गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
२७० गन्धर्वतन्त्रे ।
सैव सर्वेश्वरी देवी स च सर्वो महेश्वरः ।
व्याप्या पञ्चदशार्णैः सा पञ्चभूत[स्तु?गु]णात्मिका¹ ॥ ४५ ॥
पञ्चभिश्च तथा षड्भिश्चतुर्भिरपि चाक्षरैः ।
स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी ॐ ॥ ४६ ॥
सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्त्वरूपिणी ।
तत्त्वातीतस्वभावा च विज्ञेयं भाव्यते सदा ॥ ४७ ॥
पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् ।
भूतं[लं सस्तलं?त्वधस्तनं] व्याप्यं तद्गुणा व्यापकाश्रयाः ४८
व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः ।
तस्माद्व्योमगुणः शब्दो वाय्वादीन् व्याप्य संस्थितः ॥४६॥
व्योमबीजैस्तु विद्या[चै?स्थै]र्लक्ष्ये[तु च?च्छब्द] पञ्चकम् ।
तेषा कारणरूपेण स्थितं व्योममये परम् ॥ ५० ॥
भवे(ज्जवलु?द्गुण)वतां बीजं गुणानामपि वाचकम् ।
कार्यकारणभावेन तयोरैक्यविवक्षया ॥ ५१ ॥
१ 'काम्' क पाठ । २ 'ध्वनिमय' ख पाठ ।
ॐ प्रथमबीजेऽकारचतुष्टयमकारश्चेति पञ्च स्वरा व्यञ्जनषटक चेति एवमेकादश ।
द्वितीयबीजेऽकारपञ्चकमीकारश्चेति षट् स्वरा सप्त व्यञ्जनानि एव त्रयोदश । तृतीयबी-
जेऽकारत्रयमीकारश्चेति चत्वार स्वरा पञ्च व्यञ्जनानि एव नव । एवं विभजने त्रय-
स्त्रिशत् । बीजत्रयान्ते बिन्दुद्वयम् इति षट्त्रिंशत् । एतत्समष्टिरेका । एव सप्तत्रिंश-
त्प्रभेदिनी विज्ञेति ।
एकोनत्रिंशः पटलः । २७१
महामायात्रयेणापि कारणेन च बिन्दुना ।
वाय्वग्निजलभूमीनां स्पर्शानां च चतुष्टयम् ॥ ५२ ॥
उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः ।
रूपाणां त्रितयं त[त्त्वं?द्वत्]त्रिभी रेफैर्विभावितम् ॥ ५३ ॥
प्रधानं तेजसो रूपं तद्बीजेन हि जन्यते ।
विद्यास्थैश्चन्द्रबीजैस्तु स्थूलः सूक्ष्मो रसः स्मृतः ॥ ५४ ॥
सम्बन्धो विदितो लोके रसस्याप्यमृतस्य च ।
वसुन्धरागुणो गन्धस्त[द्विद्धि?ल्लिपिः]गन्धवाचिका ॥ ५५॥
भुवनत्रयसं [बुद्ध्या?बन्धात्] त्रिधात्वं तु महेश्वरि ।
अशुद्ध [स्तत्त्व?शुद्ध] मिश्राणां प्रमातॄणां परं वपुः ॥ ५६ ॥
क्रोधीशत्रितयेनाथ विद्यास्थेन प्रकाश्यते ।
श्रीक[श्व?ण्ठ] दशकं तद्वद्व्यक्तस्य हि' वाचकम् ॥ ५७॥
प्राणारूपस्थितो देवि त (त्त्वमे?द्वाद)कादशः (पुनः?परः) ।
एकः सन्नेव पुरुषो बहुधा जायते हि सः ॥ ५८ ॥
रुद्रेश्वरसदेशाख्या देवता मितैविग्रहाः ।
बिन्दु(क्रमे?त्रये)ण कथिता, अमितामितैर्विग्रहाः ॥ ५९ ॥
शान्तिः शक्तिश्च शंभुश्च नादत्रितयबोधनैः ।
वा[ग्भवो?गुरा] मूलवलये सूत्राद्याः कवलीकृताः ॥ ६० ॥
२७२ गन्धर्वतन्त्रे ।
तथा ऽमन्त्राः समस्ताश्च विद्याया(य?म)त्र संस्थिताः ।
गुरुक्रमेण संप्राप्तः संप्रदायार्थ ईरितः ॥ ६१ ॥
निग[र्वो?र्भो]ऽपि च देवेशि शिवगुर्वा[थ?त्म] गोचरैः ।
तत्प्रकारं च देवेशि दिङ्मात्रेण वदामि ते ॥ ६२ ॥
