सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 295, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 295

तथा च गृह्यसङ्ग्रहे कात्यायनः ॥
“दध्यक्षतं सुमनस आपएतच्चतुष्टयम् ।
अर्घ्यमेतत्प्रदातव्यं गृहेऽर्घ्यार्हाः स्मृतास्तुये ॥”
इति । अत्र “तेभ्य” इति शेषः । एतच्च न पात्रानवस्थितं, न चैकेन पाणि
ना गृह्णीयात् ।
“कांस्येनेवार्हणीयस्य (१)निनयेदर्घ्यमञ्जलौ ।”
इति कात्यायनवचनात् । आचमनीयम्-आचमनार्थमुदकम्(२) । “वृद्धा-
च्छः” ( पा० ४।२।११४ ) इति छस्तस्येयादेशः । ( पा० ७।१।२ ) मधुपर्कश्च-
“साक्षतं सुमनोयुक्तमुदकन्दधिसंयुतम् । अर्घान् । “दधिमधुभ्याञ्चमधुपर्को
विधीयते” इति छन्दोगपरिशिष्टोक्तेः । तत्र चकारोवस्त्वन्तरसमुच्चायकः ।
तथा च दधिमधुयुक्तमुदकम् । दधिमधुघृतंवा । दधिमधुदुग्धंवा (३)मधुपर्कः ।
स्मृतिः-
“सर्पिषा मधुना दध्ना चार्घ्यार्हानर्हयेत्सदा ।
दधिचौद्रपयोभिर्वामधुदध्युदकेन वा ॥”
इति । ऐच्छिकोऽत्र विकल्पोव्यवस्थापकाभावात् । गृह्यसंग्रहे-
“कांस्ये त्रितयमादाय कांस्येन परिवृंहितम् ।
परिग्रहेषु देयं स्यान्मधुपर्क इति ध्रुवम् ॥”
इति । परिवृंहितं-संवृतमाच्छादितमितियावत् । ऋष्यशृङ्गः-
“कांस्यापिधानं कांस्यस्थं मधुपर्कं समर्पयेत् ।
इति । पिधानपात्रमत्राधारपात्रापेक्षया बृहत्कार्यम्-“वर्षीयसा पात्रे णापिहि-

( १ ) कांस्यपदमत्र प्रशस्तपात्रमात्रपरम्।“सा तस्यै प्रददौ कांस्यं सपिधानं हिर-
ण्मयम्” इति विराटपर्व (भा०) दर्शनेन तथा निर्णयात्। सा-सुदेष्णा । तस्यै-सैरन्ध्र्यै ।
अतएव पद्धतिरपि जलादियुक्तं पात्रं गृहीत्वेति । इतिमुराद्रिः। विवाहेतु शङ्खस्थ दूर्वाक्षत
जलफलचन्दनयुतार्घपात्रं गृहीत्वेति वीरेश्वरादयोलिखन्ति । तत्रार्हणीयस्य विष्णुरूप-
त्वाभिधानमन्त्रमूलत् । विष्णोश्चार्घ्यशङ्खेनैव भवतीति निर्विवादम् ।
( २ ) अत्र कालिकापुराणम्-
“दद्यादाचमनीयन्तु सुगन्धिसलिलैः शुभैः ।
कर्पूरवासितैर्वापि कृष्णागुरुविघूपितैः ॥
यथातथासुगन्धैर्वा प्रसन्नैः फेनवार्जितैः । तत्तैजसेन पात्रेण शङ्खेनापि प्रदापयेदि”-ति।
“केवलन्तोयमात्रेण तद्वा दद्यान्न मिश्रितम् ।
वासितन्तु सुगन्धाद्यैः कर्त्तव्यं यदिलभ्यते ॥”
इति च । प्रदापयेत्-प्रदद्यात् । शङ्खेनेति विष्णुपूजाविषयम् । इति द्रष्टव्यम् ॥
( ३ ) अत्र तुरीयंभेदं मधुपर्कस्य कृतान्ने मधु चेति व्याचक्षते । न तत्र कांस्यापेक्षा।
एवम्मधुपयस्यपीति ॥