सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 111, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 111

इति । प्रह्वेण-अवनतेन । न तिष्ठता-नोर्ध्वजानुना । तथा—
“यत्र दिङ्नियमोनास्ति जपहोमादिकर्म्मसु ।
तिस्रस्तत्र दिशोज्ञेया ऐन्द्री सौम्याऽपराजिता ॥”
इति । ऐन्द्री-पूर्वा । सौमी-उत्तरा । अपराजिता-ऐशानी ॥ १३ ॥
तेषाम्पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्सव्यस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया
चाङ्गुल्या ब्रह्मासनात्तृणमभिसङ्गृह्य दक्षिणापरमष्टमन्देशन्निर-
स्यति “निरस्तः परावसुर्—”ति ॥ १४ ॥
तेषाम्—आसनास्तृतदर्भाणां पुरस्तात्-पूर्वदिशि । प्रत्यङ्मुखः-पश्चिमा-
भिमुखस्तिष्ठन्-ऊर्ध्वावस्थितः । सव्यस्य-वामस्य । पाणेः-करस्य । अङ्गुष्ठे
न(१) उपकनिष्ठिकया अनामिकया चाङ्गुल्या तृणं दर्भं सामान्यशक्तस्यापि वा-
क्यैकवाक्यतया विशेषे तात्पर्यनिर्णयात् । दक्षिणापरं-दक्षिणस्याश्चापरायाश्च-
दिशोर्यदन्तरालं स दक्षिणापरस्तमष्टमं देशं(२) निर्ऋतिकोणलक्षणमुद्दिश्य(३)
निरस्यति-क्षिपति । तत्र करणमन्त्रमाह “निरस्त” इति । मन्त्रार्थस्तु-अपकृ-
ष्टभागोरक्षोऽधिष्ठानभूतः “परावसुः” इत्युच्यते । स चानेन तृणनिरसनेन
स्थानादस्मान्निरस्तोनिराकृतः वेदितव्यः । “प्रत्यादिष्टोनिरस्तःस्यात्प्रत्याख्या-
तोनिराकृतः” इत्यमरः । तेनतत्स्थानं पवित्रतरमुपजातमित्यर्थः ॥ १४ ॥
अप उपस्पृश्याथ ब्रह्माऽऽसन उपविशति । “आवसोः सदने
सीदामी”—ति ॥ १५ ॥
अप उदकम् । उपस्पृश्य(४)-आचम्य । “उपस्पर्शस्त्वाचमनम्” इत्यमरः ।
अन्यच्चेष्टेत” इति वक्ष्यमाणेन ( १।६।२१ ) अस्याभिसम्बन्धोवर्णनीयः । तथा
च श्लोकम्पठति—
“येन यस्याभिसम्बन्धो दूरस्थस्यापि तस्य सः ।
अर्थतोह्यसमर्थानामानन्तर्यमकारणम् ॥”


( १ ) कनिष्ठामुपगतोपकनिष्ठिकेति तत्पुरुषः समासः । ( पा० १।४।७९ ) चन्द्रका-
न्तभाष्येषु तु कनिष्ठिकाया उपसमीपे तिष्ठतीति व्युत्पत्तिर्दर्शिता ॥
( २ ) प्रत्यङ्मुखावस्थितस्य यजमानस्य प्रथमोदेशः प्रत्यग्भवति सम्मुखः, ततश्चा-
ष्टमः प्रादक्षिण्येन निर्ऋतिकोण एव भवतीति साधीयसी वचनव्यक्तिः ।
( ३ ) तथाचोद्दिश्येत्यध्याहार्यम् । चन्द्रकान्तभाष्ये तु सप्तम्यर्थे व्यत्ययेन ( पा०
३।१।८५ ) द्वितीया दर्शिता ॥
( ४ ) अत्राचमने निमित्तं नैरृतस्य (निर्ऋतिदेवताकस्य) आसुरस्य मन्त्रस्य जप
एवेति प्रतिभाति । “रौद्रपैत्राऽऽसुरा मन्त्रांस्तथा चैवाभिचारिकान् । व्याहृत्यालभ्य
चात्मानमपः स्पृष्ट्वा शुचिर्भवेत्” इति कातीयस्मरणात् ॥