गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
सप्तत्रिंशः पटलः । ३२३
भृङ्गोपभुक्तपुष्पाणि मक्षिकोच्चिष्टकं मधु । १
दूषणीयं सुरापानं कथं यज्ञे निदेशितम् ॥ ८ ॥
गोरसं च गवां सारं (म?तै)ल च बीजसंभवम् ।
कथं तद्विहितं दैवे पित्र्ये कर्मणि पार्वति ॥ ९ ॥
बीजनाशादनेकस्य विनाशं विद्धि सुव्रते ।
जायासु चैव सर्वासु तथा जातो जनिष्यते३ ॥ १० ॥
स सकृद्वैदिकैर्मन्त्रैः पूतो भवति पावकः ।
वैदिकैस्तान्त्रिकैः शुद्धा पवित्रियं तथा सुरा ॥ ११ ॥
दूषणं नास्ति देवेशि महाविद्याप्रसाधने ।
यस्मिन् यत्र य आचारस्तत्र धर्मस्तु तादृशः ॥ १२ ॥
अत्र भ्रमो महान् दोषस्तस्माद्भ्रान्तिं त्यज प्रिये ।
अद्वैतभावरहितो द्वन्द्वचित्तोऽथ कामुकः ॥ १३ ॥
देवताभावरहितो लौल्यभावेन वा पुनः
परशक्तिं समागच्छेत् स भवेद्गुरुतल्पगः ॥ १४ ॥
संसाराम्बुनिधेः पारं करोति विधिना च सा ।
नरकाम्बुनिधौ शक्तिः क्षिपत्यविधिना शिवे ॥ १५ ॥
विना शक्तिं विना मद्यमद्वैतभावनां विना ।
महाविद्याक्रमो यद्ध्यज्ञो घृतविवर्जितः ॥ १६ ॥
द्वैतभावे महेशानि वर्णजातिविकल्पना ।
अद्वैतभावमापन्ने लीने मनसि ब्रह्मणि ॥ १७ ॥
कः कामः को भवेदिन्द्रः को ब्रह्मा को जनार्दनः ।
को देवः कोऽसुरो यक्षः पिशाचः कोऽमरः शिवे ॥ १८ ॥
१ 'ष्टामदं मधु' क पाठ । २ 'पै' क पाठ । ३ 'ति' क पाठ ।
४ 'म' क पाठ । ५ 'ज्ञ' क पाठ । ६ 'तम्' क पाठ ।
३२४ गन्धर्वतन्त्रे ।
को द्विजः कोऽथवा शूद्रः को म्लेच्छः कोऽधमः शिवे ।
किं रूपं किं विरूपं वा को रोगी कोऽप्यनामयः ॥ १६ ॥
किं च मेध्यममेध्यं वा किं वा वस्त्वप्यवस्तु च ।
किं मित्रं किममित्रं च को वध्योऽवध्य एव वा ॥ २० ॥
किं च भक्ष्यमभक्ष्यं वा किं वा तव ममेति च ।
अविद्याकल्पितं चैतद्विद्यया च्छिन्दि संशयम् ॥ २१ ॥
स्त्रियं मम परां विद्यामिति जानीहि पार्वति ।
एकैस्या बहुधा कृत्यमेकैस्या बहुविग्रहम् ॥ २२ ॥
बहुरूपाणि देहांश्च एकस्यैा एव निश्चितम् ।
अद्वैतानन्दसंदोहो विद्ययैव प्रकाश्यते ॥ २३ ॥
शक्तियोगेषु यन्मांसं तन्मांसममृतोपमम् ।
पशुघातस्तदर्थं तु तद्विना ब्रह्महा भवेत् ॥ २४ ॥
द्वैतान् पशून्विजानीयादद्वैतान् ब्राह्मणान्विदुः ।
अतैज्ञ्ज्ञः स्तेयपापेन भुनक्ति बहुकिल्विषम् ॥ २५ ॥
मद्यपानं तु यज्ञेषु तद्विना पातकी भवेत् ।
पवित्रं सकलं भद्रे वासना यद्यकुत्सिता ॥ २६ ॥
ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् ।
शरीरं दृश्यते यद्यत्तत्कर्म प्राकृतं शिवे ॥ २७ ॥
प्रकृत्या क्रियते कर्म साक्षी पुरुष उच्यते ।
तन्मायामोहितः सोऽथ कर्ताहमिति मन्यते ॥ २८ ॥
न कर्ता पुरुषो देवि कर्त्री प्रकृतिरुच्यते ।
पुरुषे करणं नास्ति निर्गुणत्वात् सदा प्रिये ॥ २६ ॥
१ ‘मम तरा’ क पाठ । २ ‘काया’ क पाठ । ३ ‘काया’ क पाठ ।
४ ‘काया’ क पाठ । ५ ‘यो’ क पाठ । ६ ‘तन्त्रस्य’ क पाठ ।
सप्तत्रिंशः पटलः । ३२५
तथा कैरणकर्तृत्वं¹ सगुणायां प्रतिष्ठितम् ।
यदिदं पुरुषे देवि कर्तृत्वमुपलक्ष्यते ॥ ३० ॥
स्फटिके² निर्मले देवि (यवा? जपा) रागमिवानघे ।
अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः ॥ ३१ ॥
सदा सर्वसमः शुद्धो निसङ्गो निर्मलोऽचलः ।
सत्यं ज्ञानमनन्तं यत्परब्रह्माहमेव तत् ॥ ३२ ॥
