गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 172, कुल 332 में से
संदर्भ में पढ़ें१ कण्डिका ] गोभिलगृह्यसूत्रे— १४१
बर्हिषोऽन्तं कटान्तं प्रापयेत् ॥ २२ ॥
बर्हिः पदमत्राग्निपरं “बर्हिः(१)शुष्मे”ति वह्निनामसु पाठात्तत्रापि तस्य
शक्तत्वात् । एवञ्चाग्नि-कटयोर्मध्यं(२) प्रापयेत्-नयेत् । प्रकृतत्वात्कन्यामि-
त्यर्थ इतिमे प्रतिभाति । अत एवाग्निस्थापनं, ततो ब्रह्मोपवेशनादि-दृषदपुत्रा-
सादनपर्यन्ताऽग्निपरिचरणानन्तरं कन्यादानमितिपद्धतिक्रमः सङ्गच्छते ।
भाष्यकारस्तु-कटम्पदा प्रवर्त्तयन्तीमिति पूर्वमुक्तं तत्कियन्तं देशं प्रवर्त्तयेत् ?
इत्यपेक्षायामाह—बर्हिषोऽन्तमिति । कटपूर्वप्रान्तमास्तृत(३)कुशपर्यन्तं नयेदि-
त्यर्थः । एवञ्च कटप्रवर्त्तनात्पूर्व्वङ्गन्यादानाद्यवसर एवाज्यसंस्कारान्तं कर्म्मान्य-
द्वारा कारयितव्यम् । अन्यथा पूर्वं बर्हिस्तरणस्य वरेणाकरणाद्बर्हिषोऽन्तमिति
नोपपद्येतेत्युक्तम् । तन्मन्दम् । अन्यद्वारा करणे प्रमाणान्तरस्याभावादस्य
चान्यथा व्याख्यातत्वादिति शुभकर्मनिर्णये मुरारिमिश्राः प्राहुः ॥ २२ ॥
पूर्वे कटान्ते दक्षिणतः पाणिग्राहस्योपविशति ॥ २३ ॥
अत्र वधूरिति शेषः । पूर्वे कटान्ते कटस्य पूर्वस्मिन्भागे । दक्षिणतः दक्षि-
णास्यां दिशि । सार्वविभक्तिकस्तसिः । ( पा० ५ । ४ । ४४ वा० ) कस्य ?
पाणिग्राहस्य । यः पाणिङ्करमस्या ग्रहीष्यति तस्य “कर्मण्यण्” ( पा० ३।२।१ )
दक्षिणेन पाणिना दक्षिणमंसमन्वारब्धायाः षडाज्याहुतीर्जुहोति ।
“अग्निरैतु प्रथमः” इत्येतत्प्रभृतिभिः ॥ २४ ॥
( मं० ब्रा० १ । १ । १०–१५ )
अन्वारब्धाया इति वर्त्तमाने कर्त्तरि निष्ठा । ( पा०३।४।७२ ) । षष्ठी चेयं
सम्बन्धार्था । अन्वारम्भणं स्पर्शः । तथाचायमर्थः । पत्युर्दक्षिणांसं दक्षिणहस्तेन
स्पृशन्त्यां वध्वा-“अग्निरैत्वि”त्यादि षड्भिर्मन्त्रैः पतिः षडाज्याहुतीर्जुहुया-
दिति । मन्त्रा यथा—
“अग्निरैतु प्रथमो देवताभ्यः सोऽस्यै प्रजामुञ्चतु(४) मृत्युपाशात् ।
तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदात्स्वाहा॥१।१०॥
( १ ) “बर्हिःशुष्मे”ति सङ्घातोविगृहीतञ्च नाम । बर्हते वर्द्धते इतिबर्हिः । इदन्तः
सान्तोऽपीति । शुष्यत्यनेन शुष्मा । नान्तोऽदन्तोऽपि इति चामरटीकायाम्महेश्वरः ।
तथाच शब्दार्णवः “शुक्रो वैश्वानरो वह्निर्बर्हिः शुष्मा तनूनपात्” इति ॥
( २ ) अन्तशब्दोऽत्र समीपार्थकः । पुरतोबर्हिः पश्चात्कट इति तयोः समीपं मध्य-
मेव भवतीति ॥
( ३ ) अत्र बर्हिष इति जात्याश्रयमेकवचनम् । बर्हिषामास्तृतानामन्तं कटान्तं प्रा-
पयेत् । अयमर्थः । कटस्तथापदा प्रवर्त्तितव्योबध्वा यथा तदन्तभाग आस्तृतबर्हिषाङ्क-
श्चिदुपरि स्यादिति ॥
( ४ ) अत्र “मुञ्चतु” इति कृतदीर्घपाठः संहितायाम् “पद्धतिषु यथोल्लिखित एव ।