सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 69, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 69

स्मृतिदीपिकायां वामदेवोपाध्यायाः प्राहुः । अयञ्च होमः पाणिनेव कार्यः ।
तथा च कर्म्मप्रदीपः—
“होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः ।
पाणिरैवेतरस्मिंस्तु स्रुचा चात्र न हूयते ॥” इति ॥
आहुतिप्रमाणमपि तत्रैव—( क० प्र० )
“पाण्याहुतिर्द्वादशपर्व्वपूरिका कंसादिना चेत्स्रुवमात्रपूरिका ।
दैवेन तीर्थेन च हूयते हविर्व्यङ्गारिणि स्वर्चिषि तच्च पावके ॥
इति । अत्रापि विशेषः स्मर्य्यते—
“उत्तानेनैव हस्तेन अङ्गुष्ठाग्रेण पीडितम् ।
संहताङ्गुलिपाणिस्तु वाग्यतोजुहुयाद्धविः ॥” इति ।
अन्नस्येति विशिनष्टि—कृतस्य-ओदनादेः । अकृतस्य व्रीह्यादेर्वा, तदाह
कात्यायनः—
“कृतमोदनसक्तादि तण्डुलादि कृताकृतम् ।
व्रीह्यादि चाकृतम्प्रोक्तमितिहव्यं त्रिधामतम् ॥” इति ।
व्याख्यातौ वा शब्दौ । प्रतिनिधिरपि यथोक्तवस्त्वलाभे कात्यायनोक्त उक्तः
प्राक् । ( १।१।२३ ) ॥ ६ ॥
अकृतञ्चेत्प्रक्षाल्य जुहुयात्प्रोदकं कृत्वा ॥ ७ ॥
अकृतं-व्रीह्यादि चेज्जुहुयात्तर्हि पूर्व्वमेव (१)तत् प्रक्षाल्य “त्रिर्देवेभ्यः (२)प्र-
क्षालयेत्” ( १।७।५ ) इति दर्शनाद्देवार्थत्वाच्चास्य “वारत्रयमि”ति शेषः । प्रो-
दकं-प्रगतोदकम् । “प्रादिभ्योधातुजस्य वाच्यो वा चोत्तरपदलोपः” ( पा० २।
२।२४ वा० ) इति बहुव्रीहौ गतपदलोपः । शुष्कञ्च कृत्वा जुहुयात् ॥ ७ ॥
अथ यदि दधि पयोयवागूं वा कंसेन(३) वा चरुस्थाल्या वा
स्रुवेण वैवा ॥ ८ ॥
अथ-व्रीहियवयोरलाभे यदि दधि पयोयवागूं (४)जुहुयात्तदा केन ?


( १ ) होमदिनात्पूर्व्वदिन एव तथाभूतं सम्पाद्य शुचौ भाजने स्थापयेत् । होमस-
मये तत एवोद्धृत्योद्धृत्य शुष्कन्तज्जुहुयात् । सद्यः प्रक्षालने प्रगतोदकेनाप्यवक्लेदेनापचयस-
म्भवादिति भावः ।
( २ ) अत्र प्रक्षालनं दानस्याप्युपलक्षणम्मत्वा पुष्पाद्यपि त्रिर्देवेभ्योऽर्पयन्ति । तत्र
कुच्छ्रभूयस्त्वेन फलभूमैव ( २।३।६ । ) उक्तकातीयवचनादवकल्पते । अन्येतु त्रिःप्रक्षा-
लितस्य कृतप्रायतवं मन्यन्ते । मनुष्येभ्योऽपि द्विर्दानन्दध्यादेराजानिकशिष्टाचारादनुगतं
दृश्यत इति ॥ वस्तुतस्तु “त्रिष्कृतमयन्देवामन्यन्ते”इति शतपथश्रुतिरेवत्रिः पुष्पादिदाने
मूलमिति द्रष्टव्यम् ॥
( ३ ) भट्टभाष्येऽनेन सूत्रद्वयं कृतम् ।
( ४ ) यवागूर्भृष्टयवचूर्णैर्दुग्धपक्वम् ॥