ब्रह्मण्यधाय चित्तं तु कुर्वन् कर्म न लिप्यते ।
उभाभ्यामपि शक्यं स्यात्तर्तुं भवपयोनिधिम् ॥ ३३ ॥
दक्षिणेनापि कौलेन दुःखेनापि सुखेन च ।
कुम्भसंस्तरगैस्तर्तुं पोतवर्येण वाम्बुधिम् ॥ ३४ ॥
तस्मा(दिमं न? दयं व)रः कौलो दक्षिणादपि सुव्रते ।
कुलज्ञानं विना देवि नैव मुक्तिः कदाचन ॥ ३५ ॥
माया बलवती ह्येषा शक्तिर्गुणमयी³ तु या ।
प्रकृतिर्गीयते सा तु सांख्ययोगविशारदैः ॥ ३६ ॥
विद्याविद्येति सा प्रोक्ता वेदतत्त्वार्थदर्शिभिः ।
महाविद्येति सा कैश्चिन्महामायेति चापरैः ॥ ३७ ॥
शक्तिः सा सर्वभूतानामिति कैश्चिदुपास्यते ।
˙समुपासते⁴ सर्वे तां ब्रह्मविष्णुमहेश्वराः ॥ ३८ ॥
तस्या एव न मे भेदो विष्णोर्ब्रह्मण एव वा ।
योगभोगतपःक्लेशैरानम्रैरभिनन्दिता ॥ ३६ ॥
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ।
परितोष्य विधानेन येन तेनैव साधकः ॥ ४० ॥
१ 'का' क पाठ । २ 'स्फा' क पाठ । ३ 'केर्गु' क पाठ । ४ 'सर्वे तां समुपासन्ति' क ख.पाठ ।
संसारनिगडैर्बद्धः पुमान् विमुच्यते तया ।
तस्यास्तोषं विना देवि विमुक्तिर्नैव विद्यते ॥ ४१ ॥
तन्निगृहीतचित्तानां पुंसां पुरुषपूजिते ।
अतस्तां च प्रयत्नेन पुरुषा मुक्तिलिप्सवः ॥ ४२ ॥
समाश्रयन्ति योगाद्यैर्नित्यानन्दस्वरूपिणीम् ।
ब्रह्मा विष्णुस्तथा चाहमात्मवत्समुपास्महे ॥ ४३ ॥
तपःक्लेशैश्च तां देवि पशुभावे स्थितो विधिः ।
संतोष्य परया भक्त्या सावित्रीं वेदमातरम् ॥ ४४ ॥
इच्छाशक्तिं च वागीशीं लब्ध्वा सृष्टिमचीकरत् ।
तनयां जगृहे मोहाद्ब्रह्मा पशुरादरधीः ॥ ४५ ॥
तज्जुगुप्सितमन्याय्यमद्यापि न निवर्तते ।
परशक्तिं पशुस्तस्मान्मनसापि न संस्मरेत् ॥ ४६ ॥
तद्भावमाश्रिता विप्रास्तामेव समुपासते ।
मित्राणां सर्वभूतानां तेषां मद्यं घृतं पयः ॥ ४७ ॥
अपूपं पिष्टकं मांसं गृह्णीयुः शक्तिदापितम् ।
अपिवा संविदासक्ता भवेयुः शक्तिमाश्रिताः ॥ ४८ ॥
दिव्यभावस्थितो विष्णुर्जगत्पालन्यरूपिणीम् ।
मधुमैरेयभोगाद्यैः संतोष्यानन्दरूपिणीम् ॥ ४९ ॥
ज्ञानशक्तिमयीं लक्ष्मीं जगदाधाररूपिणीम् ।
लब्ध्वा तु जगतः सोऽयं पालकोऽभून्निराकुलः ॥ ५० ॥
तद्भावमाश्रिता भूपास्तथैव तामुपासते ।
अथ देवाश्च दैत्याश्च मुनयो मानुषाः परे ॥ ५१ ॥
सप्तत्रिंशः पटलः । ३२७
विष्णुमेव हि सततं भजन्ते भावसिद्धये ।
स च भावविशुद्धात्मा तद्भावं तु जुगोप ह ॥ ५२ ॥
ये (नि?न)न्दन्ति च तद्भावं गोपयन्ति च सर्वदा ।
ते वै प्रियतमाः सर्वे शङ्खचक्रगदाभृतः ॥ ५३ ॥
तद्भावाद्दिमुखान् कर्तुं लोकांल्लोकेश्वरो हरिः ।
इदमादिष्टवान् देवि मामेव जगदीश्वरः ॥ ५४ ॥
भगवानुवाच
सर्वे दिव्या भविष्यन्ति मद्भावे हि प्रकाशिते ।
पशुभावं पुरस्कुर्वन् मद्भावं च विनिन्दकः ॥ ५५ ॥
आगमैः कल्पितैर्देव मद्भावाद्दिमुखान् कुरु ।
ईश्वर उवाच
तदाज्ञां शिरसि धृत्वा विष्णोरमिततेजसः ॥ ५६ ॥
तथैवाहं महेशानि कृतवांस्तन्त्रविस्तरम् ।
गोपयन्दिव्यभावं च पुरस्कुर्वन् पशोर्मतम् ॥ ५७ ॥
अत एव महेशानि वैष्णवे दर्शने खलु ।
पूजितः पशुभावश्च शक्तिनिन्दा च वि(स्मृ?स्तृ)ता ॥ ५८ ॥
या शक्तिः सर्वभूतानां द्विधा भवति सा पुनः ।
स्थूलरूपा च सा देवी सूक्ष्मरूपा च पार्वति ॥ ५९ ॥
