सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 366, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 366

एकत्रिंशः पटलः।
——————
देव्युवाच
होमस्य कथयेशान विधानं पूर्वसूचितम् ।
ईश्वर उवाच
किंशुकैर्हवनं देव्याः कुसुम्भकुसुमैरपि ॥ १ ॥
नागकेसरपुष्पैर्वा मधूकै रक्तपद्मकैः ।
करवीरै (र्यवा ? र्जपा ) पुष्पैर्मधुरत्रयमिश्रितैः ॥ २ ॥
सर्वसिद्धिप्रदं कुण्डं चतुरस्रं वरानने ।
कुण्डं सुलक्षणं कृत्वा होमयेत् संस्कृतेऽनले ॥ ३ ॥
अथवा परमेशानि स्थण्डिलं रचयेद्बुधः ।
नित्यं नैमित्तिकं कुर्यान्न काम्यं स्थण्डिले चरेत् ॥ ४ ॥
हस्तमात्रं चतुरस्रं गोमयेनोपलेपितम् ।
अङ्गुष्ठपर्वमात्रोच्चं वालुकामण्डलं तथा ॥ ५ ॥
तत्रापि ले(ख?प)नं कृत्वा तत्र होमः फलप्रदः ।
यवानां तण्डुलैरेवमङ्गुलं चाष्टभिर्भवेत् ॥ ६ ॥
अदीर्घयोजितैर्हस्तश्चतुर्विंशतिकोऽङ्गुलैः ।
एतत्प्रमाणहस्तैस्तु कुण्डादिकं समाचरेत् ॥ ७ ॥
१ 'र' क पाठ ।