सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

२५४ गन्धर्वतन्त्रे ।
प्रसीद करुणाधाम[न्]मयि दीनत्वतापिते ।
कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम ॥ ७३ ॥
प्रसन्नास्तु परा देवी भोगमोक्षविधायिनी ।
तन्मना भव हे पुत्र [त्वा?ता]मेव त्वं सदा स्मर ॥ ७४ ॥
द्वैतभाव च ते मास्तु पूर्णानन्दमयो भव ।
(वक्तैः?उक्त्वो)त्तिष्ठेति पीयूषवचोभिरभि(व?न)न्द्य तम् ७५
हस्ताभ्यां च समुत्थाप्य प्रसन्नोऽहं सदा प्रिये ।
सिद्धयः सकलास्तूर्णं सन्तु ते मत्प्रसादतः ॥ ७६ ॥
प्रसन्नात्मा तथा शिष्यो विदिताखिलवेद्यकः ।
भक्तिश्रद्धासमायुक्तो भोजयेद् वै (द्वमावि?कुमारि)काः७७
ब्राह्मणान् परितोष्याथ दीनान्धकृपणानपि ।
पक्वान्नैरातिमिष्टैश्च ज्ञातीनापि च भोजयेत् ॥ ७८ ॥
गन्धैर्नानाविधैः पुष्पैर्माल्यैरपि च तोषयेत् ।
तेभ्य आशिष आदाय समर्थीयाँ जयावहाँः ॥ ७९ ॥
सद्गुरोराहितदीक्षो महाविद्याधरो महान् ।
सर्वमन्त्राधिकारी स्यात् सर्वज्ञो भुवि जायते ॥ ८० ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे दीक्षाविधानानिरूपणं
सप्तविंशः पटलः ॥ २७ ॥
१ 'प्रदा' ख पाठ । २ 'ये' ख पाठ । ३ 'यान्' क पाठ । ४ 'ह' क पाठ ।

अष्टाविंशः पटलः ।
देव्युवाच
—=:!०!:—
पुरश्चर्याविधिं ब्रूहि विद्यासिद्धिर्भवेद्यथा ।
ईश्वर उवाच
अथ वक्ष्ये विधानानि पौरश्चरणके विधौ ॥ १ ॥
विना येन न सिद्धः स्यान्मन्त्रो वर्षशतैरपि ।
यथाविधि गुरोर्दीक्षां गृहीत्वा साधकोत्तमः ॥ २ ॥
तथैव तु यजेद् देवीं नित्यं प्रातरनन्यधीः ।
आत्मानं तन्मयं स्मृत्वा भक्तिश्रद्धासमन्वितः ॥ ३ ॥
अष्टोत्तरसहस्रं वा लक्षार्धं यावदेव हि ।
तावदेव मनुं जप्त्वा पुरश्चर्यां समाचरेत् ॥ ४ ॥
न्यूनातिरिक्तदोषाणां शान्तावष्टाधिकं जपेत् ।
गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः ॥ ५ ॥
यत्नात् पुरस्क्रिया॑ कुर्यात् स्वविद्यासिद्धिकाङ्क्षया ।
सर्वेषामेव मन्त्राणां विद्यानां चैव पार्वति ॥ ६ ॥
गुरोराज्ञैव मूलं स्यात् सिद्धिर्यस्मात् तदाज्ञया ।
अश्रद्धा चैव नास्तिक्यं पूर्वजन्मकृतोशुभम् ॥ ७ ॥
१ 'ता' ख, पाठः ।

२५६ गन्धर्वतन्त्रे ।
प्रतिबन्धत्रयं देवि मन्त्रसिद्धौ निगद्यते ।
यत्नात् पुरश्चरेन्मन्त्री प्रतिबन्धविनाशने ॥ ८ ॥
लक्ष्मीमदादनादृत्य मन्त्रं भोगपरायणः ।
नैवार्चां कुरुते मन्त्री तथा नैव पुरस्क्रियाम् ॥ ६ ॥
स मन्त्रस्य ऋणी ज्ञेयो भेजनं तस्य शान्तये ।
जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥ १० ॥
पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः ।
तत् कुर्यात् सर्वथा मन्त्री गुरुं वा कारयेद्बुधः ॥ ११ ॥
गुरोरभावे विप्रोऽस्य सर्वप्राणिहिते रतः ।
शुद्धान्तःकरणः स्निग्धो वासोभिश्च विशेषतः ॥ १२ ॥
कुलज्ञः कुलशास्त्रज्ञः पुनर्गुरुः पुरस्क्रियाम् ।
कारयित्वा पुनर्विद्यां लब्ध्वा तैं विनियोजयेत् ॥ १३ ॥
आदौ पुरस्क्रियां कर्तुं पुण्यक्षेत्रं समाश्रयेत् ।
चतुर्दश्यामथाष्टम्याममावस्यामुहूर्तके ॥ १४ ॥
देव्याः पुरस्क्रियारम्भः कर्तव्यः साधकोत्तमैः ।
अथ पूर्वमुपोष्यथ कृतनित्यक्रियः शुचिः ॥ १५ ॥
द्विजान् देवान् गुरून् भक्त्या संपूज्य परमेश्वरि ।
गणेशं मातृकांश्चैव पितॄंश्चैव प्रपूजयेत् ॥ १६ ॥
ग्रामे वा नगरे देशे पुरे वा पत्तने तथा ।
क्षेत्राधिपस्य नाम्ना तु दीपस्थानं विचारयेत् ॥ १७ ॥
१ 'य' ख पाठ । २ 'हो' क. पाठः । ३ 'ति' क पाठ । ४ 'म.' क पाठः ।
५ 'का चै' क पाठ ।

