत्युजन्मनोः” इतिचैव-
मादिस्मरणात् ॥ २१ ॥
यद्येकस्मिन्काले व्रीहियवौ प्रक्रियेयातामन्यतरस्य कृत्वा कृतंमन्येत २२
यदि-एकस्मिन् भोजनकाले दिवैव वा रात्रावेव वा-इत्यर्थः । व्रीहियवौ
उभौ। नानाजातीयात्रोपलक्षणमेतदित्याचारचिन्तामणिः । प्रक्रियेयाताम् ।
प्रकर्षेण भक्तकरम्भपायसशष्कुल्यादिभेदेन क्रियेयाताम् कृतौ भवेतान्तर्हि
अन्यतरस्य एकतरस्य व्रीहे र्यवस्य वा विकारैः कृत्वा बलिहरणं कृतं सम्पादितं
मन्येत जानीयात् । न पुनरन्यस्यापि कर्त्तव्यमित्यर्थः ॥ २२ ॥
यद्येकस्मिन्काले पुनः पुनरन्नं पच्येत सकृदेवैतद्बलितन्त्रं कुर्वीत २३
( १ ) स्वस्तीत्यभिप्रेतार्थं सिद्धिमचष्टे-तस्यायनं प्रापकं यत्कर्म ब्राह्मणभोजना-
दिरून्तत्स्वस्त्ययनं, स्वस्ति ईयते प्राप्यतेऽनेनेति करणे ल्युट्। “स्नेहवद्मांसमन्नं ब्राह्म-
णान्भोजयित्वा स्वस्ति हैषाम्भवती”त्येव मादिवचनात् ।
( २ ) चन्द्रकान्तभाष्ये तु—अर्थोधनम् अर्थः प्रयोजनं यस्य पुरुषस्य सोऽयमर्थार्थः ।
यस्मात्पुरुषार्थेनाशास्यते तदर्थम्पक्वस्येत्यर्थ इत्युक्तम् ॥ अवयवलक्षणा चात्र षष्ठी
पूर्ववत् ।

४ कण्डिका ] गोभिलगृह्यसूत्रे- ६३
यद्येकस्मिन्काल इत्युक्तार्थम्। पुनः पुनर्भूयोभूयः। अन्नं पच्येत अतिथ्यादि-
बाहुल्यवशात्। तथापि सकृदेकवारमेव एतद्बलितन्त्रम्बलिवरणं कुर्यात् न प्रति-
पचनमित्यर्थः ॥ २३ ॥
भ्रातॄणां भिन्नपाकत्वेऽपि मुख्यपाकादेव बलिहरणमित्याह-
यद्येकस्मिन्कुले बहुधाऽन्नं पच्येत गृहपतिमहानसादेवैतद्व-
लिकर्म्म कुर्वीत ॥ २४ ॥
यदि-एकस्मिन्कुले गृहे एकपाकोपजीविभ्रात्रादिवर्गेवा। तथाच मेदिनी
“कुलं जनपदे गोत्रे सजातीयगणेऽपि च। भवने च तनौ क्लीबम्” इति ॥
बहुधा बहुप्रकारेण ( बहुषु महानसेषु ) अन्नं पच्येत कुतश्चित्कारणात्कदाचि-
द्भ्रातृपुत्रादीनां भोजनसौकर्यार्थं वा, तर्हि एषां यो गृहपतिस्तस्य महानसादेव
[

बलिहरणविधिः । [ १ प्रपाठके-
सः । इति नित्यबलिकर्म्मप्रकरणसमाप्तिं द्योतयति(१) ॥ २६ ॥
अथाऽप्युदाहरन्ति ॥ २७ ॥
अथ-अनन्तरं यत्कर्त्तव्यन्तदप्युदाहरन्ति "ब्राह्मणवाक्यानि" इति शेषः २७
एतस्यैव बलिहरणस्यान्ते कामं प्रब्रूवीत भवति हैवास्य ॥ २८ ॥
एतस्य नित्यस्य एव बलिहरणस्यान्तेऽवसाने, न पुनः काम्यानामपि
बलीनामनन्तरमित्यर्थः । कामं काम्यत इति कामस्त(२)मभिलषितमायुरारो-
ग्यादिकं प्रब्रूवीत प्रकर्षेण नामार्थङ्कथयेत् । अभिमुद्दिश्य प्रार्थयेदित्यर्थः ।
"मनोह वै देवा मनुष्यस्य जानन्ती"ति श्रवणान्मनसैव प्रार्थना माभूदिति
व्यक्तवागर्थस्य ब्रवीतेः प्रार्थनार्थकलिङन्तस्य प्रयोगः । प्रार्थनाचेयं वामदेव्य-
गानात्पुरस्तात्कर्त्तव्या तदाह नित्यान्बलीन्विधाय कात्यायनः—
“स्पृष्ट्वापो वीक्ष्यमाणोऽग्निं कृताञ्जलिपुटस्ततः ।
आयुरारोग्यमैश्वर्यं प्रार्थयेद्द्रविणोदस्रम् ॥”
इति । द्रविणोदसमग्निम्(३) ।
तथा—
“आयुरारोग्यमैश्वर्यं धीधृतिः शं बलं यशः ।
ओजोवर्च्चः पशून्वीर्यं ब्रह्म ब्राह्मण्यमेव च ॥
सौभाग्यङ्कर्म्मसिद्धिञ्च कुलज्यैष्ठं सकर्तृताम् ।
सर्वमेतत्कर्म्मसाक्षिन्द्रविणोदो रिरीहि नः ॥”
इति । रिरीहि-प्रयच्छ । आयुरारोग्यमित्यादिप्रार्थनामन्त्रः । सखल्वयं प्रा-
र्थितः कामो भवति निष्पद्यत एव ह किल । अस्य प्रार्थयितुरित्यर्थः ॥ २८ ॥
स्वयन्त्वेवासस्यं बलिं हरेद्यवेभ्योऽध्याव्रीहिभ्यो व्रीहिभ्योऽध्या-
यवेभ्यः । सत्वाख्यो नाम बलिर्भवति ॥ २८ ॥
तुशब्दः सुभूमिकरणादिकं विशेषं स्मारयति । नित्यबलिवत्सुभूमिकरणम्


