गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 67, कुल 332 में से
संदर्भ में पढ़ें३६ आचमनविधिः। [ प्रपाठके १
साध्वर्थे यत्प्रत्ययः। “हविः सर्पिषि होतव्ये” इति हैमः। अन्नस्य-अदनीयस्य
माषकोद्रवादि(निषिद्ध)(१)भिन्नस्य यवादेः। अवयवलक्षणाऽत्र षष्ठी। तेनाऽव-
शेषोऽप्यस्योक्तोभवति। तथा चनिर्वापप्रमाण कात्यायनः—
“यावता होमनिष्पत्तिर्भवेद्यः यत्र कीर्त्तिता।
शेषश्चैव भवेत्किञ्चित्तावन्तं निर्वपेच्चरुम्” ॥ इति।
अग्नौ-सुसमिद्धे(२) वह्नौ। जुहुयात्। हविष्याण्याह बृहस्पतिः—
“हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः।
कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥ १ ॥
षष्टिका कालशाकञ्च मूलकञ्चे(३)मुकेतरत्।
कन्दं, (४)सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥ २ ॥
(१) तथाच च्छन्दोगपरिशिष्टम्—
“हविष्येषु यवा मुख्यास्तदनु व्रीहयःस्मृताः।
माषकोद्रवगौरादीन्सर्वालाभेऽपिवर्जयेत्” ॥
इति। गौरो-गौरसर्षपः। आदिना कुलत्थमसूरादिपरिग्रहः।
(२) तदेतदुक्तप्रायमपि प्रतिविशिष्टज्ञापनायाग्निपदोपादानमवगमयति। तदुक्तं
कम्मैप्रदीपे कात्यायनेन—
“योऽनर्चिषि जुहोत्यग्नौ व्यङ्ग़ारिणि च मानवः।
मन्दाग्निरामयावी च दरिद्रश्चैव जायते ॥
तस्मात्समिद्धे होतव्यं नासमिद्धे कदाचन।
आरोग्यमिच्छताऽऽयुश्च श्रियमात्यन्तिकीन्तथा”॥ इति।
आत्यन्तिकीं-पुत्रपौत्रानुवर्त्तिनीम्। समिन्धनञ्चाग्नेर्व्यजनादिना कार्यं, मुखेनैव वेत्ये-
के। तदप्याह स एव—
“जुहुवंश्च हुते चैव पाणिशूर्पस्फ्यदारुभिः।
न कुर्यादग्निधमनं कुर्याद्वा व्यजनादिना ॥
मुखेनैके धमन्त्यग्निं मुखादेषोऽध्यजायत।
नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत्”॥
इति। जुहुवन्-होतुमिच्छन्। हुते वा पाण्यादिना वह्निसन्दीपनं न कुर्यात्। किन्तु
व्यजनादिनैव कुर्यादिति पूर्ववचनार्थः। कुर्याच्चेति चकारोऽवधारणे। इत्थंहि स्वमतमभि-
धाय मतान्तरमुपन्यस्यति-मुखेनैक इति। “मुखादग्निरजायते”-ति श्रुतेरग्नेर्मुखप्रभवत्वा-
न्मुखेनैव दीपनम्। औचित्यात्। “नाग्निं मुखेनोपधमेदिति श्रुतेरसंस्कृताग्निविषय-
त्वेन योजनादित्यर्थः। इदञ्च न स्वमतम्। “कुर्याञ्च्चव्यजनादिने”ति सिद्धान्तिते आका-
ङ्क्षानिवृत्तौ मुखेनेति पुनरभिधानायोगात्।
(३) क्वचि “त्कन्दं वै केसुकेतरत्” इतिपाठः। आचारचिन्तामणौ “केचुकेतरत्”
इतिपठितम्। तत्र केचुकं “कञ्चु” इति मिथिलाभाषायां प्रसिद्धम्।
(४) “लवणे सैन्धवसामुद्रे” इति स्मृतिसुधाकरधृतः पाठः। सामुद्रम्-समुद्रोति
प्रसिद्धम्। पुरुषोत्तमक्षेत्रादौ “खरलेति” प्रसिद्धम्।