गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 23, कुल 332 में से
संदर्भ में पढ़ें( १६ )
७ अथ पूर्णपात्रेण "राकामहमित्ये" तयर्चा ॥
८ त्रिश्वेतया च शलल्या "यास्ते राके सुमतय" इति ॥
९ कृसरः स्थालीपाक उत्तरघृतस्तमवेक्षयेत् ॥
१० "किम्पश्यसी" त्युक्त्वा "प्रजामि"ति वाचयेत् ॥
११ तं सा स्वयम्भुञ्जीत ॥
१२ "वीरसूर्जीवसूर्जीवपत्नी"ति ब्राह्मण्या माङ्गल्याभिर्वाग्भिरुपासीरन् ॥
१३ अथ सोष्यन्तीहोमः ॥
१४ प्रतिष्ठिते वस्तौ परिस्तीर्याग्निमाज्याहुती जुहोति "या तिरश्ची"
त्येतयर्चा "विपश्चित्पुच्छमभरद्दि"ति च ॥
१५ "पुमानयं जनिष्यतेऽसौ नामे"ति नामधेयं गृह्णाति ॥
१६ यत्तद्गुह्यमेव भवति ॥
१७ यदास्मै कुमारं जातमाचक्षीरन्, ब्रूयात् "काङ्क्षत नाभिकृन्तनेन
स्तनप्रतिधानेन च ॥
१८ व्रीहियवौ पेषयत्तथैवाऽऽवृता यथा शुङ्गम् ॥
१९ दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्याऽभिसंगृह्य कुमारस्य
जिह्वायां निर्मार्ट्टी-"यमाङ्गे"ति ॥
२० तथैव मेधाजननं सर्पिष्प्राशयेत् ॥
२१ जातरूपेण वाऽऽदाय कुमारस्य मुखे जुहोति "मेधान्ते मित्रावरुणा-
वि"त्येतयर्चा "सदसस्पतिमद्भुतमिति च ॥
२२ कृन्तत नाभिमिति ब्रूयात्स्तनञ्च प्रतिधत्तेति ॥
२३ अत ऊर्ध्वमसमालम्भनमादशरात्रात् ॥
इति द्वितीयप्रपाठके सप्तमी कण्डिका ॥ २ ॥ ७ ॥
अथाष्टमी कण्डिका—
१ जननाद्यस्तृतीयोज्यौत्स्नस्तस्य तृतीयायां प्रातः सशिरस्कं कुमार-
माप्लाव्यास्तमिते वीते लोहितिमन्यञ्जलिकृतः पितोपतिष्ठते ॥
२ अथ माता शुचिना वसनेन कुमारमाच्छाद्य दक्षिणत उदञ्चं पित्रे
प्रयच्छत्युदक्शिरसम् ॥
३ मनु पृष्ठं परिक्रम्योत्तरतोऽवतिष्ठते ॥
४ अथ जपति-"यत्ते सुसीम" इति । "यथायन्नप्रमीयेत पुत्रोऽजनिष्या-
म्रधी"ति ॥
५ उदञ्चं मात्रे प्रदाय यथार्थम् ॥
६ अथ येऽतऊर्ध्वञ्ज्योत्स्नाः प्रथमोद्दिष्ट एव तेषु पितोपतिष्ठतेऽपामञ्ज-