( १ ) अत्र चन्द्रकान्तभाष्यम् “सेयमपञ्चसूत्री द्रव्यस्य कर्म्मार्थतामाह । कर्म्मणश्च
पुरुषार्थताम् । कर्म्मणां द्रव्यार्थत्वे खल्वावर्त्तत प्रति

२. द्वितीय प्रपाठक: विवाह-संस्कार, गर्भाधान, पुंसवन, सीमन्तोन्नयन एवं जातकर्म

४ कण्डिका ] गोभिलगृह्यसूत्रे- ६५
उभयतः परिषेक इत्येवमादिकया रीत्या आसस्यं तन्नामकं बलिं स्वयमेव हरेत्
न पुनःप्रवासादावप्यन्येन तं कारयेत् । उक्तञ्चायमर्थः “स्वयमेव हरेत्कामान्”
इत्यादिगृह्यान्तरेण । कोऽयमासस्योनाम बलिः कस्मै च हर्तव्यः ? इत्यत्राह-
यवेभ्य इति । अत्र चतुर्थ्या त्यागोद्देश्यत्वलक्षणं देवतात्वं यवानाम्भिधीयते ।
यथाचोक्तम्-
“तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन चेष्यते ।
देवतासङ्गतिस्तत्र दुर्बलन्तु परं परम् ॥”
इति । तस्माद्यवदैवतोऽयं बलिः “यवेभ्योनमः” इति प्रयोक्तव्यः । बलि-
कालमाह-अधि उपरि । अर्थाद्यवोत्पत्तेरेव । अवधिकालमाह आब्रीहिभ्य
इति । व्रीह्युत्पत्तेरा-अर्वाक् । इत्यर्थः । एतेन व्रीहिभ्योऽध्यायवेभ्य इति
व्याख्यातम् ॥ स त्वासस्य इति । स इति प्रकृतपरामर्शिना सर्वनाम्ना नि-
रपेक्षं बलिद्वयं परामृश्यते । तुशब्दोऽन्येभ्योवलिभ्योऽस्य वैशिष्ट्यमवग-
मयति(१) । स खल्वयं बलिरेकस्मात् सस्यादारभ्यापरसस्यपर्यन्तं कर्त्तव्यत्वा-
दासस्योनाम(२) भवति ॥ २९ ॥
दीर्घायुर्हेव भवति ॥ ३० ॥
दीर्घमायुर्यस्य सोऽयं दीर्घायुर्ह-किल(नूनं) भवत्येव । नाऽल्पायुर्यं य-
जमानोभवतीत्यर्थः ॥ ३० ॥
विश्राणिते फलीकरणानामाचामस्यापामिति बलिं हरेत्
स रौद्रो भवति स रौद्रो भवति ॥ ३१ ॥
इति गोभिलीयगृह्यसूत्रे चतुर्थी कण्डिका ॥ १ ॥ ४ ॥ ॐ ॥
विशेषेण श्राणिते “शृणुदाते” ( चु०प ० ) इति स्मरणाद्दत्तेऽन्ने क्षीण-
प्राये इत्यर्थः । एवञ्च रात्रा(३)वयं बलिर्भवति । तत्र हि सर्वमन्नं श्राणितन्दत्तं
क्षीणप्रायं भवतीति भट्टभाष्यम् ॥ शिष्टान्नानां फलीकरणानां तुषाणामाचाम-
स्य भक्तमण्डस्य “मासराचामनि (वि)स्रावा मण्डे भक्तसमुद्भवे” इत्यमरः ।
स्मर्यते च “ओदनाम्रद्रवं प्राहुराचामं हि मनीषिणः” इति । अपाम् उदकस्य
च । अवयवार्थेऽत्र षष्ठ्यः । इतिना मिलितमुच्यते । त्रीण्येतान्येकीकृत्येत्यर्थः ।
( १ ) स्वयमेव खल्वयं बलिर्हर्त्तव्योलोप एवास्य प्रवासादावित्युक्तप्रायम् ।
( २ ) अन्नार्था हीयं संज्ञा आश्वारूसस्याद्भावसन्तसस्येन यस्य हरणम् । एवमावस-
न्तसस्यादाशारत्सस्येनेति । सोऽयमासस्योनामेति ॥
( ३ ) तथाच गृह्यान्तरम्-
“यक्ष्मणे चोदकन्दद्याद्यक्ष्मैतत्त इति ब्रुवन् । आरोग्यमस्य तेन स्यात्सार्यं रौद्राद्यथेप्सित-
म्॥” इति । अत्रयथेप्सितमिति वचनाद्यत्किञ्चित्कामयते तद्रौद्रबलेः फलमवगच्छामः ॥
९ गो० गृ० सू०

६६ अथ दर्शपौर्णमासविधिः । [ १ प्रपाठके-
बलिं हरेत् । स खल्वयं बलिः रौद्रो रुद्रदेवताको भवति ॥ अन्तेऽभ्यासः क-
ण्डिकापवर्गद्योतनार्थः ॥ ३१ ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्याया-“मृदुला” ख्यायां मुकुन्दशर्म्मसङ्कलितायां
प्रथमप्रपाठकस्य चतुर्थी कण्डिका ॥ १ ॥ ४ ॥ * ॥
अथ पञ्चमी कण्डिका—
(अथ दर्शपौर्णमासप्रकरणम्)
पञ्चमहायज्ञानभिधायेदानीन्तद्वृत्तिकौ दर्शपौर्णमासौ विवक्षुराह—
अथ दर्शपौर्णमासयोः ॥ १ ॥
अथे-त्ययमधिकारार्थः । दर्शश्च पौर्णमासश्च(१) तयोरधिकार “इदानीं
वर्त्तिष्यत” इति वाक्यशेषः ॥ १ ॥
तत्र तावदुपवासपूर्वकत्वाद्दर्शपौर्णमासयोरुपवासव्यवस्थैव प्रथममभिधा-
तव्या । तत्रापि-“दर्शान्तं पौर्णमासाद्यमेकमेव प्रचक्षते', इति कर्म्म