अष्टात्रिंशः पटलः । २५७
शक्तिक्षेत्रे शिवक्षेत्रे दीपस्थानं विचिन्तयेत् ।
वर्त्तुलं रचयेद् देवि कूर्म्माकृति सुलोचने ॥ १८ ॥
तन्मध्ये नव कोष्ठानि कृत्वा वर्णान् समालिखेत् ।
स्वरान् युग्मक्रमेणैव दिक्षु चाष्टदलेषु च ॥ १९ ॥
अवर्गः कथितो देवि कवर्गादिकसप्तकम् ।
पूर्वादिक्रमतो देवि कुबेरान्तं लिखेत्ततः ॥ २० ॥
ळक्षवर्णं शंभुकोणे विलिखेत् कूर्मसंज्ञके ।
यस्मिन् कोष्ठे क्षेत्रनाम तन्मुखं विद्धि पार्वति ॥ २१ ॥
अङ्गेषु पार्श्वयोः पाणियुग्मं जानीहि सुन्दरि ।
ततः पार्श्वद्वयं देवि कुक्षिस्थानं निगद्यते ॥ २२ ॥
ततः पादद्वयं देवि चान्ते पुच्छं प्रकीर्त्तितम् ।
मुखे कार्याणि सिध्यन्ति मनोरथशतानि च ॥ २३ ॥
कण्ठस्थाने महेशानि सर्वकार्यविनाशकृत् ।
उदरे दुःखदारिद्र्यं पादयोर्हानिरुच्यते ॥ २४ ॥
पुच्छे तु धनहानिः स्यादित्येवं कथितं मया ।
दीपस्थानं समाश्रित्य जपपूजां समाचरेत् ॥ २५ ॥
पूर्वोक्तविधिसंपन्नं गुरुं नत्वा विधानतः ।
अक्षमालां समाश्रित्य मातृकां वर्णरूपिणीम् ॥ २६ ॥
मन्त्रसिद्धिप्रदां शुद्धां सर्वपापौघनाशिनीम् ।
प्रणवो मातृका देवी माया चैवामृतत्रयम् ॥ २७ ॥
अमृतत्रयसंयोगाद् दुष्टमन्त्रोऽपि सिध्यति ।

२५८ गन्धर्वतन्त्रे ।
अथ मुक्ताफलमयी वाञ्छोत्फलदायिनी ॥ २८ ॥
सर्वसिद्धिप्रदा नित्यं सर्वलोकवशंकरी ।
यथा मुक्ताफलमयी स्फाटिकी च तथा भवेत् ॥ २९ ॥
रुद्राक्षमालिका भोगमोक्षानन्तफलप्रदा ।
प्रवालमाला वश्ये तु सर्वकार्यार्थसाधिका ॥ ३० ॥
[मलिना?माणिक्य]रचिता माला साम्राज्यफलदायिनी ।
पुत्रजीवोद्भवा माला पुत्रपौत्रप्रदायिनी ॥ ३१ ॥
पद्माक्षमालया लक्ष्मीर्जायते महती यशः ।
रक्तचन्दनमाला तु वश्ये सर्वसमृद्धिदा ॥ ३२ ॥
महाशङ्खमयी माला मारणोच्चाटनादिषु ।
वीराणां शस्यते सा हि शेषयोर्न शुभप्रदा ॥ ३३ ॥
पञ्चाशद्भिः शतैः कुर्यादष्टाविंशति [रेव?भिश्च] वा ।
न न्यूनैर्नाधिकैः कार्या बीजायैर्न विभूतये ॥ ३४ ॥
एको मेरुस्तत्र देयः सर्वेभ्यः स्थूलसंभवः ।
आद्यं स्थूलं ततो न्यूनं न्यूनं न्यूनतरं ततः ॥ ३५ ॥
विन्यसेत् क्रमतस्तस्मात् सर्पाकारा [वि?प्ये]नायता ।
ब्रह्मग्रन्थियुतं कुर्यात् प्रतिबीजं तथास्थितम् ॥ ३६ ॥
अन्यथा विफला माला संस्कृता जपकर्मणि ।
रुद्राक्षैर्यदि जप्येत इन्द्राक्षैः स्फाटिकैस्तथा ॥ ३७ ॥
नान्यन्मध्ये प्रयोक्तव्यं पुत्रजीवादिकं तु यत् ।
१ 'ततस्तस्मात्' ख पाठः । २ 'च सा यत' क पाठ ।

अष्टाविंशः पटलः । २५६
यदोन्यत्तु प्रयुञ्जीत मालायां जपकर्मणि ॥ ३८ ॥
मिश्रीभावं तदा याति चण्डालैः पापकर्मभिः ।
एकजातीयबीजेन यः कुर्यान्मालिकां सदा ॥ ३९ ॥
जन्मान्तरे जायते स वेदवेदाङ्गपारगः ।
पूर्वोक्तेन विधानेन गृहीत्वा दिव्यमालिकाम् ॥ ४० ॥
जपं समारभेत् पश्चात् प्रोक्तयोगसमन्वितः ।
तत्र स्थित्वा जपेद्विद्यां लक्षमात्रं सदा शुचिः ॥ ४१ ॥
दधि क्षीरं घृतं गव्यमैक्षवं गुडवर्जितम् ।
तिलाश्चैव सिता मुद्गाः कन्दः केमुकवर्जितः ॥ ४२ ