गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 81, कुल 332 में से
संदर्भ में पढ़ें५० नित्यहोमविधिः । [ १ प्रपाठके-
पतिः स्विष्टकृदिति होमाः" इत्येवं गौतमेनोक्तैः स तदुक्तैरेव बलिभिः “दिग्देवता-
भ्यश्च यथास्वं द्वारेषु मरुद्भ्यो गृहदेवताभ्यः, गृहं प्रविश्य ब्रह्मणे मध्ये, अद्भ्य-
उदकुम्भे, आकाशायेत्यन्तरिक्षे, नक्तञ्चरेभ्यश्च सायम्" इत्येवंलक्षणैः सहित
इत्येकः कल्पः । यश्च शाकलहोमो (१) “देवकृतस्यैनसः” इत्याद्यष्टाहुत्यात्मकः स
सामवेदपठितः । सचाग्निपुराणोक्तबलिभिः सहित इत्यन्यः कल्पः । तथा-
चाग्निपुराण-योगियाज्ञवल्क्यौ—
“अन्नं व्याहृतिभिर्हुत्वा (२) तथा मन्त्रैश्च शाकलैः ।
भूतेभ्यश्च बलिन्दत्त्वा (३) ततोऽश्नीयादनग्निमान्” ॥
इति । भूतेभ्यश्चेति चकारादादौ देवबलिरन्ते च पित्र्यबलिरित्याचक्षते ।
(४) तस्मादनग्निनाऽपि गृहोक्ता बलयोदेयाः । काम्याश्च बलयो विष्णुपुराणादौ
पठितास्ते गौतम-शाकला-न्यतरकल्पं कृत्वा भूतोपकारार्थं शुचिभूमौ
देयाः । ते यथा—
“ततोऽन्यदन्नमादाय भूमिभागे शुचौ पुनः ।
दद्यादशेषभूतेभ्यः स्वेच्छया तत्समाहितः ॥”
स्वधे”ति पितृबलिं हरेत् । अत्रैव वामदेव्यगानङ्केचिदिच्छन्ति । वस्तुतस्तु । काम्यबलौ
क्रियमाणे तदन्त एव तत्कार्यम् । नित्यकृत्यार्णवे तु-अग्नौ गौतमकल्पेन वैश्वदेवहोमम-
विधाय अथवाऽग्नेः पश्चिमतः एकत्रैव स्थाने अविकृष्टान् परस्परसंलग्नान्सर्वानेतान्बलीन्
प्राच्यादिदिक्षु तथैव दद्यात् । अस्मिंश्च पक्षे उदकुम्भवलिर्भूमावेव । आकाशबलौ त्वन्त-
रिक्षक्षेपेडपि-अविरोधः । ततो बलीन्नग्नौ जले वा प्रक्षिप्याचम्याग्निं प्रदक्षिणीकृत्य पात्रस्थ-
मुदकशेषं भूमौ निःक्षिप्याद्भिः पात्रं प्रपूर्य ताः स्पृष्ट्वा वामदेव्यं गायेत्” इतिगौतमकल्प-
इत्युक्तम् ।
( १ ) काष्ठशकल-(खण्ड-)साध्योज्योतिष्टोमे होमः शाकल इत्युच्यते । अनयोः
(गौ० शा०) कल्पयोः पद्धतिर्नित्यकृत्यार्णवादौ द्रष्टव्या । अत्र “मन्त्रान्ते स्वाहाकारः”
( १ । ९ । २५ ) इति सुत्रणात्स्वाहान्ततैवाऽमीषाम् । यत्तु श्रौतसूत्रम्” अष्टावष्टौ शक-
लान्याहवनीये प्रहरेयुर्देवकृतस्येत्येतत्प्रभृतिभिरिकान्तैरि” ( ला० श्रौ० सू० २।११।१४ )
ति तन्मन्त्रस्वरूपज्ञापनार्थम् । तदेतदग्निस्वामिभाष्ये द्रष्टव्यम् । अयमपि अग्नौ पूर्वव-
त्परिसमूहनाद्यग्निपूजान्तं कृत्वा कार्यः ।
( २ ) व्यस्तैः समस्तैश्चेति चतुर्द्धा होमः ।
( ३ ) स्विष्टकृद्धोमश्च शाकलाष्टहोमान्ते स्वाहान्त एव । “मन्त्रान्ते स्वाहाकार”
इति ( १ । ९ । २५ ) सूत्रणात् । पितृभ्यश्च स्वधान्तः । पितृभ्यः स्वधेति । तत्र देवे-
भ्योभूतेभ्यश्च नमोऽन्ता एव बलिर्भूमौ स्वाग्रे अग्नेर्जलादेर्वा तत्स्थानीयात्पश्चात् । पितृ-
भ्यश्च दक्षिणस्यामपसव्येन चेति व्यक्तमन्यत्र । ततोभूतबलिस्तथाच स्कान्दे शाकलहो-
मान्ते + तथास्विष्टकृदग्नये । विश्वेभ्यश्चापि देवेभ्योभूमौ दद्यात्ततो बलिम् । सर्वे-
भ्यश्चापि भूतेभ्योनमोदद्यात्तदुत्तरे दक्षिणेऽपि पितृभ्यश्च प्राचीनावीतिकोददेत्” इत्यादि ।
( ४ ) अत्राष्टबल्यन्ते “ॐ अग्नये स्विष्टकृते स्वाहे”-ति स्विष्टकृद्धोमोऽत्रकल्पे पूर्व-
स्माद्विशेषः ।