५ खण्डिका ] गोभिलगृह्यसूत्रे- ६७
“उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ।
उपवासः स विज्ञेयो न शरीरविशोषणम्” इति च स्मरणम् ।
एके पुनः “उपास्मिन् श्वोयक्ष्यमाणा देवा वसन्ति एवं विद्वानग्निमुपस्तृ-
णाति” इति तैत्तिरीयब्राह्मणं पश्यन्तः “उपवासोऽग्न्याधानम्” इति वर्णयन्ति ।
तदप्यादरणीयम् “पूर्वेद्युरग्निं गृह्णाति उत्तरमहर्देवतां यजते” इत्येवमादिशा-
स्त्रादप्येतदवगमात् ॥ २ ॥
उत्तरामित्येके ॥ ३ ॥
सन्ध्याम्पौर्णमासीमनुपोष्य पौर्णमासीमुपवसेत्सखण्डामपीत्येक आचार्या
मन्यन्ते । अपरे पुनरुत्तराम्पौर्णमासीतः, प्रतिपदमुपवसेन् । इति मन्यन्ते । न
वयमेवं ब्रूम इत्यर्थः । तथाच रौरकीये ब्राह्मणम् । “द्वे ह वै पौर्णमास्यौ द्वे अ-
मावास्ये, तस्मात् प्रतिपद्युपवसन् यजेतापरेद्युः” इति । तस्मात्परशाखिकोऽयं
पक्षः कौथुमीयो न भवति ॥ ३ ॥
अत्र “त्रयः पौर्णमासीकाला भवन्ती” त्यत्र पौर्णमासीकथायाः सम्भाविनं
प्रसङ्गमपर्यवस्यन्नेवामावास्यायाः खल्विदानीं व्यवस्थोच्यते—
अथ-यदहश्चन्द्रमा न दृश्येत ताममावास्याम् ॥ ४ ॥
अथ-उभयत्रामावास्यालाभे यदहर् यस्मिन्नहनि चन्द्रमा न दृश्येत नावलो-
क्येत । ताममावास्यामुपवसेदित्यनुवर्त्तते । सा खल्वियं कुहूरुच्यते इति सैवो-
पवस्तव्या न सिनीवाली । तस्यां खल्ववलोक्यते प्रातश्चन्द्रमाः । तस्मान्नात्र
क्षयलक्षणा । तदिदं सूत्रं वर्द्धमानाभिप्रायम् । कात्यायनोऽप्याह—
“वर्द्धमानाममावास्यां लक्षयेदपरेऽहनि ।
यामांस्त्रीनधिकान्वापि पितृयज्ञस्ततोभवेत् ॥” इति ॥ ४ ॥
कस्याश्चिदमावास्यायाः कस्याश्चिच्च पौर्णमास्या उपवासव्यवस्थामभिधाय
अथेदानीन्दर्शपौर्णमासयोः कश्चिन्नियमः पौर्णमास्यमावास्ययोश्च स्वरूपं वक्त-
व्यमित्युत्तरो ग्रन्थ आरभ्यते-अथ तत्र—
कस्मात्पुनः कारणात्पौर्णमास्याममावास्यायाञ्चोपवासो व्यवस्थाप्यते ? न
पुनश्चतुर्द्दश्यामुपोष्य तयोरेवेज्यते(१)इत्यस्यां जिज्ञासायामिदं सूत्रमारभ्यते।
पक्षान्ता उपवस्तव्याः पक्षादयोऽभियष्टव्याः ॥ ५ ॥
पक्षोऽर्द्धमासः । स च शुक्लकृष्णभेदाद् द्विविधः । तदन्तातिथिश्च द्वयी पौर्ण-
मासी अमावास्या च । बहुवचनं व्यक्तिभेदाभिप्रायम् । तदयमर्थः । पक्षाणा-
( १ ) तथा चामरः “सा दृष्टेन्दुः सिनीवाली सानष्टेन्दुकला कुहूः” इति । सा अमा-
वस्या । अमा-सह-वसतश्चन्द्रार्कौ यस्यां सा । अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौस-
त्यां पाक्षिकोह्रस्वश्चनिपात्यते इति “अमावस्यदन्यतरस्याम्” ( पा० ३।१।१२२ ) इति
सूत्रेवृत्तिकृतः प्राहुः ॥

