गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 89, कुल 332 में से
संदर्भ में पढ़ें“कृत्वैतद्वलिकर्म्मैवमतिथिम्पूर्वमाशयेत् ।
भिक्षाञ्च भिक्षवे दद्याद्यथावद्ब्रह्मचारिणे ॥”
इति स्मरति । अतिथावनागच्छति ब्राह्मणायान्यस्मै अपि भोजनन्दद्यात् ।
भोजनासम्भवे हन्तकार(१)-पुष्कल-भिक्षो-दपात्राणाँयथासम्भवमेकतमन्द-
द्यात् । यथाह—
“भिक्षां वा पुष्कलं वापि हन्तकारमथापि वा ।
असम्भवे सदा दद्यादुदपात्रमथापि वा ॥”
इति ॥ तन्मानमाह—
ग्रासमात्री भवेद्भिक्षा पुष्कलन्तच्चतुर्गुणम् ।
पुष्कलानि च चत्वारि हन्तकारं विदुर्बुधाः ॥”
इति ॥ तत्प्रकारमाह—
“इदमन्नं मनुष्येभ्योहन्तेत्युक्त्वा समुत्सृजेत् ॥” इति ॥
तथाचाभ्यागताय, यतिने, ब्रह्मचारिणे, वा, अन्यस्मै ब्राह्मणाय वा
प्राङ्मुखोपविष्टाय भोजनपर्याप्तमन्नन्तदभावे षोडशग्रासरूपं हन्तकारं वा,
चतुर्ग्रासरूपमन्नं वा ग्रासमात्ररूपां भिक्षां वा, फलमूलादिकं वा यथाविभव
मुदङ्मुखो निवीती कुशत्रयतिलजलैः इदमन्नं ॐ मनुष्याय हन्त इतिप्राजाप-
त्यतीर्थेन दद्यात् । यत्याद्यभावेऽपि इदमन्नम् “ॐ सनकादिमनुष्येभ्यो हन्त”
इत्युक्तविधिना दद्यात् । अथ गोग्रासः । तत्र सान्नग्रासमुष्टिं परस्य गवे दद्यात् ।
तामुद्दिश्य वोत्सृजेत् । तत्र मन्त्रः
“ॐ सौरभेय्यः सर्वहिताः पवित्राःपुण्यराशयः ।
प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः” इति ॥
( इतिपञ्चमहायज्ञविधिः )
अथेदानीमुक्तस्यैव विशेषोऽभिधीयते—
आसीन एवाग्नौ जुहुयात् ॥ १३ ॥
आसीन उपविष्ट एव नोर्ध्वो न वा प्रह्वः ॥ १३ ॥
( २ ) नित्यकृत्यार्णवे तु—मनुष्ययज्ञे चात्राऽतिथित्वमविवक्षितमतिथेरनित्यत्वान्म-
नुष्ययज्ञस्य नित्यत्वात्तेनातिथ्यभावेऽन्येनापि ब्राह्मणेन मनुष्ययज्ञसिद्धिः । अत एव
अहरहर्ब्राह्मणेभ्योऽन्नं दद्यादामूलफलशाकेभ्योऽथैनं मनुष्ययज्ञं समाप्नोति ।” इति ब्रा-
ह्मणमात्रं विवक्षति । एवञ्च सनकाद्यन्नदानरूप एव मनुष्ययज्ञ इति भ्रमो हेयः । सति-
सम्भवेऽतिथये तदभावे ब्राह्मणाय कस्मै चिद्देयं, सनकादिभ्योऽपीति । अयमपि वक्ष्यति
“अग्रं ब्राह्मणाय दत्त्वा भुञ्जीते”( १।४।२६ ) ति ॥ अत्रातिथिपूजाप्रयोगोनित्यकृत्यार्णवे
प्रयोगपद्धतावन्यत्र च द्रष्टव्यः ॥
( १ ) एवञ्चायम्मनुष्ययज्ञोऽपि त्रिविधः । तत्र मुख्योऽतिथिभोजनम् । तदसम्पत्तौ
हन्तकारादिदानम् । तदसम्पत्तावुदपात्रदानमपीति ॥