गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 185, कुल 332 में से
संदर्भ में पढ़ें१५४ विवाहविधिः । [ २ प्रपाठके-
'दधातु'(१) । तथा 'धाता' प्रजापतिः 'सं' दधातु । 'देष्ट्री' धर्म्माद्युप(२) देष्ट्री-
(वाग् देवता) 'सं' दधातु । सुस्थिते करोतु। अत्र नौ इतिपुनः प्रयोग आदरार्थः।
उः पादपूरणः । यद्वा पलोप एवार्षः ( पा० ३।४।८५ ) ॥ इति ॥ ९ ॥
ऋगेषा पुरस्तादपि ( २।१।१८ सूत्रे ) उपात्ता पद्धतिक्रमेण । स एष
पुनरुपन्यासोऽस्या वरस्यानेन कन्याऽभिमुखीकरणाय । येन पश्चाद्वरोनानुतपेत् ।
अतएवात्रापि कन्यावरयोः सम्मुखीकरणं पद्धतिषूक्तम् ॥ अत्र वरवध्वोरभिषे-
कमन्त्रस्याभ्यासः । "तथेतराम्"ति भेदेनोपन्यासादितरथा समासः स्यात् ।
तथाच सूत्रान्तरम्-"भेदे मन्त्रावृत्तिः सम्पातिष्वादि"ति । तथा चोक्तम्-"क-
र्म्मावृत्तौ तु मन्त्रस्याप्यावृत्तिर्गृह्यकर्मणि" इति । गृह्यसंग्रहे-
"अभिषिक्तन्तु विधिना पाणिग्राहन्तु प्राजनी ।
रक्षार्थमनुगच्छेत् सप्ताहान्त्यहमेव वा ॥" इति ॥
प्राजनी-प्राजन-( प्रतोद-) वान् । पूर्वन्निर्द्धारितः स्वङ्कार्यमिदमनुतिष्ठे-
दित्यर्थः । मत्वर्थे इनिः । ( पा० ५।२।१२५ ) ॥ १५ ॥
अवसिक्तायाः सव्येन पाणिनाऽञ्जलिमुपोद्गृह्य दक्षिणेन पाणिना
दक्षिणम्पाणिँ साङ्गुष्ठमुत्तानङ्गृहीत्वैताः षट् पाणिग्रहणीया
जपति"गृभ्णामित"इति ॥ १६ ॥
( मं० ब्रा० १।२।१०-१५ )
अत्र सेकस्थानस्थाया एवाञ्जलिग्रहणप्राप्त्यर्थमवसिक्ताया इति निर्देश
इति भाष्यकृतः । अवसिक्तायाः कृताभिषेकायाः । उपेतिसामीप्ये । तथाच म-
णिवन्धप्रदेशे उत्तानं गृहीत्वेत्यर्थः । (३)पाणिग्रहणीयाः पाणिग्रहणकर्मणि
नियुक्ताः(४) । जपति-प्रकृतत्वाद्वरः । "गृभ्णामित"इत्यादिका ऋचः ।
ता यथा-
"गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
भगोअर्यमा सविता पुरन्धिर्मह्यन्त्वादुर्गार्हपत्याय देवाः"॥ १० ॥
हे कन्ये ! 'ते' तव 'हस्तं' साङ्गुष्ठं करमहं 'गृभ्णामि' गृह्णामि(५) । 'यथा'
( १ ) व्यवहितोपसर्गप्रयोगः ( पा० १।४।८२ ) आर्षः ॥
( २ ) उपसर्गेण धातुरिव धातुनोपसर्गोऽप्यध्याहार्य इति ।
( ३ ) "उत्तानेनोत्तानं गृह्णाति । नीचेन चोत्तानम्" इति शाखान्तरदर्शनात् । अ-
त्रोत्तानेनेति सव्याभिप्रायं, नीचेनाधोवदनेनेति दक्षिणाभिप्रायम् । तथाच सव्येन कर-
स्य पृष्ठग्रहणं प्रतीयत इति रघुनन्दनवर्णनं शोभनमेव ॥
( ४ ) पाणिग्रहणार्थबोधिका इति यावत् । शैषिकश्छस्तस्येयादेशः ॥
( ५ ) "हृग्रहोर्भश्छन्दसि" ( पा० ३।१।८४ वा० ) इति हस्य भत्वम् ।