मन्ता अवसानतिथय उपवस्तव्याः। पक्षाणामादयः प्रतिपदश्च अभियाष्टव्याः
आभिमुख्येन यष्टव्या इति। अस्मादपि कारणात् पौर्णमासीमुपवसेन्नोत्तरा-
मित्यवधार्यते॥ ५॥
आमावास्येन हविषा पूर्वपक्षमभियजते पौर्णमासेनापरपक्षम्॥ ६॥
अमावास्यायायँदुपक्लृप्तं हविस्तदामावास्यम् इत्युच्यते। तेनामावास्येन
हविषा पूर्वपक्षं शुक्लपक्षमभियजते। पौर्णमासेन पौर्णमास्यामुपक्लृप्तेन हविषा
अपरपक्षं कृष्णपक्षम् अभियजत इत्यनुषज्यते। पूर्वपक्षप्रतिपदिष्ट्या कृत्स्न एव
पूर्वः पक्ष इष्टोभवति। अपरपक्षप्रतिपदिष्ट्या च कृत्स्नोऽपरपक्ष इत्यभिप्रायः।
न खलु पक्षमभिव्याप्येष्टिराम्नायते तस्माद्यथोक्त एवार्थः॥ ६॥
अथ केयं पौर्णमासी का वाऽमावास्या ? तदुच्यते—
यः परमोविप्रकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी
यः परमः सङ्कर्षः साऽमावास्या ॥ ७ ॥
यः परमो महान् विप्रकर्षो व्यवधानं सप्तमराश्यवस्थानं सूर्याचन्द्रमसोः सा
पौर्णमासी पूर्णिमा । इत्येकोऽर्थः। सा इति विधेयपौर्णमास्यपेक्षया स्त्रीत्वम् ।
यः खलु परमः सङ्कर्षः सन्निकर्षः। एकराश्यवच्छेदेनँकांशावस्थानं सूर्याचन्द्रम-
सोः सा अमावास्या दर्शः सूर्येन्दुसङ्गम इत्यनर्थान्तरम् ॥७॥
एवं प्रासङ्गिकाङ्कथामवसाय प्रकृतामेवामावास्याव्यवस्थामाह—
यदहस्त्वेव चन्द्रमा न दृश्येत, ताममावास्यां कुर्वीत ॥८॥
न दृश्येत न दर्शनं सम्भाव्येत आगमबलात् क्षीण इत्यवगम्येत ताममावा-
स्यां कुर्वीत। तुशब्दश्चशब्दार्थः समुच्चये। एवशब्दोऽवधारणार्थः। उपवास-
मन्यच्च यद्विहितम् “अमावास्यायां तच्छ्राद्धमितरदन्वाहार्य्यम्” इति । तदपि
तस्यामेव कुर्वीतेत्येवमवध्रियते। तदनेन उपवासपिण्डपितृयज्ञान्वाहार्य्यश्राद्धा-
नामेकस्मिन्काले कर्त्तव्यत्वमवगम्यते। अत एव कात्यायनोऽमीभिरेव वचनैः
श्राद्धमपि व्यवस्थापयाञ्चकार॥ तदिदं क्षीणामावास्याऽभिप्रायं सूत्रम्। क्षय-
श्चात्र लक्ष्यते अतो “यदहश्चन्द्रमा न दृश्येत ताममावावस्याम्” इत्य-
नेन सूत्रेण न पौनरुक्त्यम्। तत्र खल्ववलोकनाभावोऽर्थः, वर्द्धमानाभिप्रायञ्च
वचनम्। इत्यवोचाम। तदाह कात्यायनः—
“पिण्डान्वाहार्य्यकं श्राद्धं क्षीणे राजनि शस्यते।
वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः॥
यद्वा चतुर्दशीं यामं तुरीयमनुपूरयेत्।
अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते॥
यदुक्तं यदहस्त्वेवं दर्शनं नैति चन्द्रमाः।

!
Wow, it literally is a typo in the printed book: "रागात्तद्वानुमतिपूर्णिमा"!
The printer literally set 'ग' instead of 'क'!
Wait, this is an incredible catch. Let's make sure whether to transcribe it as printed: Yes, exact transcription of the printed page!

Now let's check L10:
"विप्रकृष्टायाममावास्यायामपेद्यमाणायां"
Wait, let's zoom in to 500% on that word in L10:
'वि' 'प्र' 'कृ' 'ष्टा' 'या' 'म' 'मा' 'वा' 'स्या' 'या' 'म'
Then:
Letter 1: 'अ'
Letter 2: 'प' with an 'े' (matra) -> 'पे' or 'वे'? It has no central loop, it's open at top, rounded bottom -> 'प'! With 'े' on top -> 'पे'.
Letter 3: 'द्य' - 'द' with 'य' subjoined.
Letter 4: 'मा'
Letter 5: 'णा'
Letter 6: 'यां'
So it literally says: "अपेद्यमाणायां"!
Wait, could it be "अपद्यमानायां" with a stray mark from above?
Look at the 'े' mark on 'पे':
Directly above it in L9 is the word "काले ।".
The space below "काले" has

७० दर्शपूर्णमासविधिः । [१ प्रपाठके
पश्चास्तमितेति पृषोदरादित्वात् (पा० ६।३।१०९) साधुः । यद्वा “पश्चपश्चा
च छन्दसि” (पा० ५।३।३३) इति निपातितस्यात्रार्षे वचसि प्रयोगः । कलाहीने
निशाकरे पूर्वमुदिते सति यत्रभास्करोऽस्तमेति सेयमनुमती नाम पूर्णमो-
च्यते । इयमेव “उच्चै”रिति सूत्रिता । अस्तमिते सूर्ये चन्द्रस्योद्गमः,
युगपच्च सूर्यस्यास्तमयः पूर्णचन्द्रस्याद्गमश्च, इति द्वयी राका भवति ।
अत्राद्या अस्तमितोदिता । द्वितीया सन्ध्येत्यस्मदीयन्दर्शनम् । एतस्मा-
ल्लिङ्गात् । सन्ध्या पौर्णमासी अपि अस्तमयसन्ध्यासम्बन्धिनी गृह्यते
न पुनरुदयसन्ध्यासम्बन्धिन्यपि इति युक्तम् । सेयमभिद्यमानेऽप्यर्थे
भिन्नयोराचार्ययोर्भिन्नरीतिरित्यनवद्यम् ॥ ( इति चन्द्रकान्तभाष्यम् ) ॥१०॥
उच्चैः पौर्णमासी तावच्चतुर्दशीमिश्रा भवति, सेयमुदयदिनगामिनी । क-
तरा पुनरत्रोपोष्या ? तत्राह—
अथ यदहः पूर्णोभवति ॥ ११ ॥
अथेत्यनन्तरार्थमुच्चैः पौर्णमास्याम् एष एव विधिरिति दर्शयति। अथ शब्दः
सूत्रभेदप्रज्ञापनार्थः । अन्यथा पूर्वेण सूत्रेणास्यैकसूत्रता स्यात् । उच्चैर्वा यदहः
पूर्णो भवति” इत्येके वर्णयन्ति । यदहर्यस्मिन्नहनि पूर्णः—सकलकलोपचया-
दखण्डमण्डलश्चन्द्रमा भवति । तामुपवसेदित्यर्थः ॥ ११ ॥
कदा पुनरेवं भूतश्चन्द्रमा भवति ? कः खलु ज्ञानोपायोऽस्यार्थस्येत्याका-
ङ्क्षायामाह—
पृथगेवैतस्य ज्ञानस्याध्यायो भवति, अधीयीत वा तद्विद्भ्यो वा
पर्वागमयेत् ॥ १२ ॥
पृथक् अन्य एव एतस्य पूर्वविवक्षितस्य उपायभूतो ज्ञानस्य अध्यायः
अधीयत इत्यध्यायो ग्रन्थः । नित्यमधिपूर्वका“इङ् अध्ययने” ( अ० आ० )
इत्यस्मात्कर्म्मणि घञ् ( पा० ३।३।१२२ ) वृद्धिः । भवति । तमधीयीत ।
स्वयं पठेत् । वा अथवा तज्ज्ञानं ये विदन्ति त इमे तद्विदो—ज्योतिश्शास्त्रविदः ।
तेभ्यः सकाशादेव(१) । पर्व-दर्शपूर्णमासाख्यमागमयेत् । सम्यग् मर्यादया
जानीयात् । कस्मिन्काले चन्द्रमाः क्षीयते ? इति । तत्र क्षयकालः कात्यायनेनैव
तत आकृष्य दर्शितः—
“अष्टमांशे चतुर्दश्याः क्षीणो भवति चन्द्रमाः ।
अमावास्याऽष्टमांशे च ततः किल भवेदणुः ॥”
इति । पूर्णताकालः परमस्त्वस्माभिर्वक्तुमवशिष्यते । पञ्चदश्यां मुहूर्त्ते चन्द्रमाः
सकलकलोपचयादखण्डमण्डलो भवति । इति ज्योतिर्विदः कथयन्ति ।
( १ ) वा-शब्दस्त्वर्थे ।

३ कण्डिका ] गोभिलगृह्यसूत्रे- ७१
श्लोकमप्युदाहरन्ति-
“पञ्चदश्याम्पञ्चदशे मुहूर्त्ते चन्द्रमण्डलम् ।
तथा भवति, तद्वक्त्रं सदा तव नृपोत्तम !”(१)इति ॥
स्मरन्ति च-
“राकामध्यगतश्चन्द्रः पूर्ण इत्यभिधीयते” इति ।
कालवशात्पुनरेतस्याप्यन्यथात्वं जातं, युगपरिवृत्त्या किल कारणभेदो-
गणितागतवस्तुषु भवति । इति सौरागमादिषु व्युत्पादितम् । अत एव ततः
पराचीनेन ज्योतिषशास्त्रविदा भास्कराचार्येण सिद्धान्तशिरोमणावुक्तम्--
“कक्षाचतुर्थस्तरगोहि चन्द्रः कर्णान्तरे तिर्य्यगिनोयतोऽब्जात् ।
पादोनषट्काष्टलवान्तरेऽतोदलं नृदृश्यस्य दलस्य शुक्लम्” इति ॥१२॥
अथ यदहरुपवसथो भवति तदहः पूर्वाह्न एव प्रातराहुतिं हुत्वै-
तदग्नेः स्थण्डिलं गोमयेन समन्तं पर्युपालिम्पति ॥ १३ ॥
अथेति पूर्वप्रकृतार्थम् । पूर्वप्रकृते यदहः यस्मिन्नहनि उपवसथो भवति ।
तदहस्तस्मिन्नहनि प्रातराहुतिं पूर्वाह्न एव अग्नेः। एतद्-अधिकृतं(२)स्थण्डि-
लम्-अग्न्यगारं गोमयेन ( सोदकेन ) समन्तं चतुरस्रं परि-सर्वतोभावेन ।
उपलिम्पति । उपलिम्पेत् । पूर्वाह्न एव ! उपलिम्पतीति सम्बन्धादेवकाराच्च
पूर्वाह्न एव उपवसथन्दर्शयन्ति चतुर्द्दश्यामपि । अन्यथा “प्रागावर्त्तनाद-
हः” ( १।१।३ ) इति सिद्धत्वादनुवादापत्तेः । अतएव पूर्वाह्न एव प्रातराहुतिं
हुत्वा इत्यपि न वर्ण्यते । सिद्धायामपि प्रातराहुतौ प्रातराहुतिं हुत्वेति वचनमौ-
पवसथिकेऽहनि स्वयं होमकरणसूचनार्थम् । हुत्वा पर्युपालिम्पतीति होमपर्यु-
पालेपनयोरेककर्त्तृत्वादवगमात् । स्वयङ्करणोपदेशोहि फलविशेषार्थः । अत्र
स्वयं होमे कृते सर्वदैव स्वयं कृतं भवति । तथा च ब्राह्मणम्-
“एते वै रात्री सर्वा रात्रयः समवयन्ति । या आपूर्य्यमाणपक्षस्य रात्र-
यस्ताः सर्वाः पौर्णमासीं समवयन्ति । या अपक्षीयमाणपक्षस्य रात्रयस्ताः
सर्वाः अमावस्यां समवयन्ति । स योह वै विद्वान्स्वयमुपवसथञ्जुहोति सर्वदा
हैवास्य स्वयं कृतं भवति” इति ॥ १३ ॥
( १ ) के नचिज्ज्योतिः शास्त्रकुशलेन कश्चिद्राजैवमुपश्लोकितः ।
( २ ) एतस्य अधिकृतस्य (प्रातराहुत्यादिसाधनस्य) वाअग्नेः स्थण्डिलम् ॥ एत
दिति रसवतीनिरासार्थम् । तत्खल्वस्य द्वितीयमग्न्यगारम् । स्थण्डिलग्रहणं लौहादिभा-
ण्डस्थेऽग्नौ होमनिषेधार्थम् । अत्रैतदादि (पर्युपालेपनादि) । दर्शक‌र्त्तव्यतयोपन्यस्ता
नि कर्माणि तत्रैतदाद्यम् । अथेध्मानिति द्वितीयम् । कुशासादनन्तृतीयम् तत्र विप्रार्थै-
र्विशेषितञ्चतुर्थम् । आज्य्यासादनं पञ्चमम् । हविः सम्पादनं षष्ठम् । चरुस्थालीसम्पा
दनं सप्तमम् । मेक्षणासादनमष्टमम् । स्रुवसम्पादनं नवमम् । अबाहरणन्दशमम् । इति ।