स्थूलरूपेण सा देवी सर्वमेतज्जगत्त्रयम् ।
मोहयित्वा जनान्सर्वान् बहुरूपौ सुखेच्छया ॥ ६० ॥
संस्थिता परमेशानि लीलाकलितविग्रहा ।
स्वभावतो न जानन्ति तन्मायामोहिता जनाः ॥ ६१ ॥
१ 'पान्' क पाठ ।
३२८ गन्धर्वतन्त्रे ।
क्वचित्तां तु प्रहाराद्यैः कटूक्तिभाषणैस्तथा ।
ताडयन्ति च वै मूढा जना निरयगामिनः ॥ ६२ ॥
क्वचित्तां भूषणाच्छाद्यैः संभोगैरपि सेवया ।
पूजयन्ति हि ते धीराश्चतुर्वर्गप्रसाधकाः ॥ ६३ ॥
तेषां विप्रियकर्त्तारः पतिष्यन्ति सुनिश्चितम् ।
सूक्ष्मरूपां च तां विद्धि सर्वेषा (न्तमद?मन्त) रस्थिताम्। ६४
त्रैलोक्यजननीं देवीं मुख्येन ब्रह्मवर्त्मना ।
योजयित्वा परानन्दे परमानन्दरूपिणीम् ॥ ६५ ॥
तयोर्योगाद्यदमृतं तर्पयेत्तेन योगिनीम् ।
प्राणधारणया देवि शुद्धनाडीमनौः सुधीः ॥ ६६ ॥
प्राणान्प्रवेशयेन्नाड्या तन्मुखे चैव तान् हुनेत् ।
तद्वक्त्रे वायुना भिन्ने याति चोध्वं परेश्वरी ॥ ६७ ॥
तस्मादाकृष्य तद्वायुं कुम्भयित्वा तु संचयेत् ।
संचितैर्वायुभिस्तां च कुलवर्त्मविहारिणीम् ॥ ६८ ॥
सहस्रारे महापद्मे सितदीधितिमण्डले ।
समुन्नीय परे हंसे तयोरैक्यं धिया स्मरेत् ॥ ६९ ॥
होमाद्यं विहितं तत्र चन्द्रसूर्यात्मकं तयोः ।
स्रुक्स्रुवौ च समादाय जुहुयादव्ययं हविः ॥ ७० ॥
मूलाधारे परे चक्रे शक्तिर्या कुण्डली शुभा ।
तद्रन्ध्रमावर्ततोऽयं च बहिर्याति दिने दिने ॥ ७१ ॥
दिनेशाङ्गुलिमानेन तदर्धं चोपवासतः ।
द्विगुणं रतिकाले स्यात् त्रिगुणं भोजनाद्वहिः ॥ ७२ ॥
१ 'च सुमुढा' क पाठ । २ 'न्द' ख पाठ । ३ 'न' क पठ । ४ 'क्याधि' क पाठ ।
सप्तत्रिंशः पटलः । ३२६
अत ऊर्ध्वं वहेद्देवि त्रिदिनं यदि मारुतः ।
न्यूनं वा तद्धः प्राणः शरीरं परिमुञ्चति ॥ ७३ ॥
यावत्कालं वहेदेतद्वायुश्च जगदीश्वरः ।
तावच्चलति देहोऽयं तद्दिना चाचलः स्मृतः ॥ ७४ ॥
निश्चलं पवनं कृत्वा योगी भवति साधकः ।
वायुना नीयते बाह्ये मनस्तु प्राणिनां शिवे ॥ ७५ ॥
वायौ च सुस्थिरीभूते मनोऽपि स्थिरतां वहेत् ।
तयोरद्वैतभावे तु निश्चलत्वं गते द्वयोः ॥ ७६ ॥
देहं निरामय विद्धि यथाकामविलासिनम् ।
इह स्थित्वा यथाकामं संत्यज्य च कलेवरम् ॥ ७७ ॥
अद्वैतभावमापन्नो न स पुनरिहाव्रजेत् ।
प्रसङ्गात् कथिता देवि देहसिद्धिरनुत्तमा ॥ ७८ ॥
येन तेन विधानेन परितुष्टा महेश्वरी ।
संसारनिगडैर्बद्धः पुमान्विमुच्यते तया ॥ ७९ ॥
तस्यास्तोषं विना देवि विमुक्तिर्नैव विद्यते ।
अनिग्रहीतचित्तस्य पुरुषस्य महेश्वरि ॥ ८० ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शक्तिमा-
हात्म्य-देहसिद्धिवर्णनं नाम सप्तत्रिंशः पटलः ॥ ३७ ॥
१ 'ना' क पाठ.। २ 'वेन' क पाठ.। ३ 'त्वगतेस्तयो' क पाठ । ४ 'अनेनैव' ख पाठ ।
५ 'तन्नि' क पाठ ।
अष्टात्रिंशः पटलः।
—❀❀❀❀—
ईश्वर उवाच
बहुकालं पूजिता तु तुष्टा स्यात्सूक्ष्मरूपिणी ।
यथा तुष्यति भोगेन तपायोगैश्च न तथा ॥ १ ॥
अतो भोगेन तां तोष्य तथा मुक्तो भवेत्सुखी ।
मया चापि पुरा देवि सेविता योगवर्त्मना ॥ २ ॥
परितुष्टा न मे देवी सूक्ष्मरूपान्तरस्थिता ।
शक्तिहीनं च मां वीक्ष्य वनिताविमुखं तथा ॥ ३ ॥
विषण्णवदनो ब्रह्मा हृदयेन विदूयता ।
चिन्तावशमुपाविष्टो ब्रह्मा लोकपितामहः ॥ ४ ॥