शिवगुर्वात्मनामैक्यानुसंधानात् तदात्मकम् ।
निष्कलत्वं शिवे बुद्ध्वा तद्रूपत्वं गुरोरपि ।
तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ॥ ६३ ॥
भावयेद्भक्तिनम्रस्तु शङ्कोन्मेषाकलङ्कितः ।
कौलिकं कथयिष्यामि चक्र[मे?दे]वतयोरपि ॥ ४६ ॥
विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते² ।
तथा मन्त्रात्मकं चक्रं देवतायाः परं वपुः ॥ ६५ ॥
एकादशाधिकशतै³र्देवतात्मतया स्थितम् ।
लकारैश्चतुरस्राणि, वृत्तत्रितयसंयुक्तम् ॥ ६६ ॥
सरोरुहद्वयं (शक्तो?शाक्तै)रग्नी(सो?षो) मात्मकं प्रिये ।
हृल्लेखात्रयसम्भु[ल्यै?तै]रक्षरैर्नवसंख्यकैः ॥ ६७ ॥
बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये ।
मण्डलत्रयसंयुक्तं चक्रं शक्त्यनलात्मकम् ॥ ६८ ॥
व्योमबीजत्रयेणापि, प्रमातृत्रितयात्मकम् ।
इच्छा[दिना?ज्ञान]क्रियारूपमादनत्रयसंयुक्तम् ॥ ६६ ॥
१ 'गौरव' क पाठ । २ 'दृश्यते' क पाठ । ३ 'त' क पाठ ।
एकोनत्रिंशः पटलः । २७३
सर्ववर्णात्मकं बिन्दुचक्रं सद्यः शिवात्मकम् ।
गणेशत्वं महादेव्याः ससोमरविपावकैः ॥ ७० ॥
इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैः पुनः ।
ग्रहरूपा परा देवी, ज्ञानकर्मेन्द्रियैरपि ॥ ७१ ॥
त(दुत्थै?दर्थै)रेव देवेशि करणैरान्तरैः पुनः ।
प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ॥ ७२ ॥
नक्षत्रविग्रहा जाता, योगिनीनामथोच्यते ।
त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ॥ ७३ ॥
वर्गाष्टकनिविष्टाभिर्योगिनी(भ्य?भि)स्तु संयुता ।
योगिनीरूपमास्थाय क्रीडते विश्वरूपिणी ॥ ७४ ॥
प्राणोऽपानः समानश्च व्यानोदानौ तथा पुनः । ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ७५ ॥
जीवात्मा परमात्मा च तैरेव [बलि?राशि]रूपिणी ।
अकथादित्रिपंक्त्यात्मतार्तीयादिक्रमेण सा ॥ ७६ ॥
(जनना?गणेशोऽ)भून्महाविद्या परावागादिवाङ्मयी ।
बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥ ७७ ॥
हृल्लेखात्रयसम्भूतैस्तिथिसंख्यैरथाक्षरैः ।
अन्यैर्द्वादशभि[र्व्यक्तै?र्वर्णै]रेषा नक्षत्ररूपिणी ॥ ७८ ॥
२७४ गन्धर्वतन्त्रे ।
विद्यान्तर्भूतशक्त्याद्यैः शाक्तैः¹ षद्भिरथाक्षरैः ।
योगिनी[वर्गा?त्वं च]विद्याया, राशित्वं चान्त्यवर्जितैः ॥७६॥
एवं विश्वप्रथाकारचक्ररूपा महेश्व(रि?री) ।
देवीदेहो यथा देवि गुरुदेहस्तथैव च ॥ ८० ॥
तत्प्रसादाच्च शिष्योऽपि तद्रूपः सम्प्रकाशते ।
सहस्रदलमध्ये तु त्रिकोणं परिचिन्तयेत् ॥ ८१ ॥
तत्रैव मादनं बीजं बिन्दुमाश्रित्य दीपयेत् ।
कोटिचन्द्रप्रतीकाशं चिदानन्दमयं परम् ॥ ८२ ॥
अनुत्तरपदं गुह्यं ललाटोर्ध्वे व्यवस्थितम् ।
भगमाधारसंस्थानं त्रिकोणपुरमाश्रितम् ॥ ८३ ॥
मृणालतन्तुरूपौ हि विश्वोत्पत्तेश्च कारणम् ।
इच्छाज्ञानक्रियारूपा चतुर्थी हृदये स्थिता ॥ ८४ ॥
शक्रं ललाटमध्ये तु दीपाभं परिचिन्तयेत् ।
विद्युत्कोटिप्रतीकाशं पञ्चमं नेत्रनासिके ॥ ८५ ॥