ा...? Wait! Is it: खादिरा न्वा ऽन्यान् वा पालाशान्वा? No, there is NO 'प'! Wait, is there really no 'प'?! Look at: ...न्यालाशान्वा! Wait! Where is पा? Is that पाorला? Let's read from the right: ॥१४॥ न्वा (nvā) शा (śā) ला (lā) ा (ā) - wait, पा? Wait! Look at the letter before ला: It is ा? No, look: ... न् या न् या ला शा न्वाWait, does it sayखादिरा न् वा न् या ला शा न्वा? Wait! Look at खादिरा न् वा... no! Wait, could it be: खादिरा न्‍वा पालाशान्वाwhereपाwas misprinted or is thatपा? Wait, look at the letter between न्andला: Is it पा? Look at पाinपालाशान्(line 10):पाhas a left curve, goes down, up, down, then vowel bar. In line 2, look beforeला: There is ाthenलthenाthenशthenा`

५ काण्डका ] गोभिलगृह्यसूत्रे- ७३
उपमूललूनाः पितृभ्यः ॥ १७ ॥
उपमूले-मूलसमीपदेशे लूना-श्छिन्नाः कुशाः पितृभ्यः पितृकर्मार्थमासाद-
यितव्या इति प्रसङ्गादिहोच्यते । ते खल्विमे मूलसमीपेऽप्यधोभाग एव लवित-
व्या नोर्ध्वभागे ।
“हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञियाः ।
समूलाः पितृदेवत्याः कल्माषा वैश्वदेविकाः ॥”
इति कर्म्मप्रदीपे समूलत्वोपदेशात् । कल्माषाश्चित्राः । “चित्रं किर्मीरक-
ल्माषशबलैताश्चकर्बुरे” इत्यमरः ॥ १७ ॥
तेषामलाभे शूकतृण-शर-शीर्य्य-बल्वज-मुत्तव, नल-लुष्ठ
( शुण्ठ ) वर्जꣳसर्वतृणानि ॥ १८ ॥
तेषां यथोद्दिष्टानां कुशानामलाभे शूकतृणादिवर्जं सर्वतृणानि वर्हिषास्तरणा-
र्थमासादयितव्यानि । बर्हिः संज्ञकानि वा भवन्ति । तैः कुशार्थः कर्त्तव्य इ-
त्यर्थः । शूकतृणं-शूकयुक्तं तृणं, शूकानि फलपुष्पमञ्जर्य्यः । यद्वा-शूकतृणं-यव-
गोधूमादिः । शरादयस्तृण(१)जातिविशेषाः ॥ १८ ॥
आज्यं स्थालीपाकीयान्त्रीहीन् वा यवान्वा चरुस्थालीं-
मेक्षणम् अनुगुप्ताअप इति ॥ १९ ॥
अत्र प्रतिपदं कल्पयते । इति सम्बध्यते । स्थालीपाकीयान्-स्थालीपाक-
समर्थान् । यावद्भिः स्थालीपाकोनिर्वहति तावतोव्रीहीन्वा यवान्वोपकल्पयते ।
चरुस्थालीम् उक्तलक्षणां । मेक्षणम्-
“इध्मजातीयमिध्मार्द्धप्रमाणं(२) मेक्षणं भवेत् ।
वृत्तञ्चाङ्गुष्ठपृथ्वग्रमवदानक्रियाक्षमम् ॥
एषैव दर्वी यस्तत्र विशेषस्तमहं ब्रुवे ।
दर्वीद्व्यङ्गुलपृथ्वग्रा तुरीयेनन्तु मेक्षणम् ॥”
इति कर्म्मप्रदीपोक्तलक्षणम् । अनुगुप्ताः सुरक्षिताः । अपोजलानि । इति
शब्द आद्यर्थः । अन्यदप्येवं भूतं दर्वीप्रभृतिकं सूचयति ॥ १९ ॥


( १ ) तत्र “शरस्तु-मुञ्जोवाणाख्योगुन्द्रस्तेजनकः सरः” इति वाचस्पत्याभिधाना-
द् दन्त्यादिरपि सरः । मुञ्जमध्यवर्त्ती “शरकण्डा” इति प्रसिद्धः । शीर्य “ओदाड” इति
मिथिलाभाषायां प्रसिद्धः । बल्वजः “सावय” इति प्रसिद्धः । अयं बहुवचनान्ततया ऽमरे
पठितः । “एको बल्वज” इति महाभाष्यकारवचनादेकवचनान्तोऽपि ।
( २ ) प्रादेशप्रमाणान् । स्पष्टमभिहितोऽयमर्थोगृह्यासङ्ग्रहे—
“प्रादेशमात्रं कुर्वीत मेक्षणं समिधस्तथा । इध्मः समानवृक्षाणां द्विप्रादेश-
प्रमाणतः ॥” इति ॥
१० गो० गृ० सू०