मामासाद्य तथा विष्णुं ययौ क्षीरपयोनिधिम् ।
क्षीरोदस्योत्तरे तीरे रत्नद्वीपे सुशोभिते ॥ ५ ॥
तत्र स्थित्वावयोर्मध्ये ब्रह्मा ध्यानपरोऽभवत् ।
हृत्पुण्डरीकमध्यस्थे देवीपादसरोरुहे ॥ ६ ॥
मनो निधाय योगात्मा देवीसूक्तं परं जगौ ।
व्यतीते बहुकालेऽथ देवी त्रिभुवनेश्वरी ॥ ७ ॥
१ ‘लपूजितैस्तु’ क पाठ । २ ‘पवि’ क पाठ ।
अष्टात्रिंशः पटलः । ३३१
शूलपाशधरा देवी किरीटादिविमण्डिता ।
चतुर्भुजा त्रिनेत्रा च बालार्ककिरणारुणा ॥ ८ ॥
दर्शयामास स्वं रूपं तस्य तुष्टा तदा शिवे ।
प्रसन्नां तां समालोक्य स्रष्टा सर्वजगद्गुरुः ॥ ९ ॥
भक्त्या विनम्रवदनस्तुष्टाव च ननाम च ।
ब्रह्मोवाच
त्वं सावित्री च वाग्देवी त्वं श्रीः सर्वजगत्प्रसूः ॥ १० ॥
स्वाहा त्वं देवयज्ञेषु पितृयज्ञेषु च स्वधा ।
सुधा त्वं देवलोकेषु हविस्त्वं खलु मानुषे ॥ ११ ॥
त्वं विद्याश्चैव मन्त्राश्च वेदास्त्वं हि (सु १ स्व)रात्मिका ।
अर्धमात्रात्मिका त्वं वै यानुच्चार्या विशेषतः ॥ १२ ॥
त्वमेव परमा शक्तिर्जगत्कारणरूपिणी ।
विचार्याष्टाङ्गयोगेन लक्षणाद्यैर्मुहुर्मुहुः ॥ १३ ॥
यत् स्थिरीक्रियते देवि तत्ते रूपं सनातनम् ।
यद्व्यक्तमनिर्देश्यं निष्कलं परमात्मनः ॥ १४ ॥
रूपं तवैव तत् सूक्ष्मं सकलं च जगन्मयम् ।
या सृष्टिशक्तिरस्माकं स्थितिशक्तिस्तथा हरेः ॥ १५ ॥
अन्तशक्तिस्तथेशस्य सा त्वं शक्तिः सनातनी ।
त्वं जातवेदोगता शक्तिरुग्रा
त्वं दाहिका सूर्यकरस्य शक्तिः
आह्लादिका त्वं बहु चन्द्रिकाया-
स्तां त्वामहं नौमि नमामि चाम्बिकाम् ॥ १६ ॥
१ 'स्व' क पाठ । २ 'यि' ख पाठ ।
३३२ गन्धर्वतन्त्रे ।
योषा-योषित्प्रियाणां त्वं विद्या त्वं चोर्ध्वरेतसाम् ।
वाञ्छा त्वं सर्वजगतां माया च त्वं तथा हरेः ॥ १७ ॥
यथा प्रकाश्यते ब्रह्म सा त्वं नित्या प्रसीद मे ।
विश्वादिस्त्वमनादिस्त्वं विश्वयोनिरयोनिजा ॥ १८ ॥
अनन्तात्ससर्वजगतस्त्वमेवैकान्तरूपिणी ।
एका त्वं त्रिविधा भूत्वा मो(क्ष? ह)संहारकारिणी ॥ १६ ॥
संसारसागरोत्तारतरणिः सुखमोक्षदे ।
त्वं नित्या त्वमनित्या च त्वं चराचरमोहिनी ॥ २० ॥
नमस्ते जगतां मातः सृष्टिरूपे सनातनि ।
स्थितिरूपे नमस्तुभ्यं नमः संहाररूपिणि ॥ २१ ॥
एवं संस्तूयमाना सा योगनिद्रा विरिञ्चिना ।
आविर्बभूव प्रत्यक्षं ब्रह्मणः परमात्मनः ॥ २२ ॥
देव्युवाच
परितुष्टास्मि लोकेश स्तोत्रेणानेन ते विभो ।
वरं वृणीष्व भद्रं मे यत्ते मनसि वर्तते ॥ २३ ॥
ईश्वर उवाच
मां समीक्ष्य वरं वव्रे जगत्संहारकारकम् ।
सृष्टिशक्तिं मयि त्वं च विष्णौ पालनरूपिणीम् ॥ २४ ॥
संहारशक्तिमीशाने देहि मातर्नमोऽस्तु ते ।
एकश्चरति भूतेशो न द्वितीयां समीहते ॥ २५ ॥
तथा मोहय सर्वेशं दारान् स्वयं जिघृक्षति ।
देव्युवाच
यदुक्तं भवता ब्रह्मांस्तच्चैं सत्यं नचान्यथा ॥ २६ ॥
१ 'ता' ख पाठ । २ 'रा ' क पाठ । ३ 'क्ष्य' क पाठ । ४ 'त्स' क पाठ ।
अष्टात्रिंशः पटलः । ३३३
मोहयित्वाहमीशानं सतीरूपेण शंकरम् ।
संहरिष्यामि लोकेश जगदेतच्चराचरम् ॥ २७ ॥
तत्रापि तां तनुं त्यक्त्वा संभविष्यामि पार्वती ।
इति तस्मै समाभाष्य ब्रह्मणे परमेश्वरी ॥ २८ ॥
वीक्ष्यमाणा जगत्स्रष्ट्रा तत्रैवान्तरधीयत ।
तस्यामन्तर्हितायां च ब्रह्मा लोकपितामहः ॥ २९ ॥