शिवो नादाख्यसंयुक्तस्त्रिषु शून्येषु संस्थितः ।
सूर्यकोटिप्रतीकाशो महापद्मोपरिस्थितः ॥ ८६ ॥
सकारं मुखमध्ये तु बालार्कसदृशं परम् ।
मादनं जठरे देवि वराभं परिचिन्तयेत् ॥ ८७ ॥
१ 'कै' ख पाठ.। २ 'ष' ख पाठः।
एकोनत्रिंशः पटलः । २७५
हकारं प्राणवायौ च हंसा [भि?भं] परिचिन्तयेत् ।
कलाषोडशपत्रे च इन्द्रमोंकाररूपकम् ॥ ८८ ॥
ह्रींकारं हृदये पद्मे कोटिसूर्यसमप्रभम् ।
बिन्दुद्वये कुचयुग्मे यवाभे चार्थचन्द्रकम् ॥ ८९ ॥
नादबिन्दुस्तदग्रे तु शिवशक्तिसमन्विते ।
कामराजं महेशानि आकर्षणकरं परम् ॥ ९० ॥
नाभिपद्मे त्रिकोणे च दाडिमाभं सकारकम् ।
पादद्वये महेशानि मादनं दीपसंनिभम् ॥ ९१ ॥
पृष्ठोपरिस्थितं देवि इन्द्रं तेजःस्वरूपिणम् ।
चतुर्थं योनिमध्ये तु दीपाभं परिचिन्तयेत् ॥ ९२ ॥
शिवेन लिङ्गरूपेण तद्विन्दुयुगलेन च ।
विद्याबीजत्रयं देवि योनित्वे परिचिन्तयेत् ॥ ९३ ॥
लिङ्गं योनिं च सत्त्वं च चतुर्थं कथितं मया ।
(५)अथ सर्वरहस्यार्थं कथयामि तवानघे ॥ ९४ ॥
मूलाधारे ज्वलद्रूपं वाग्भवाकार[तद्धि?तां] गते ।
अष्टात्रिंशत्कलायुक्तपञ्चाशद्वर्णविग्रहा ॥ ९५ ॥
विद्यां कुण्डलिनीरूपा मण्डलत्रयभेदिनी ।
तडित्कोटिप्रभाप्रख्या विषतन्तुनिभाकृतिः ॥ ९६ ॥
व्योमेन्दुमण्डलासक्ता [स्व?सु]धास्रोतःस्वरूपिणी ।
सदाव्याप्तजगत्कृत्स्ना सदानन्दस्वरूपिणी ॥ ९७ ॥
एषा स्वात्मेति बुद्धिस्तु रहस्यार्थो महेश्वरि ।
२७६ गन्धर्वतन्त्रे ।
(६)महातत्त्वार्थ इति यत्तच्च देवि ब्रवीमि ते ॥ ९८॥
निष्कले परमे सूक्ष्मे १निर्लिप्ते भाववर्जिते ।
व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे ॥ ९९॥
विश्वोत्तीर्णे विश्वमये तत्त्वे स्वात्मनियोज(येत्?नम्) ।
तदा प्रकाशमानत्वात् तेजसां तमसामपि ॥ १००॥
अविनाभावरूपत्वं तस्माद्विश्वस्य सर्वतः ।
प्रकाशते महातत्त्वं दिव्यक्रीडारसो२ज्ज्वले ॥ १०१ ॥
निरस्तसर्वसंकल्पविकल्पस्थितिपूर्वकः ।
रहस्यार्थो मया प्रोक्तः सद्यः प्रत्ययकारकः ॥ १०२ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे विद्यासाधननिर्णयो
एकोनत्रिंशः पटलः ॥ २९ ॥
१ 'निर्लप्त्ये' ख पाठः । २ 'सोद्वले' ख. पाठ ।
ित्रंशः पटलः ।
—=:!0:-=—
ईश्वर उवाच ,
अकथ्यमपि देवेशि तव स्नेहाद्वदाम्यहम् ।
त्रिकूटान्ते हंसबीजं बिन्दुनादविभूषितम् ॥ १ ॥
विपरीतेन वा देवि दुर्लभं पापचेतसाम् ।
हकारः प्राणरूपस्तु सकारो जीव उच्यते ॥ २ ॥
उभौ जीवेति विख्यातौ त्रैलोक्ये सचराचरे ।
हकारं शुक्लवर्णाढ्यं चन्द्रकोटिसमप्रभम् ॥ ३ ॥
सकारं रक्तवर्णाढ्यं कोटिसूर्यसमप्रभम् ।
भावनं त्वस्य मन्त्रस्य जपमात्रं न विद्यते ॥ ४ ॥
अजपा तेन विख्याता शिवशक्तिसमन्विता ।
न्यासमन्त्रस्य विद्याया हकारः प्राण उच्यते ॥ ५ ॥
सकारो जीव आख्यातो जीवः कामेन मण्डितः
मादनं प्राणरूपं तु वि(मर्श?कासः) शिव उच्यते ॥६॥
सकारस्थः परो ज्ञेयः संकोचः शक्तिरूपवान् ।
