सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 14, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 14

( ७ )
७ जुगुप्सेयातान्त्वेवावद्येभ्यः कर्म्मभ्यः ॥
८ न प्रवसन्नुपसेदित्याहुः ॥
९ पत्न्या व्रतम्भवतीति ॥
१० यथा कामयेत तथा कुर्य्यात् ॥
११ एवमेवाहिताग्नेरप्युपवसथो भवति ॥
१२ यद्वाम्नायो विदध्यात् ॥
१३ अथ पूर्वाह्न एव प्रातराहुतिं हुत्वाऽग्रेणाग्निं परिक्रम्य दक्षिणतोऽग्नेः
प्रागग्रान्दर्भानास्तीर्य्य ॥
१४ तेषां पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्सव्यस्य पादोरङ्गुष्ठेनोपकनिष्ठिकया
चाङ्गुल्या ब्रह्मासनात्तृणमभिसङ्गृह्य दक्षिणापरमश्मन्देशं निरस्यति
“निरस्तः परावसुर्”ति ॥
१५ अप उपस्पृश्याथ ब्रह्मासन उपविशत्या“वसोः सदने सीदामी”ति ॥
१६ अग्निमभिमुखोवाग्यतः प्राञ्जलिरास्त आकर्म्मणः पर्य्यवसानात् ॥
१७ भाषेत यज्ञसंसिद्धिम् ॥
१८ नायज्ञियां वाचं वदेत् ॥
१९ यद्ययज्ञियां वाचं वदेद् वैष्णवीमृचं यजुर्वा जपेत् ॥
२० अपि वा नमोविष्णव इति ब्रूयात् ॥
२१ यद्यु वा उभयर्त्विकीषेद्धौत्रञ्चैव ब्रह्मत्वञ्चैवैतेनैव कल्पेन छत्रं वोत्त-
रासङ्गं वोदकमण्डलं दर्भवटुं वा ब्रह्मासने विधाय तेनैव प्रत्याव्रज्या-
थान्यच्चेष्टेत ॥
इति प्रथमप्र० षष्ठी कण्डिका ॥ १ ॥ ६ ॥ ❊ ॥
अथ सप्तमी कण्डिका --
१ अथोलूखलमुशले प्रक्षाल्य शूर्पञ्च पश्चादग्नेः प्रागग्रान्दर्भानास्तीर्य्यो-
पसादयति ॥
२ अथ हविर्निर्व्वपति व्रीहीन् वा यवान् वा कांस्येन वा चरुस्था-
ल्या वा ॥
३ “अमुष्मै त्वा जुष्टं निर्वपामी”ति देवतानामादेशं सकृत् त्रिस्तूष्णीम् ॥
४ अथ पश्चात्प्राङ्मुखोऽवहन्तुमुपक्रमेत, दक्षिणोत्तराभ्यां पाणिभ्याम् ॥
५ त्रिःफलीकृताँस्तण्डुलान् त्रिर्देवेभ्यः प्रक्षालयेदित्याहुर्द्विर्म्मनुष्येभ्यः,
सकृत् पितृभ्य इति ॥
६ पवित्रान्तर्हितांस्तण्डुलानावपेत् ॥
७ कुशलभृतमिव स्थालीपाकँ श्रपयेत् प्रदक्षिणमुदायुवन् ॥