सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 33, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 33

२ सर्वकर्मसाधारणविधयः । [ १ प्रपाठके-
“मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ” इत्यमरात् ।
ॐ कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ” ॥ इति स्मरणाच्च ॥
अथ—वेदाध्ययन-तदर्थावगमानन्तरम् यतोयथावद्विचारशास्त्र(१)मधिग-
त्य स्थितानां स्नातकानां गार्हस्थ्यानुसरणं शास्त्रार्थः ।
“अतः परं समावृत्तः कुर्याद्दारपरिग्रहम्” इति ।
“वेदानधीत्य वेदौ वा वेदं (२)वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्योगृहस्थाश्रममावसेत्” ।। इति चैवमादिस्मरणात् ।
यतश्च—
“यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् ।
गृहस्थेनैव धार्यन्ते तस्माच्छ्रेष्ठोगृहाश्रमी” ॥
इत्यादिसमृ