संकोचः परमा शक्तिर्वि(मर्शः?कास.) परमः शिवः ॥७॥
संकोचश्च विकासश्च हस इत्यक्षरद्वयम् ।
तयोरखररूपेण [क?ह]वर्णौ बिल्व(न्दु)मालिनी ॥ ८ ॥
१ 'सकार जीवमाख्यात जीव कामेन मण्डितम्' क पाठ ।
२७८ गन्धर्व्वतन्त्रे ।
प्राणो 'बिन्दुरिति प्रोक्तः साहचर्याद्वरानने ।
सपूर्व्वमुदितं मन्त्रं शंभुशक्त्यैक्यवाचकम् ॥ ६ ॥
जीवशक्त्यैक्यसिद्धयर्थं गदितं सुरपूजिते ।
अस्मिन्मन्त्रे वरारोहे कालकर्म्मान्तवर्त्मना ॥ १० ॥
वर्तते यस्तु युक्तात्मा असाध्यमपि साधयेत् ।
त्वं च जीवैक्यसिद्धयर्थमुदितं मन्त्रनायकम् ॥ ११ ॥
तथ्यं मद्वाक्यतो(देवि?विद्धि) फलाफलस्पृहां त्यज ।
अस्मिन्मन्त्रे महाभागे समे जप्ते वदाम्यहम् ॥ १२ ॥
सर्वे मन्त्राः प्रसिध्यन्ति जीवन्ति च पुनन्ति च ।
प्राणन्ति च महाभागे सत्यं सत्यं वदाम्यहम् ॥ १३ ॥
सोऽहंभावेन भावेन भावनं भावनं मतम् ।
सोऽहंभावेन भावं तु उक्तलक्षणल(क्ष्यते?ञ्चितम्) ॥१४॥
कृत्वाहंभावमुत्सृज्य सोऽहंभावे स्थिरीभवेत् ।
शंभुभावे स्थिरीभूते बिन्दुं शंभौ विभावयेत् ॥ १५ ॥
सञ्चित्सुखमयंः शंभुस्त्रिरूपः सर्वकर्मणि ।
सर्वदा भा(ष?व्य)ते यस्मात्तन्मयं त्वखिलं ततः ॥१६॥
सत्संनिधिसमज्ञेषु शंभुश्चैव प्रकाशते ।
कामः कामर्यते भेदमिति तद्रूपतां मतिः ॥ १७ ॥
१ ‘यतो भेदमिति तद्रूपतामति’ क्र पाठ ।
त्रिंशः पटलः । २७६
यैत्र चित्सत्तयोर्व्याप्तिस्तत्रानन्दोऽभिजायते ।
यत्रानन्दो भवेद्भावे तत्र चित्सत्तयोः स्थितिः ॥ १८ ॥
या चित्सत्तैव सा प्रोक्ता यौ सत्ता सा चिदुच्यते ।
एवं चित्सत्तयोरैक्ये स्थिरीभूते वरानने ॥ १९ ॥
आनन्देन समावेशोऽसुचिरादेव जायते ।
तदानन्दमयं विश्वं स्वात्माभेदं प्रकाशते ॥ २० ॥
एवं शंभुमये भावे सर्वतः प्रभवे शिवे ।
सर्वशक्त्युपभोगे तु जीवन्मुक्तो महीं वसेत् ॥ २१ ॥
भावद्या ? वस्तुभूताया हसौ ⸱ ⸱ ⸱ ।
प्राणाः स्वराः समाख्याता बिन्दुस(ङ्कौ?र्गौ) च चेतना ॥२२॥
अन्यान्यावयवानि स्युरन्यानि परमेश्वरि ।
तेन तद्युक्तितो मन्त्राः प्रसीदन्ति नचान्यथा ॥ २३ ॥
बिन्दुसर्गौ हसौ तुर्यस्वरश्चेति च पञ्चमम् ।
भवत्या मातृकादेहे विद्धि चैतन्यजृम्भणम् ॥ २४ ॥
तेन तैर्हीनरूपास्तु मन्त्रा विद्यास्तथा परे ।
निष्प्राणदेहवत्कार्यकरणेष्वक्षमाः स्मृताः ॥ २५ ॥
रमां मायां हंसबीजं वाग्भ[वत्वे?वाद्ये]नियोजयेत् ।
शक्त्यन्ते परमेशानि सोऽहं मायां रमां तथा ॥ २६ ॥
१ 'अत्र चित्सत्त्वये व्याप्तिर्य' क पाठ । २ 'त्त्व' क पाठ. । ३ 'अ' क. पाठः ।
३ 'त्त्व' क पाठ । ४ 'सर्गौ' क. पाठ ।
२८० गन्धर्वतन्त्रे ।
कामराजाह्वये देवि क्रोधीशं शक्रसंयुतम् ।
मायाबिन्दुसमायुक्तं कोटिसूर्यसमप्रभम् ॥ २७ ॥
स्फुरत् त्रिकोणमध्यस्थं किरणानेकसंवृतम् ।
एतत्प्राणं महाभागे गुप्तं ग्रन्थे प्रकाशितम् ॥ २८ ॥
बोधिन्या बोधयेद्विद्यां संदीपन्या च दीपयेत् ।
तारमायारमायोगो म(नो?नु)दीपनमुच्यते ॥ २६ ॥
जीवन्या जीवयेद्विद्याममृतैरमृतं चरेत् ।
पृथग्विधं तु तस्यापि साधनं शृणु पार्वति ॥ ३० ॥
वाग्भवबीजरूपां तु दीपाभां तन्तुरूपिणीं ।
गच्छन्तीं ब्रह्ममार्गेण लिङ्गभेदक्रमेण तु ॥ ३१ ॥
विशेदकुलामृतं दिव्यं क्षीरधारोपमं द्रवत् ।
पीत्वाकुलामृतं देवि पुनरेव विशेत् कुलम् ॥ ३२ ॥
पुनरेवाकुलं गच्छेद् द्वादशान्ते वरानने ।
सहस्रारे महापद्मे वाग्भवं पूर्णचन्द्रकम् ॥ ३३ ॥
ब्रह्मग्रन्थि ततो भित्त्वा ❁सप्तषष्ट्याख्यधारया '?, ।
नासिकारन्ध्रमार्गेण त्वात्ममूलं प्रवेशयेत् ॥ ३४ ॥
जिह्वामापूर्य भो देवि मातृकावर्णरूपिणीम् ।
बहिर्गतां तु वाग्रूपां जिह्वाग्रे दीपरूपिणीम् ॥ ३५ ॥
१ 'पं' क. पाठ । २ 'विशदस्था' क पाठ । ३ 'सद्भवम्' क पाठ' ।
❁ 'वह्निविषाधारद्वयमध्यवर्तिन शाक्ताख्यमाधार भित्त्वेत्यर्थः ।
त्रिंशः पटलः । २८१
आमूलाद्ब्रह्मरन्ध्रान्तं तस्माजिह्वावधि प्रिये ।
वाग्भवबीजरूपां तां दीपशिखां विभावयेत् ॥ ३५ ॥
लक्षमेकमिदं जप्त्वा सर्वपापहरो भवेत् ।
अव्याहतमतिः शास्त्रे विजयी वाक्पतेरपि ॥ ३६ ॥
वादे सदसि वाक्यस्य स्तम्भकः प्रतिवादिनः ।
सत्पण्डितघटाटोप[जात?जेता]ऽप्रतिहतप्र[भुः?भः] ।३७।
पदगुम्फैर्महाकाव्यकर्ता स(त्रा?जा)यते शिवे ।
इति ते कथितं देवि वाग्भवस्यापि साधनम् ॥ ३८ ॥
अथ कामकलाबीजस्वरूपां चिन्तयेत् पराम् ।
उद्यदादित्यसंकाशां स्फुरद्दीपशिखानिभाम् ॥ ३६ ॥
गच्छन्तीं ब्रह्ममार्गेण ब्रह्मरन्ध्रावधि प्रिये ।
प्रैपतद्बिन्दुधाराभिः शुद्धलाक्षारसोपमम् ॥ ४० ॥
समस्तभुवनाभोगकवलीकृतजीवनम् ।
महा[त्म?स्व]महिमाक्रान्तिध्वस्ताहंकृतिभूमिकाम् ॥४१॥
चिन्तयित्वा महेशानि वशयेज्जगतीमिमाम् ।
चिन्तयेद्योषितां योनौ चल[ज्वा?ज्ज]लेन्दुसंनिभाम् ॥४२॥
तद्दृष्टिपथगा नारी दैवी वाप्यथवासुरी ।
निवेदितात्मसर्वस्वा वशगा देवि जायते ॥ ४३ ॥
१ 'पतद्भिर्वि' क. पाठः । २ 'मै.' क पाठः । ३ 'वशगा' क, पाठ. ।
२८२ गन्धर्वतन्त्रे ।
अथ वक्ष्ये महेशानि शक्तिकूटस्य साधनम् ।
आधाराद्ब्रह्मरन्ध्रान्तं विद्युदग्निसमप्रभम् ॥ ४५ ॥
स्रवत्सुधामयं देवि शक्तिकूटं विचिन्तयेत् ।
देहिनाममृतानन्दवर्षधारारसोपमम् ॥ ४६ ॥
सर्पाणां दर्शनादेव (उडी?जडी)करणकारकः ।
स्थिरजङ्गमेशंकारुयविषघातविनाशकैः ॥ ४७ ॥
महारोगैर्पीडितानां शरच्चन्द्रकरोपमः ।
देव्युवाच ।
कथं कामकला देव सूचिता न प्रकाशिता ॥ ४८ ॥
यस्याः स्मरणमात्रेण सायुज्यं लभते नरः ।
ईश्वर उवाच ।
तत्तैविध्यं शृणु प्राज्ञे सर्वतन्त्रेषु गोपितम् ॥ ४६ ॥
स्थूलं समं तथा नाम सूक्ष्मं मन्त्रतनुं तथा ।
नभोमहाबिन्दुमुखी चन्द्रसूर्यस्तनद्वया ॥ ५० ॥
सुमेरुहार्धकलया शोभमाना मही यदा ।
पातालतलविन्यस्ता त्रिलोकीयं कलात्मिका ॥ ५१ ॥
ललितायास्त्रिभिर्बीजैः प्रकाशार्थो य ईर्यते ।
तस्यविम(र्ष?र्श)ईकारो बिन्दुना तत्त्रिधा गतम् ॥ ५२ ॥
१ 'सकालाख्य' क पाठ । २ 'विषोपविषनाशनः' ख, पाठ. । ३ 'रौद्र' क.
