गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 15, कुल 332 में से
संदर्भ में पढ़ें[८]
८ शृतमभिघार्योद्गुद्वास्य प्रत्यभिघारयेत् ॥
९ मग्निमुपसमाधाय कुशैः समन्तं परिस्तृणुयात् । पुरस्ताद्दक्षिणत
उत्तरतः पश्चादिति ॥
१० सर्वतस्त्रिवृतं पञ्चवृतं वा ॥
११ बहुलमयुग्मंसंहतम् ॥
१२ प्रागग्रैरग्रैर्मूलानिच्छादयन् ॥
१३ पश्चाद्द्वाऽऽस्तोर्थ दक्षिणतः प्राञ्चं प्रकर्षति तथोत्तरेण ॥
१४ दक्षिणोत्तरायग्राणि कुर्यात् ॥
१५ एष परिस्तरणन्यायः सर्वेष्वेवाहुतिमत्सु ॥
१६ परिधीनप्येके कुर्वन्ति-शामीलाम्पार्णान्वा ॥
१७ उत्तरतोऽपां पूर्णः स्रुवः प्रणीता ॥
१८ भावे न वा स्यादित्येके ॥
१९ बर्हिषि स्थालीपाकमासाद्येध्ममभ्याधायाज्यँसंस्कुरुते ॥
२० सर्पिस्तैलं दधिपयोयवागू र्वा ॥
२१ तत एव बर्हिषः प्रादेशमात्रे पवित्रे कुरुते ॥
२२ औषधिमन्तर्धाय च्छिनत्ति, न नखेन “पवित्रे स्थो वैष्णव्यावि”ति ॥
२३ अथैने अद्भिरनुमार्ष्टि-“विष्णोर्मनसा पूतेस्थ” इति ॥
२४ सम्पूयोत्पुनात्युदगग्राभ्यां पवित्राभ्याम् ॥
२५ अङ्गुष्ठाभ्याञ्चोपकनिष्ठिकाभ्याञ्चाङ्गुलिभ्यामभिसंगृह्य प्राकश्रिरु-
त्पुनाति-“देवस्त्वा सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोःसूर्यस्य
रश्मिभिरि”ति सकृद्यजुषा द्विस्तूष्णीम् ॥
२६ अथैने अद्भिरभ्युद्याग्नावप्युत्सृजेत् ॥
२७ अथैतदाज्यमधिश्रित्योद्गुद्वासयेत् ॥
२८ एवमाज्यस्य संस्करणकल्पो भवतीति ॥
इति प्र०प्र०सप्तमी कण्डिका ॥ १ ॥ ७ ॥
अथ-अष्टमी-कण्डिका-
१ पूर्वमाज्यमपरः स्थालीपाकः ॥
२ पर्युक्ष्य स्थालीपाक आज्य मानीय मेक्षणेनोपघातँहोतुमेवोपक्रमते ॥
३ जुहुवा उपस्तीर्णाभिघारितञ्जुहुयात् आज्यभागावेव प्रथमौ जुहुयात्
४ चतुर्गृहीतमाज्यं गृहीत्वा पञ्चावत्तन्तु भृगूणाम् । “अग्नये स्वाहे”-
त्युत्तरतः “सोमाय स्वाहे”ति दक्षिणतः प्राक्शो जुहुयात् ॥