७४ अथ दर्शपूर्णमासविधिः। [ १ प्रपाठके-
( अथ तद्दिनप्रतिपाद्यनियमानाह )
यानि चानुकल्पमुदाहरिष्यामः ॥ २० ॥
यानि-तैलादीनि । अनुकल्पं स्वकल्पवस्त्वनुरूपम्(१) । घृतादि प्रतिनि-
धिभूतानीति यावत् । चशब्दात् यान्यूलू (दू) खलादीन्युदाहरिष्यामः । तान्य-
प्युपकल्पयते ॥ २० ॥
न तदहः प्रसृज्येत ॥ २१ ॥
तदह—स्तस्मिन्नहनि न प्रसृज्येत । प्रकर्षेण ( अत्यन्तं ) सृज्येत(२) त्य-
जेत् “गृहम्” इति शेषः । सृजतिरिह त्यजतिकर्मा । तदनेनास्याधातुः प्रवासो-
ऽत्र दिने निषिध्यते । एषप्रथमो नियमः ॥ २१ ॥
दूरादपि गृहानभ्येयात् ॥ २२ ॥
तदहरिति वर्त्तते । अभ्येयात्-आगच्छेत् । स्वयं होतुं दूराद्दूरं गतोऽपि ।
एष द्वितीयः । एवमग्रेऽपि बोध्यम् । गृहानिति बहुवचनं पुंस्येव(३) नियतं
“गृहाः पुंसि च भूम्न्येवे-”त्यमरात् ॥ २२ ॥
अबहुवादी स्यात्(४) ॥ २३ ॥
बहुवदितुं शीलमस्येति बहुवादी तद्भिन्नोऽबहुवादी स्याद्वेत्तदहरित्यनुवर्त्त-
ते । ताच्छील्येऽत्र णिनिः । ( पा० ३।२।७८ ) तेन तत्स्व(५)भावोवाचालोन
स्यात् ॥ २३ ॥
अन्यतस्तु धनं क्रीणीयात् ॥ २४ ॥
तदहरित्यनुवर्त्तते । अन्यतः सकाशाद्धनं द्रव्यं क्रीणीयान्न तु स्वयं विक्री-
णीतान्यस्मै । तदत्र तुशब्दोभिन्नक्रमोद्रष्टव्यः ॥ २४ ॥
सत्यं विवदिषेत् ॥ २५ ॥
ऋजुरस्यार्थः । वदेदिति वक्तव्ये सनमिच्छार्थमन्तर्भावयन्मनसाऽप्यसत्यं
वक्तुं नेच्छे दित्यभिप्रैति । तथाच श्रूयते “सत्यसंहिता(६)वै देवा अनृतसंहिता
मनुष्याः” इति । ( ऐ० ब्रा० ३।३।३ ) ॥ २५ ॥
अथाऽपराह्न एवाप्लुत्यौपवसथिकन्दम्पती भुञ्जीयातां यदेवैनयोः
काम्यꣳस्यात्कुशलेन ॥ २६ ॥
इति गोभिलीये गृह्यसूत्रे प्र० प्रपाठके पञ्चमी कण्डिका ॥ १ ॥ ५ ॥ ॐ ॥
( १ ) सादृश्यरूपे यथार्थशब्दार्थेऽत्रानुशब्द इत्यव्ययीभावः समासः ॥
( २ ) अतिदूरं ( यावद्गत्वाऽऽगन्तुन्तदहनि न शक्यते ) न गच्छेदित्यर्थः ॥
( ३ ) नित्यबहुवचनान्तो गृहशब्दः पुंस्येव भवतीत्यर्थः ।
( ४ ) क्वचित्पुस्तके इदं सूत्रमुत्तरसूत्रानन्तरं पठितम् ॥
( ५ ) सततकरणं हि ताच्छील्यम् ॥
( ६ ) तथाच “देवोभूत्वा यजेद्देवानि-”ति स्मृतिरप्यनेनानुगृह्यते ॥