पाठः । ४ 'न्यासात्' ख पाठः ।
त्रिंशः पटलः । २८३
तन्तुरीयस्वरूपार्णं बिन्दुत्रितयवदीरितम् ।
ईकारोर्ध्वगतो बिन्दुर्मुखं भानुरधोगतौ ॥ ५३ ॥
स्तनौ दहनशीतांशू योनिर्हार्धकला भवेत् ।
तदात्मक(स्तु?त्व)न्व्यास्तु¹ साधकस्य च तद्भवेत् ॥ ५४ ॥
तदुद्भवं शृणु प्राज्ञे महोदयकरं परम् ।
ऊर्ध्वबिन्दात्मकं वक्त्रमधोबिन्दुद्वयात्मकम् ॥ ५५ ॥
कुचद्वयं तु तच्छेषैः शेषाङ्गानि विभावयेत् ।
इति ते कथिता कामकलाया बाह्यभावना ॥ ५६ ॥
तामेव त्वां पुनर्वक्ष्ये भावनामान्तरात्मिकाम् ।
मूलादिब्रह्मरन्ध्रान्तं स्फुरद्विद्युल्लताकृतिम् ॥ ५७ ॥
ध्यायेत् कुण्डलिनीं देवि तद्विद्यास्वरूपिणीम् ।
षट्चक्रभेदिनीं देवीं बिन्दुत्रयात्मिकां पराम् ॥ ५८ ॥
तां च हार्धकलारूपां चिन्तयेत्पद्ममध्यगाम् ।
एवं कामकलारूपा जागर्ति सचराचरे ॥ ५९ ॥
सा च त्रयीमयी प्रोक्ता नास्ति किंचित्तया विना ।
साम्ना मुखं समाख्यातम्ऋग्यजुर्भ्यां स्तनद्वयम् ॥ ६० ॥
अथर्वणा समाख्याता हार्धरूपा परा कला ।
तुरीयं परमेशानि साक्षाद्ब्रह्मैव केवलम् ॥ ६१ ॥
१ 'स्ते' ख. पाठः । २ 'ल्किीन्' ख पाठः ।
२८४ गन्धर्वतन्त्रे ।
एतत्कामकलारूपं ध्यानं गुह्यतमं परम् ।
नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन ॥ ६२ ॥
एतत्प्रकाशनं यच्च आयुःक्षयकरं स्मृतम् ।
साधकस्य विनाशस्तु तस्मान्नैतत् प्रकाशयेत् ॥ ६३ ॥
लोभान्मोहाच्च गर्वाच्च विद्वेषाद्वा प्रकाशयेत् ।
सोऽचिरान्मृत्युमाप्नोति शस्त्रघातविषादिभिः ॥ ६४ ॥
──: ❁ :──
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे विद्याकूटत्रयसाधन-
निरूपणं त्रिंशः पटलः ॥ ३० ॥
एकत्रिंशः पटलः।
——————
देव्युवाच
होमस्य कथयेशान विधानं पूर्वसूचितम् ।
ईश्वर उवाच
किंशुकैर्हवनं देव्याः कुसुम्भकुसुमैरपि ॥ १ ॥
नागकेसरपुष्पैर्वा मधूकै रक्तपद्मकैः ।
करवीरै (र्यवा ? र्जपा ) पुष्पैर्मधुरत्रयमिश्रितैः ॥ २ ॥
सर्वसिद्धिप्रदं कुण्डं चतुरस्रं वरानने ।
कुण्डं सुलक्षणं कृत्वा होमयेत् संस्कृतेऽनले ॥ ३ ॥
अथवा परमेशानि स्थण्डिलं रचयेद्बुधः ।
नित्यं नैमित्तिकं कुर्यान्न काम्यं स्थण्डिले चरेत् ॥ ४ ॥
हस्तमात्रं चतुरस्रं गोमयेनोपलेपितम् ।
अङ्गुष्ठपर्वमात्रोच्चं वालुकामण्डलं तथा ॥ ५ ॥
तत्रापि ले(ख?प)नं कृत्वा तत्र होमः फलप्रदः ।
यवानां तण्डुलैरेवमङ्गुलं चाष्टभिर्भवेत् ॥ ६ ॥
अदीर्घयोजितैर्हस्तश्चतुर्विंशतिकोऽङ्गुलैः ।
एतत्प्रमाणहस्तैस्तु कुण्डादिकं समाचरेत् ॥ ७ ॥
१ 'र' क पाठ ।
२८६ गन्धर्वतन्त्रे ।
त्रिपुराप्रीतिदो होमः कुण्डे त्रिकोणसंज्ञके ।
पश्चिमात् पूर्वाग्रास्तिस्रो रेखाः प्रादेशमात्रकाः ॥ ८ ॥
विलिख्य च मुकुन्देन्दुपुरन्दरस्वरूपकाः ।
दक्षिणास्तिस्रो रेखा वै विलिख्य तदनन्तरम् ॥ ६ ॥
रेखाश्च स्युर्वैवस्वतब्रह्मानन्तस्वरूपकाः ।
त्रिकोणं मध्यतो देवि कृत्वा बाह्ये ततः परम् ॥ १० ॥
षट्कोणं विधिना चैव कारयेदतिसुन्दरम् ।
अष्टपत्रं च तद्बाह्ये वृत्तेन कर्णिका शुभा ॥ ११ ॥
चतुरस्रं चतुर्द्वारं मण्डलं विरच्य मध्ये पुष्पाञ्जलिं
निक्षिप्य स्रुवादिकमासादयेत् । स्रुव आज्यं दधि दूर्वा स-
मिधः। आज्यस्थालीं प्रणीताप्रोक्षणीं च वामतोऽस्मै परि-
कल्प्याम्भसा प्रोक्षणीमापूर्य वारत्रयमुत्पूय, तानि प्रोक्ष-
णयभिमुख्यानि कृत्वा बालयाभिमन्त्र्य तयैव दूर्वाभिर्मूला-
दग्रं पुनरग्रान्मूलं त्रिः परिमृज्य दूर्वाभिः पूर्वाग्रमुत्तराग्रं
च विस्तरेत्(?)मूलविद्यां समुच्चरन् 'स्थण्डिलाय नमः' इति
संपूज्य, त्रिकोणमध्ये कामेश्वरीकामेश्वरौ यष्ट्वा तयोर्मिथु-
नीभावं ध्यात्वा तावभ्यर्च्य तस्या गर्भे, वैश्वानर जातवेद
इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहेति मूलोद्धतं
संविदग्निं ललाटनेत्रद्वारा निर्गतं बाह्याग्नियुक्तं पातयेत् ।
ओं उत्तिष्ठ पुरुष हरिपिङ्गल लोहिताक्ष सर्वकर्माणि देहि
मे दापय स्वाहेति वह्निमुत्थाप्य, ओं चित्पिङ्गल हनहन
दहदह पचपच सर्वज्ञाज्ञापय स्वाहेति कामेश्वरीगर्भे धृतं
१ 'शप्रमाणा' क पाठ ।
एकत्रिंशः पटलः । १८७
ध्यात्वा, मूलमुच्चरन् वौषडिति वह्निं विलोक्यास्त्रेण संर-
क्ष्य ज्वलदग्निमादाय स्थण्डिलं दक्षिणावर्तेन त्रिः परि-
भ्राम्य ज्वलदिन्धनमेकं हूंफडित्यनेन क्रव्यादामिं नैर्ऋत्यां
त्यजेत् । जानुभ्यामवनीं स्पृष्ट्वा वह्निं मध्ये संस्थाप्य क्लीं
महात्रिपुरसुन्दरीवह्निमूर्तये नमें इति देवीं संपूज्य नाभि-
मण्डलाद्वह्वन्नासापुटेन तदग्निना बाह्याग्निमेकीकृत्य यजेत् ।
मूलं ऐंक्लींसौःआंसोऽहं वह्निचैतन्यायै नमः इति का-
मेश्वरीगर्भे वह्निं संचिन्त्य तद्देहे षडङ्गानि-सहस्रार्चिषे
हृदयाय नमः, स्वस्तिपूर्णाय शिरसे स्वाहा, उत्तिष्ठपुरुषाय
शिखायै वषट् , धूमव्यापिने कवचाय हुं, सप्तजिह्वाय नेत्रे-
भ्यो वौषट् , धनुर्धरायास्त्राय फट् इति यष्ट्वा तप्तजाम्बून-
दप्रभं शक्तिस्वस्तिकधरं वरदाभयशोभितकरपङ्कजं दि-
व्यालंकारभूषितकरविग्रहमम्भोजसंस्थं शुक्लाम्बरधरं त्रि-
नयनं बद्धमौलिं ध्यात्वा , चक्रे सप्तजिह्वाश्च ईशाने यूँ लो-
हितां, पूर्वे रूँ रक्तां , आग्नेये नूँ नीलां, नैर्ऋते वूँ कृष्णां, प-
श्चिमे शूँ शुभ्रां, दक्षे करालीं, उत्तरे बहुरूपां जप्त्वा का-
मेशीगर्भोद्भववह्नेः सर्वभावेभ्यो नम इति मन्त्रैर्गर्भाधान-
पुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचूड़ोपन-
यनकर्म निर्वर्त्य, अमुकाग्नेरमुककर्म कल्पयामि इति वि-
धाय परिषिच्य परिस्तीर्य परिधाय पुनर्ध्यात्वा अग्निम-
न्त्रेणाग्निं त्रिकोणे पूजयित्वा सप्तजिह्वासु सप्ताहुतीर्हुत्वा
वैश्वानर-उत्तिष्ठ-चित्पिङ्गलैस्त्रिधाहुतिं विधाय षडङ्गानि ष-
