सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 78, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 78

१ कण्डिका ] गोभिलगृह्यसूत्रे- ४७
चतुर्थी कण्डिका ।
( अथ बलिवैश्वदेवप्रकरणम् )
अथ पत्न्योपक्लृप्तस्यान्नस्य विनियोगमाचष्टे—
अथ वाग्यतोबलीन्हरेत् ॥ १ ॥
अथेति-प्रकृतापेक्षार्थकम । प्रक्रान्तेनान्नेन वाग्यतः सयँतवाक् ( मौनी )
सन् बलीन्-देव-भूत-(१)पितृ-बलीन् वक्ष्यमाणान् । हरेत्-दद्यादित्यर्थः ।
बलिपदं चोपलक्षणं होमादेरपि(२) । “स्वशाखाविधिना हुत्वा तच्छेषेण बली-
न्हरेत्” इति कात्यायनवचनात् ॥ १ ॥
अथ वाग्यत इत्यस्यापवादमाह—
भाषेताऽन्नसंसिद्धिम् । अतिथिभिः कामं सम्भाषेत ॥ २ ॥
अन्नसंसिद्धिम-उपक्लृप्तस्यान्नस्य सम्यक् सिद्धिं “प्रकृत्य” इति शेषः ।
किमिदमन्नमुपसिक्तं न वेति भाषेत-वदेत् । एवम् अतिथिभिः(३) अभ्यागतैः
सह कामम्-इच्छया सम्भाषेत । बलिहरणकालेऽपि । अतिथिगुणविशेषादिकं
ज्ञात्वा इच्छया सम्भाषेत न वा सम्भाषेतेत्यनियमोऽत्र कामशब्देन दर्शितोभवति
एतदुभयादन्यत्र मौनमित्यर्थः ॥ २ ॥
अथ हविष्यस्यान्नस्योद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्याग्नौ जु-
हुयात्तूष्णीम्पाणिनैव ॥ ३ ॥
अथेति प्रकृतापेक्षममन्त्रकपरिसमूहनादिपर्युक्षणान्तं कर्म्म स्मारयति । क-
र्म्मप्रदीपोऽप्याह—
“पर्युक्षणञ्च सर्व्वत्र कर्त्तव्यमदितेऽन्विति ।
अन्ते च वामदेव्यस्य गानकुर्याद्विचक्षणा ॥”
इति । सर्व्वत्र-सर्व्वस्मिन्होमकर्म्मणि “वामदेव्यगानं शान्त्यर्थं शान्त्यर्थम्”
( १।९।२१ ) इति । हविष्यस्यान्नस्य पूर्व्वोक्त—( १।३।६ ) रूपस्य । अवयव-
लक्षणाऽत्र षष्ठी । सावशेषः खल्वेष होमोभवति । एतदवशिष्टेनैवान्नेन बलि-


( १ ) यद्यपि-कात्यायनेन “होमोदैवोबलिर्भौतः” इत्युक्तं, तथापि देवपदमिह देह-
लीदीपन्यायेन पूर्व्वोत्तरयोरन्वयि द्रष्टव्यम् । एवं “पित्र्योबलिरथापि वे”त्युक्त्या तृतीयो-
ऽपि । मनुष्येभ्यस्तु — हन्तेत्युक्तेर्न बलित्वेन प्रदानमभिहितमितित्रयोबल्योऽत्र ( वैश्व-
देवे,) बहुवचनेनोपात्ताः । नमोऽन्तएवार्य्यबलिर्भवतीत ।
( २ ) आदिनाऽतिथिभोजनम् । ततश्च स्वेभ्योऽपि ।
( ३ ) न द्वितीया-तिथिरस्येति अतिथिरुच्यते । बहुवचननिर्देशात्सतिसम्भवे बह-
वोऽप्यतिथयोभवन्ति इति दर्शयति ।