गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 320, कुल 332 में से
संदर्भ में पढ़ेंत्वम् क्रियाविशेषणं वा । (तिलवद्यथास्यात्तथेति) स अत्र-आभ्युदयिके ।
विपरीतकः । तृप्तेः प्राक् । यववत्-यववान्कार्यः । अत्र विपरीतकः । देवतीर्थो-
दिनेति प्राञ्चः । सम्पन्नमिति । अत्रेति वर्त्तते । पार्वणे तृप्ताः स्थेति यः प्रश्नस्त-
त्स्थानेऽत्र सम्पन्नमिति तृप्तिप्रश्नः कार्यः । प्रोक्ते-ब्राह्मणैः कथिते । अत्र मात्रा-
दिपिण्डानां दक्षिणे पित्रादिपिण्डा देयाः । तद्दक्षिणे मातामहादिपिण्डाः । “प्र-
दक्षिणमुपचार” इति गोभिलसूत्रात् । इति भ्राम्यतः प्रत्याह-प्रागग्रेऽष्विति ।
आद्यं पितरम्। तदेतत्पार्वणीयकृत्यमनुसन्धायोक्तं, प्रकृतेतु, “मातरः प्रथमं पूज्याः
पितरस्तदनन्तरम्” इति मात्स्योक्ते “स्तिस्रोऽपि मातरः पूर्वं पूजनीयाः प्रयत्नतः”
इति वायवीयात्। “अनिष्ट्वा तु पितॄञ्श्राद्धेन कुर्यात्कर्म वैदिकम् । तत्रापि मातरः
पूर्वं पूजनीयाः प्रयत्नतः” इति कात्यायनोक्तेश्च । मात्रादिपिण्डापेक्षया पित्रा-
दिपिण्डनाम्रवामतेति बोध्यम् । मूलदेशे-दर्भस्येतिशेषः । द्वितीयं पितामहम् ।
तृतीयं-प्रपितामहम् । मध्यदेशाग्रदेशयोः । दर्भस्य । तेषां-पित्राद्यवनेजनस्थाना-
नां, वामतः(१) उत्तरतः । न च प्रत्यङ्मुखोपविष्टानां पितॄणान्तद्ब्राह्मणानां
वामत इत्येव वचनार्थः । तेन प्राग्दक्षिणयलाभ इति वाच्यम्-तेषामित्यनेन पूर्वो-
पक्रान्तानामास्तरणकुशानामवनेजनस्थानानां वा प्रत्यवमर्शौचित्यात् । किञ्च
प्रत्यङ्मुखतायां प्रमाणाभावः । “प्राङ्मुखेभ्य उदङ्मुखोदद्यादुदङ्मुखेभ्यः प्राङ्-
मुख” इत्येवं श्रुतेः । कर्कन्धू-र्वदरम् । उदङ्मुख इति वचनं यद्यपि लौकिकीं
प्रसिद्धिमवगमयति । तथापि (२) साम्मुख्यौपपत्तये “पूज्यपूज(३)कयोः प्राची”ति
तान्त्रिकीम्प्रसिद्धिमनुसरन्तोमैथिलाः प्रत्यङ्मुखतैव कर्तुरभिप्रयन्ति । सर्व्वेदिति
चामुमर्थमाजानिकस्तेषामाचारः । “पश्चिमाभिमुखोभूत्वा श्राद्धम्माङ्गलिकञ्चरे-
दिति” शिष्टपरम्परापठितवचनमपि ॥
आभ्युदयिककालमाह-ब्रह्मपुराणम्-
“कर्मण्यर्थाभ्युदयिके मङ्गल्यवति शोभने ।
जन्मन्यथोपsingle/नयने विवाहे पुत्रकस्य च ॥
पितॄन्नान्दीमुखान्नाम द्वितर्पयेद्विपूर्वकम् ॥”
इति । आभ्युदयिके-दृष्टाभ्युदयसाधने प्रह्रयागादौ । मङ्गल्यवति-मङ्गल-
बहुले-कन्याविवाहे । शोभने-प्रकृष्टे । पारलौकिके देवप्रतिष्ठातुलापुरुषादौ ।
( १ ) वामत उत्तरतो मातामहाद्यवनेजनस्थाने सिद्धे “यथावनिक्तं पिण्डान्द-
दातो”-ति वचनात्तत्रैव पिण्डदाने नियमिते प्रबामत्वस्यैव सिद्धेः। एवञ्च मात्रादिपि-
ण्डापेक्षया पितृपिण्डानामपि प्रवामत्वैव “एकत्रनिर्णीतं” इति न्यायात् । पितृभक्ति कृत्य-
प्रदीपाद्योप्येवम् ॥
( २ ) अतएव पूर्वाभिमुखोदेवप्रतिमा पूर्वाभिमुखेनैव पूज्यते ॥
( ३ ) तथाचोक्तं मन्त्रमहोदधौ-“देवता पूजनेप्राची मध्ये पूजकपूज्ययोः ।” इति ।
३७ गो० गृ०सू०