१ 'री' क पाठ । २ 'नमोदे' क पाठ । ३ 'यै' के पाठ । ४ 'त्ति' क. पाठ ।
२८८ गन्धर्वतन्त्रे ।
दृकोणेषु, अष्टदलेषु अग्नये जातवेदसे सप्तजिह्वाय हव्यवाह-
नाय अश्रोदरजाय वैश्वानराय कौमारतेजसे विश्वमुखाय
देवमुखाय नम इति, लोकपालांश्च भूगृहे, वह्नेर्दक्षिणतो ब्र-
ह्माणमाराध्य आज्यस्थालीं पुरतो निधाय बहुरूपायां जिह्वा-
यां श्रीचक्रराजं तदन्तःस्थां चित्कलामशेषरश्मिमण्डितामा-
लोच्य यद्वा नित्यं हुत्वा कुण्डं मण्डपधूपैरापूर्य दीपैरूज्ज्वल्य
समिधं हुत्वा जुहुयादिष्टमेव च बलीन्प्रदाय ओंभूरग्नये
च पृथिव्यै च महते च स्वाहा, ओंभुवो वायवे चान्तरिक्षाय
च महते च स्वाहा, ओंस्वरादित्याय दिवे च महते च स्वाहा,
ओंभूर्भुवःस्वश्चन्द्रमसे च नक्षत्रेभ्यश्च स्वाहा, इति चतुर्भि-
र्मन्त्रैर्व्याहृतिहोमं कृत्वा ब्रह्मार्पणमतः परं समिधं हुत्वा
देवीमभ्यर्च्य विसृजेदिति ॥
नित्यहोमो मया प्रोक्तः काम्यहोममतः शृणु ।
मल्लिका-मालतीजातीकुसुमैर्मधुमिश्रितैः ॥ १२ ॥
घृतपूर्णैः (कु ? फ) लैर्वापि वागीशत्वं प्रजायते ।
(यवा ? जपा) पुष्पैराज्ययुतैः करवीरैस्तथाविधैः ॥ १३ ॥
हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः ।
चम्पकैः पाटलैर्हुत्वा श्रियमाप्नोत्यनुत्तमाम् ॥ १४ ॥
कमलै (र्व ? र) रुणैर्होमः सम्यक् संपत्तिदायकः ।
रक्तोत्पलैर्जगद्वश्यं नीलैलैर्दुष्टान्वशं नयेत् ॥ १५ ॥
(स्त्रो ? श्वे) तोत्पलैः श्रियं राज्यं लभते हवनात्प्रिये ।
कह्लारहवनैर्लक्ष्मीं सर्वसौभाग्यमेव च ॥ १६ ॥
एकत्रिंशः पटलः । २८६
बन्धूककुसुमैर्होमै सर्वसत्त्वान् वशं नयेत् ।
क्षीरं दधि मधु त्वाज्यं पृथग्हुत्वा वरानने ॥ १७ ॥
आयुर्बलमथारोग्यं समृद्धिर्जायते नृणाम् ।
रुधिराक्तेन च्छागस्य मांसेन निशि होमतः ॥ १८ ॥
मधुरत्रययोगेन गुरुणोक्तविधानतः ।
परराष्ट्रं वशं नीत्वा कामभोगी भवेन्नरः ॥ १९ ॥
द्राक्षाभिर्लञ्चहोमेन सिद्धयोऽष्टौ भवन्ति हि ।
कदलीफलहोमेन नारिकेलफलैस्तथा ॥ २० ॥
राजानो वशमायान्ति समृद्धिरतुला तथा ।
जम्बूफलैः स्त्रियः सर्वा वश्या भवन्ति निश्चितम् ॥ २१ ॥
श्रीफलैरतुला लक्ष्मीः पत्रैश्चापि तथा भवेत् ।
इक्षुखण्डैः सुखावाप्तिस्तद्रसैर्वशगा नृपाः ॥ २२ ॥
तिलाज्यहोमतो देवि सर्वकार्याणि साधयेत् ।
घृतपायसहोमेन सिताज्यमधुना सह ॥ २३ ॥
त्रैलोक्यं वशमायाति धनधान्यमवाप्नुयात् ।
सोपस्कारैश्च वटकैरुपसर्गान्विनाशयेत् ॥ २४ ॥
कर्पूरस्य च होमेन वाग्वशे जायते नृणाम् ।
कुङ्कुमैर्होमतो देवि सर्वदुःखानि नाशयेत् ॥ २५ ॥
कस्तूरीहोमतो देवा वशगा नात्र संशयः ।
चन्दनागुरुहोमेन सर्वांल्लोकान् वशं नयेत् ॥ २६ ॥
शृणु देवि प्रवक्ष्यामि मानं हवनसिद्धये ।
पुष्पं समग्रं जुहुयाच्छतसंख्यांस्तिलांस्तथा ॥ २७ ॥
१ 'हुनेद्वापि' क पाठ 'मान्' ख पाठ । २ 'श्य' क पाठ । ३ 'ख्यांस्तिलास्तथा' क पाठ ।