गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 316, कुल 332 में से
संदर्भ में पढ़ेंपातयेद्”—ति दानोद्द्योतलेखनमपि तदभिप्रायकमेवेति द्रष्टव्यम्। इति महा-
महो० हर्षनाथशर्म्माणः संस्कारदीपकेप्राहुः।
सा च धारा “ॐ एतमुत्यमि”त्यादि वसुप्रकाशकमन्त्रेण कार्या। न तु
“वसोः पवित्रमि”ति पारक्येण। अक्रिया(१)पत्तेः। मन्त्रस्यतु सकृदेव पाठो-
नत्वावृत्त्या। बीजाभावात्। इति मुरारिमिश्राः। वाचस्पतिमिश्रादयोऽप्येवम्।
यद्यप्येकजातीयत्वेऽपि धाराकर्मणाम्भेदात्सर्वत्र मन्त्रान्वयोयुक्तः। “मन्त्रा-
न्तैः कर्मादिः सन्निपात्यः” इति कात्यायनसूत्रात्। तथापि गोशतादौ संख्या-
विशेषस्य देवतावच्छेदकत्ववत् इहापि सप्तादेरवच्छेदकत्वात्। सप्तत्वाद्यवच्छिन्न-
धारादानमेकमेवकर्मेति सकृदेवपाठो मन्त्रस्य। तथा च परिभाषाध्याये का-
त्यायनः—“एकद्रव्ये कर्म्मावृत्तौ सकृन्मन्त्रवचनं कृतार्थत्वात्” इति क्रियादौ,
मन्त्रवचनमुक्तं, क्रिया च साभ्यासा एकैवेति न पुनर्वचनम्। “सकृते कृतः
शास्त्रार्थः” इति न्यायादिति तदर्थ इति दिक्॥
इत्थन्धाराकरणानन्तरम् आयुष्याणि(२)-आयुर्वृद्धिकराणि “आयुष्यं
ब्रह्मवर्चस्यम्” इत्यादीनि सूक्तानि। शान्त्यर्थम्-अमङ्गलन्निवृत्त्यर्थम्। अत
एव नैतज्जपस्य श्राद्धाङ्गत्वं, फलश्रुत्या प्रधानत्वावगमात्। तदनु-तत्पश्चात्।
षड्भ्य इति। मात्रादीनामप्युपलक्षणम्। तथा च शातातपः—
“मात्तॄणां प्रथमं श्राद्धं पित्तॄणां तदनन्तरम्।
ततोमातामहानाञ्च वृद्धौ श्राद्धत्रयं भवेत्॥”
इति। मत्स्यपुराणम्—
“उत्सवानन्दसन्ताने यज्ञोद्वाहादिमङ्गले।
मातरः प्रथमं पूज्याः पितरस्तदनन्तरम्॥
ततोमातामहानाञ्च विश्वेदेवास्तथैव च॥”
इति। उत्सवानन्दहेतौ सन्ताने। सत्पुत्रोत्पत्ताविति यावत्। अत्रोद्वाहपद-
म्बृष्यन्तरोक्तकन्यापुत्रविवाहपरम्। एकमूलकत्वकल्पनालाघवात्। एतेन
यज्ञवत् स्वीयविवाहोऽप्याभ्युदयिकनिमित्तमित्यपास्तम्। “स्वपितृभ्यः पिता द-
दद्याद्”—ति वचनात् पितुरभावे स्वविवाहस्यापि निमित्तत्वम्। न तु पितरि सत्य-
पीति श्राद्धकल्पस्मृतिसारादयः। “अपरे च नान्दीमुखेभ्यः श्राद्धन्तु पितृभ्यः
कार्यमृद्धये। ततोविवाहः कर्त्तव्यः शुद्धः शुभफलप्रदः” इति ब्रह्मपुराणवचना-
त्स्वविवाहे काम्यमाभ्युदयिकं न तु नित्यमित्याहुः। प्रथमविवाहेऽपि पितुरन्ये-
( १ ) तथा च कात्यायनः।
“अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम्।
अक्रिया च परोक्ताच तृतीयाचायथाक्रिये”-ति॥
( २ ) आयुषेहितानीत्यर्थे “गवादिभ्यत्वन्” ( पा० ५।१।२ ) यत्प्रत्ययः॥