कृताञ्जलिपुटो भूत्वा विष्णुमाह प्रजापतिः ।
संहारकरणे योग्यं वीरभावं च यद्भवेत् ॥ ३० ॥
तन्निदेशय महादेवे विष्णो लोकेषु दुर्लभम् ।
इति तद्वचनं श्रुत्वा भगवान् हरिरीश्वरः ॥ ३१ ॥
आदिष्टवान् मयि भेद वीरभावं सुदुर्लभम् ।
वीरभावे स्थितः सोऽहं मातस्त्वां समुपास्महे ॥ ३२ ॥
अद्यापि परमेशानि मातस्तुभ्यं नमो नमः ।
प्रकृतिः सर्वभूतानां त्वं हि सर्वजगत्प्रसूः ॥ ३३ ॥
या (मुक्तिः ? मूर्तिः) मम देवेशि क्षितिरूपा तु गीयते ।
सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३४ ॥
या मे मूर्तिर्द्वितीया च जलमयीति कथ्यते ।
सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३५ ॥
आग्नेयी या तृतीया मे जगत्क्षोभणकारिणी ।
सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३६ ॥
चतुर्थी वायवी मूर्तिः सृष्टिसंहारकारिणी ।
सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३७ ॥
१ 'तिस्रव' क पाठ । २ 'तिस्रव' क पाठ ।
३३४ गन्धर्वतन्त्रे ।
पञ्चमी या च सर्वेषां परिणामस्वरूपिणी ।
सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३८ ॥
षष्ठी या सर्वदेवानामाप्यायनीति गीयते ।
सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३६ ॥
सप्तमी मम मूर्तिर्या जगदाह्लादकारिणी ।
सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ४० ॥
अष्टमी मम मूर्तिर्या स्थितिसंहारकारिणी ।
सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ४१ ॥
नचैवाहं न मे किंचिद्यदिह जगतीतले ।
त्वयैवेदं जगद्व्याप्तं जगत् सर्वं त्वमेव हि ॥ ४२ ॥
देव्युवाच
मया सर्वं जगद्व्याप्तं वत्स सत्यं प्रभाषसे ।
ममैवैतेऽवताराश्च मत्स्यकूर्मादयोऽपरे ॥ ४३ ॥
त्वमेवाहं नचान्योऽसि ब्रह्माहं विष्णुरप्यहम् ।
अहमेव जगत् सर्वं नास्ति किंचित् मया विना ॥ ४४ ॥
यत्तु पश्यसि हे वत्स यत् किंचिज्जगतीतले ।
ब्रह्मादिस्तम्बपर्यन्तमहमेव न संशयः ॥ ४५ ॥
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
इत्युक्त्वा दर्शयामास शंभवे जगदीश्वरी ॥ ४६ ॥
स्वशरीरे जगत्कृत्स्नं संप्रविष्टमनेकधा ।
दृष्ट्वा १जगन्मयीं प्राह शंभुर्मायाविमोहितः ।
मामुद्धर जगन्मातर्मोहसागरमध्यतः ॥ ४७ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शिवस्य
शक्तिप्राप्तिनिरूपणं नाम अष्टात्रिंशः पटलः ॥ ३८ ॥
१ 'जगन्मयीं ततो दृष्ट्वा' क पाठ ।
ऊनचत्वारिंशः पटलः ।
-=-:❀:=-
जगन्मय्युवाच
मा विषीद महादेव सर्वथा त्वं स्थिरो भव ।
कुलज्ञानी कथं त्वं हि भावज्ञानी कथं पुनः ॥ १ ॥
इत्येवं त्वं मया पृष्टस्त्वमात्मानं न विस्मर ।
तदानन्दमयं धाम स्वविद्याभेदसंगतम् ॥ २ ॥
पुरुषः प्रकृतिश्चैव नित्यौ द्वौ समुपस्थितौ ।
सगुणाधिबला देवी निर्गुणो निर्बलः पुमान् ॥ ३ ॥
अविद्यानाद्यरूपा सा मदंशा भेदरूपिणी ।
सिसृक्ष्यापि नीचास्य सविधे समुपास्थिता ॥ ४ ॥
सिसृक्षया मया पूर्वं प्रार्थितः पुरुषः खलु ।
मामानन्दय सानन्दमित्युक्त्वा धर्षितः प्रभुः ॥ ५ ॥
मया धर्षितमात्रोऽसौ बभूव सगुणो विभुः ।
तत्तदानन्दसंदोहै(रा?: सा)नन्दाहं पुनः पुनः ॥ ६ ॥
जडत्वादुभयोर्देव शून्यभावमुपागतम् ।
अथानन्दात्मनोजाता शक्तिराद्या सनातनी ॥ ७ ॥
३३६ गन्धर्वतन्त्रे ।