अथ—इध्माद्याहरणानन्तरम् । आप्लुत्य-स्नात्वा । अपराह्न एव । दम्पती
भुञ्जीयाताम् । इति भिन्नक्रमेण योजनीयम् । पूर्वाह्ण एव स्नानस्याम्नानात् ।
तद्बाधे च कारणविशेषाभावात् ।
तथाच स्मर्यते—
“मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् ।
पूर्वाह्ण एव कुर्वीत देवतानाञ्च पूजनम्” इति ।
“चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् ।
तिलपुष्पकुशादीनि स्नानं चाकृत्रिमे जले” ॥
इति चैवमादि । “अपराह्णे व्रतोपाय(१)नमश्नीयात्”इति च तन्त्रान्तरेऽप-
राह्न एवानयोर्भोजनमुपदिश्यते । तस्माद्यथोक्त एवार्थः । अह्नोऽपरोभागोऽ(२)प-
राह्नः। तत्रैव भुञ्जीयातामित्येकदैव भोजनमत्र नियम्यते । “सायम्प्रातर्द्विजाती-
नामशनं देवकल्पितम्” इति द्विर्भोजनस्य नैसर्गिकस्य पक्षप्राप्तत्वात् । किम् ?
औपवसथिकम् । उपवसथेनोपवासेन संसृष्टम् (पा० ४।४।२२) ठक् । ठस्येकः ।
आदिवृद्धिः । तत्राऽपि यदविरुद्धम् । यच्चैनयोर्दम्पत्योः काम्यं-कमनीयं रुचितं
स्याद्भवेत् । तदपि सर्पिर्मिश्रं स्यात् । यत्खलु कुशलेन सुखेन । “परिणमेदि”ति
शेषः । एतदुक्तम्भवति । इत्थमौपवसथिकमल्पं भुञ्जीयातां यद्भक्तमनयोः सु-
खेन परिणमति । न मनागपि शरीरवैषम्यमुत्पादयति । येन खल्वविघ्नेन
श्वोयागः सम्पत्स्यत इति । किं तदौपवसथिकन्तदाह—स्मृत्यन्तरम्—
“लवणं मधु मांसं च क्षारान्नोधेन भूयते ।
उपवासे न भुञ्जीत नोरूरात्रौ च किञ्चन ॥”
इति । अत्र-उरुरात्रावित्यधिकरात्रौ भोजननिषेधाद्दिवा दैवादभोजने रात्रेः
प्रथमयामेऽपि भोजनन्दर्शयति—
“दिवोदिनानि कर्म्माणि स्वकाले न कृतानि चेत् ।
शर्व्वर्याः प्रथमे यामे तानि कुर्यादतन्द्रितः ॥” इति च स्मृत्यन्तरमिति च-
न्द्रकान्तः । वस्तुतस्तुअपराह्न एवेत्यक्षरस्वारस्यादेकभक्तरूपस्यौपवसथिकाशनस्य
स एव मुख्यः कालः । ततः सूर्य्यास्तपर्य्यन्तं गौणस्तथाच निर्णयसिन्धौ स्कान्दे-
“दिनार्द्धसमयेऽतीते भुज्यते नियमेन यत् ।
एकभक्तमिति प्रोक्तमतस्तत्स्याद्दिवाैव हि”इति ।
दीपिकायान्तु-मध्याह्नान्त्यदले त्रिभागसमये स्यादेकभक्तम्”त्युक्तम् ॥ २६ ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्याया-“मृदुला”ख्यायां मुकुन्दशर्म्मसङ्कलितायां
प्रथमप्रपाठकस्य पञ्चमी कण्डिका ॥ १ ॥ ५ ॥ * ॥


( १ ) व्रतमुपेयते स्वीक्रियते अनेनेति-अयतेःकरणे ल्युट् योरनः ॥
( २ ) तृतीयः ।

७६ दर्शपूर्णमासविधिः । [ १ प्रपाठके
अथ षष्ठी काण्डिका—
अथौपवसथिकभोजननियमद्रढिम्ने ब्राह्मणमुदाहरति—
मानतन्तव्योहोवाचाहुता वा एतस्य मनुष्याहुतिर्भवति य
औपवसथिकन्नाश्नाति ॥ १ ॥
मानतन्तव्योनामाचार्यः । ह—किल—उवाच । किम् ? अहुता—हुतफलर-
हिता वै—नियमेन एतस्य औपवसथिकमनश्नुवानस्य मनुष्याहुति-र्मनुष्योपका-
रार्था—आहुतिः सायंम्प्रातर्होम-वैश्वदेवादि-लक्षणा भवति। सर्वोऽपि होमोनि-
ष्फलोभवतीत्यर्थः । मनुष्याहुतिः प्राणाग्निहोत्रलक्षणा वा । तथा च स्मर्यते—
“गृहस्थोब्रह्मचारी च यस्त्वनश्नंस्तपश्चरेत् ।
प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत्तु सः ॥” इति ।
“अनड्वांन्ब्रह्मचारी च आहिताग्निश्च ते त्रयः ।
[

६ कण्डिका ] गोभिलगृह्यसूत्रे- ७७
व्यत्ययोवा वचनस्य ( पा० ३।१।८ ५ ) कामयेयातामिति ॥ ४ ॥
अथ व्रतान्तरमभिदधाति-
अध एवैताꣳरात्रीꣳशयीयाताम् ॥ ५ ॥
अधः भूमावेव कुशास्तरणादौ न पल्यङ्कादावित्यर्थः । एतामुपवसथदिव-
सीयां रात्रिम् । एतस्यां रात्रौ अत्यन्तसंयोगे द्वितीया ( पा० २।३।५ ) दम्पती
शयीयाताम् ॥ ५ ॥
कथम् ? शयीयातामित्याह-
तौ खलु जाग्रन्मिश्रावेवैताꣳरात्रि विहरेयाताम् । इतिहासमिश्रे-
ण वा केनचिद्वा ॥ ६ ॥
तौ-दम्पती । खलु निश्चयार्थोनिपातः । जाग्रन्मिश्रौ (१)जाग्रदवस्थयैव
स्वापं मिश्रयन्तावेवैतामौपवसथिकां रात्रिं व्यथ विहरेयाता-न्नयेयाताम् ।
विरत्र सहार्थ

“स्मरणं कीर्त्तनङ्केलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥
एतन्मैथुनमष्टाङ्गम्प्रवदन्ति मनीषिणः ।
( अनुरागात्कृतञ्चैव ब्रह्मचर्य्यविरोधकम् )
विपरीतमब्रह्मचर्य्यमेतदेवाष्टलक्षणम् ॥” इति ॥
“उपवासे तथा यौनं हन्ति सप्तकुलानि वै ।
स्त्रीणां सम्प्रेक्षणात्स्पर्शात्ताभिः सङ्कथनादपि ।
ब्रह्मचर्य्यं विपद्येत, न दारेष्वृतुसङ्गमात् ॥” इति चैवमादि ॥
अत्र च संप्रेक्षणात्सङ्कथनादित्यत्र सरागत्वं संशब्दार्थः । साहचर्य्यात्स्प-
र्शोऽपि तथा इति शूलपाण्युपाध्यायः । तुशब्दश्चशब्दार्थो वा गा-
त्राभ्यङ्गादीनि समुचिनोति ।
“गात्राभ्यङ्गं शिरोऽभ्यङ्गं ताम्बूलञ्चानुलेपनम् ।
व्रतस्था वर्ज्जयेत्सर्वं य