गुणत्रयमयी सा तु बिन्दुत्रयस्वरूपिणी ।
अधः कृत्वा तु पुरुषं हकारार्धस्वरूपिणी ॥ ८ ॥
विपरीतेन रमते वह्नीन्द्वर्कस्वरूपिणी ।
अशिरस्कहकारान्त्यमशेषाकारसंस्थितम् ॥ ६ ॥
अन्तश्चरमजस्रं तं स्वमात्मानमुपास्महे ।
बिन्दुत्रये महादेव सर्गमेतत् प्रतिष्ठितम् ॥ १० ॥
ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् ।
पञ्चभूतमयं विद्धि चासत्यं सत्यवद्भ्रमः ॥ ११ ॥
पृथिवीयं महादेव प्रांकृती नतु (कस्तुरी ? वास्तव्री) ।
ब्राह्मणी नैव चाण्डाली नैव दैवी न मानुषी ॥ १२ ॥
रसमात्रं जलं विद्धि न द्विजं नच पुक्कसैम् ।
रूपमात्रं तु यत्तेजस्तत्र किं जातिकल्पना ॥ १३ ॥
स्पर्शमात्रं तु यद्वायुर्नोत्तमो नाधमः खलु ।
शब्दमात्रं यदाकाशं विभोस्तस्य महात्मनः ॥ १४ ॥
नीचतां कल्पते देवि मूढोऽज्ञानविजृम्भितः ।
एभिः पञ्चभिरारब्धं देहं स्थावरजङ्गमम् ॥ १५ ॥
पञ्चानां संनिपातं यत् न ब्राह्मणं न पुक्कसैम् ।
तदसत्यं विजानीयात् सत्यं ब्रह्म न तन्न तत् ॥ १६ ॥
देहाद्भिन्नः शिवो देही परमानन्दरूपवान् ।
तद्ब्रह्मेति च यो विद्यात् स एव ब्राह्मणो मतः ॥ १७ ॥
यदिदं लक्ष्यते देव पञ्चभूतात्मविग्रहे ।
वायुभिरिन्द्रियग्रामे प्रेरिते पञ्चभिः शिवम् ॥ १८ ॥
१ 'न्त्यमे' क पाठ.। २ 'प्र' क पाठः । ३ 'शम्' क पाठ । ४ 'श' क पाठ । ५ 'क्षसे' क पाठ ।
ऊनचत्वारिंशः पटलः । ३३७
कर्तृत्वमात्मनो देव तदविद्याभ्रमो महान् ।
व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् ॥ १६ ॥
दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ।
आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः ॥ २० ॥
स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः ।
देहेन्द्रियगुणान् कर्माण्यमले सच्चिदात्मनि ॥ २१ ॥
अध्यासत्यात्माविवेकेन गगने नीलतामिवै ।
अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि ॥ २२ ॥
कल्प्यन्तेऽम्बुगते चन्द्रे चलनादिर्यथाम्भसः ।
रागेच्छासुखदुःखादि (वृ ? बु) द्धौ सत्यां प्रवर्तते ॥ २३ ॥
सुषुप्तौ नास्ति तन्नाशे तस्माद् बुद्धेस्तु नात्मनः ।
प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोषष्णता ॥ २४ ॥
स्वभावैः सच्चिदानन्दनित्यनिर्मलतात्मनः ।
आत्मनः सच्चिदंशश्च बुद्धेर्वृ (द्धि ? त्ति) रिति द्वयम् ॥ २५ ॥
संयोज्य चाविवेकेन जानामीति प्रवर्तते ।
आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति ॥ २६ ॥
जीवः सर्वमलं ज्ञात्वा कर्ता द्रष्टेति मुह्यति ।
रज्जुसर्पवदात्मानं ज्ञात्वा जीवो भयं वहेत् ॥ २७ ॥
नाहं जीवः परात्मेति ज्ञातश्चैं निर्भयो भवेत् ।
आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाणि हि ॥ २८ ॥
दीपो घटादिवत् स्वात्मजौतैस्तैर्नावभास्यते ।
स्वबोधे नान्यबोधेच्छा बोधरूपस्य चात्मनः ॥ २६ ॥
'विवेकी चा' क पाठ । २ 'न्मवि' क पाठ । ३ 'वत्' क पाठ । ४ सत्या, ख पाठ ।
'वस' क पाठ । ६ 'जीव सवमय ज्ञात्वा ज्ञात्वा दृ' क पाठ । ७ श्चेन्नि क, पाठ ।
धश्च' क पाठ । ६ 'पंस्तथा' क पाठ. :
३३८ गन्धर्वतन्त्रे ।
न दीपस्यै तु दीपेच्छा यथा स्वात्मप्रकाशने ।
निषिध्य निखिलोपाधिं नेति नेतीति वाक्यतः ॥ ३० ॥
विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः ।
आविद्यकं शरीरादि दृश्यं बुद्बुदवत् क्षणम् ॥ ३१ ॥
एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम् ।
देहोऽन्यम विभिन्नत्वान्न मे जन्मजरादयः ॥ ३२ ॥
शब्दादिविषयैः सङ्गो निरिन्द्रियतया नच ।
अमनस्त्वान्न मे दुःखरागद्वेषभयादयः ॥ ३३ ॥
अप्राणो ह्यमनाः शुद्ध इत्यादिश्रुतिशासनात् ।
निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरञ्जनः ॥ ३४ ॥
निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः ।
नित्यशुद्धविमुक्तैकमखण्डानन्दमद्वयम् ॥ ३५ ॥
सत्यं ज्ञानमयं यत्तत् परं ब्रह्माहमेव तत् ।
एवं निरन्तरं कृत्वा ब्रह्मैवास्मीति वासना ॥
हरत्यविद्याविक्षेपान् रोगानिव रसायनम् ॥ ३६ ॥
शंभुरुवाच
देहाद्भिन्नः कथं ह्यात्मा कीदृशः कुत्र संस्थितः ।
कथं वा ज्ञायते ब्रह्म तन्मे वद जगन्मयि ॥ ३७ ॥
जगन्मय्युवाच
अवच्छिन्न इवाज्ञानात् तन्नाशे सति केवलः ।
स्वयं प्रकाशते ह्यात्मा मेघापायेऽंशुमानिव ॥ ३८ ॥
अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् ।
कृत्वाज्ञानं स्वयं नश्येजलं कतकरेणुवत् ॥ ३६ ॥
१ 'पतया' क पाठ । 'स्यान्त्य' ख पाठ.। २ 'देहात्यत्वान्न' मे जन्मजराकार्श्यलयादय.' ख पाठ ।
३ 'अ' ख पाठ । ४ 'राभ्यस्ता, ख. पाठ.' ।
ऊनचत्वारिंशः पटलः । ३३६
संसारः स्वप्नतुल्यो हि रागद्वेषादिसंगतः ।
अबोधे सत्यवद्भाति सुबोधेऽसत्यवद्भवेत् ॥ ४० ॥
तावत् सत्यं जगद्भाति शुक्तिकारजतं यथा ।
यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥ ४१ ॥
सच्चिदात्मन्यनुस्यूता नित्ये विष्णौ प्रकल्पिताः ।
व्यक्तयो विविधाः सर्वा हाटके कटकादिवत् ॥ ४२ ॥
यथाकाशो हृषीकेशो नानोपाधिगतो विभुः ।
तद्भेदाद्भिन्नवद्भाति तन्नाशे लैकवद्भवेत् ॥ ४३ ॥
नानोपाधिवशादेव जातिवर्णाश्रमादयः ।
आत्मन्यारोपितास्तोये रसवर्ण्णाविभेदवत् ॥ ४४ ॥
पञ्चीकृतमहाभूतसंभवं कर्मसंचितम् ।
शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ ४५ ॥
पञ्चप्राणमनोबुद्धिदशेन्द्रियसमान्वितम् ।
अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ ४६ ॥
अनाद्यविद्यानिर्वाच्या कारणोपाधिरुच्यते ।
उपाधित्रितयादन्यदात्मानमवधारयँ ॥ ४७ ॥
सर्वभूतस्थमात्मानमहमेव तथात्मनि ।
सर्वभूतानि संचिन्त्य चिन्तयस्वैकमेव हि ॥ ४८ ॥
उत्पत्तिप्रलयाभ्यां च न सदिदं निशामय ।
मनः करोति पापानि मनः पापेन लिप्यते ।
मनस्युन्मननीभूते न धर्मो नच पातकम् ॥ ४६ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शिवस्य
देवीकृतज्ञानोपदेशवर्णनं नामोनचत्वारिंशः पटलः ॥ ३६ ॥
१ 'संकुल' ख पाठ । २ स्वकाले' ख पाठ । ३ प्र' ख पाठ । ४ 'सति केवल' ख पाठ ।
५ 'र्णादि' ख पाठ । ६ 'मा' ख पाठ । ७ 'येत्' ख पाठ ।
चत्वारिंशः पटलः ।
—=०•❀•०=—
शंभुरुवाच
कथ्यतां देवदेवेशि व्यक्तीभूतावुभौ कथम् ।
शिवशक्तिमयं ज्ञानं कथं वा जायते तथा ॥ १ ॥
जगन्मय्युवाच
पुंभावः शिव ईत्याहुः स्त्रीभावः प्रकृतिः परा ।
शिवो ज्ञानमयो देहे शक्तिर्बुद्धिमयी परा ॥ २ ॥
शुक्लं शिवो महामेदः शक्तिः कुण्डलिनी त्विति ।
लिङ्गं शिवस्तथा शक्तियोंनिर्जगति दृश्यते ॥ ३ ॥
इत्येवं त्रिपुरा शक्तिरित्येवं त्रिपुरः शिवः ।
नानयोर्विद्यते भेदो या शक्तिः स शिवो ध्रुवम् ॥ ४ ॥
न शिवेन विना शक्तिर्न शक्तिरहितः शिवः ।
न तद्भूतस्तयोर्भेदश्चन्द्रचन्द्रिकयोरिव ॥ ५ ॥
एवं तौ सर्वभूतेषु द्विधाभूतौ व्यवस्थितौ ।
तस्मान्नास्ति तयोर्भिन्नं जगदेतच्चराचरम् ॥ ६ ॥
पिता माता सुतश्चेति भावोऽयं विविधो (मु? मृ)षा ।
स्वाँविद्यासुदृढाभ्यासाद् दृढीभूतो हृदि स्थितः ॥ ७ ॥
१ 'मि' क. पाठ. । २ 'व' क पाठ । ३ 'क्त्यावा' क पाठ । 'स्व' क पाठ. ।
चत्वारिंशः पटलः । ३४१
गुरुवाक्येन तं विद्याद् दृढाभ्यासेन मानवः ।
जीवन्मुक्तः सर्वभूतमयो भवति वै ध्रुवम् ॥ ८ ॥
शरीरं विविधाङ्गं मे कथ्यते शृणु सादरम् ।
ब्रह्मैवाहं नचान्योऽस्मि शरीरमेतदेव हि ॥ ९ ॥
चैतन्यं सर्वभूतानां शब्दब्रह्मस्वरूपकम् ।
वर्णरूपेण तद्व्यक्तं मन्त्रविद्यादिभेदतः ॥ १० ॥
कुङ्कुमागुरुकस्तूर्या रोचनाचन्दनेन्दुभिः ।
प्रकाश्य तव पीठे तु शक्त्यन्तःस्थं यथा भवेत् ॥ ११ ॥
तत्र पूजा सदा कार्या तत्तद्धर्मविधानतः ।
सर्वेषामेव देवानां मन्त्रमाद्यं शरीरकम् ॥ १२ ॥
पूजयेत्तद् गुरुमन्त्रदेवतात्मस्वरूपतः ।
द्वितीयं कथ्यते देव यत्पुनर्ध्यानगोचरम् ॥ १३ ॥
कृत्वा रत्नमयं रूपं शुद्धकाञ्चननिर्मितम् ।
प्रत्यहं पूजयेद्देवममुत्र मासि मासि च ॥ १४ ॥
वार्षिकं त्वथ वा कुर्यान्महोत्सवमनुत्तमम् ।
विमुखो दम्भमाश्रित्य द्रव्यनाशैवशादुत ॥ १५ ॥
महोत्सवाविधौ यो मे (स्व ? स ) स्याद्भग्नमनोरथः ।
विमुखास्तस्य दुर्बुद्धेः पितरः सौमरा गणाः ॥ १६ ॥
तस्मात्परदिने४ प्राप्ते बोधयित्वा विधानतः ।
प्रत्यहं पूजयेद्भक्त्या पूर्णं५ तस्या महोत्सवम् ॥ १७ ॥
तृतीयं कथ्यते यन्त्रं रौत्नं६ वा हेमनिर्मितम् ।
मद्भावरूपमात्रं तु विदित्वा सद्गुरोर्बुधः ॥ १८ ॥
. 'हर्मन्त्री' क पाठः । २ 'दोषो नाश्य' क पाठ । ३ 'समरा' क पाठ । ४ 'न' ख पाठ ।
५ 'पूर्णान्त स्यान्म' क पाठ । ६ 'र' ख पाठ ।
३४२ गन्धर्वतन्त्रे ।
पूजयेद्गन्धपुष्पाद्यैर्मदात्मा मद्गभेदतः ।
चन्दनागुरुकस्तूर्या रोचनाचन्द्रकुङ्कुमैः ॥ १६ ॥
कुलपुष्पैश्च संलिख्य त्वदुक्तविधिना यजेत् ।
वाराहस्कन्धजैर्दम्भैरनुलेपं विघर्षयेत् ॥ २० ॥
वाराहदेहजैर्दम्भैः कुर्यान्मलविघर्षणम् ।
प्रीतिर्मे जायते तत्र पूर्णा द्वादशवार्षिकी ॥ २१ ॥
सुगन्धिस্পর্শसुखदैः कुसुमैररुगैरपि ।
अशून्यं सर्वदा कुर्याच्छून्ये विघ्नाद्यनेकround: विघ्नाद्यनेकशः ॥ २२ ॥
अत्यन्तसुखदैर्वस्त्रैराच्छाद्य भवनान्तरे ।
त्वल्लिङ्गेनातिशुद्धेन शुक्लेन चित्तहारिणा ॥ २३ ॥
स्थापयेत्पूजयेत्सार्धं यतो नाहं त्वया विना ।
नैव त्वमपि हे देव प्रभुर्देवो मया विना ॥ २४ ॥
तस्मादावां सदैवार्त्र स्थापयेत्सिद्धिमिच्छुकः ।
विद्रुममौक्तिकाम्यां वा यो जपेन्मन्त्रमुत्तमम् ॥ २५ ॥
समयाचारयोगेन त्वयोक्तेनैव शंकर ।
पूजां यः कुरुते नित्यं भक्तिश्रद्धासमन्वितः ॥ २६ ॥
चतुर्धा कालरूपैश्च हस्तैरालिङ्ग्य तं शिवम् ।
मामक्या कलया युक्तं करोमि पुरनायकम् ॥ २७ ॥
तुरीयं मे परं रूपं गुप्तं यज्जगतीतले ।
तत्र पूजा सदा कार्या कुलयागविधानतः ॥ २८ ॥
सर्वापायेषु सर्वत्र कौलो धर्मः परो महान् ।
सुगमा निगमाः सर्वे कौलो धर्मस्तु दुर्गमः ॥ २६ ॥
१ 'स्वा' क पाठ. ।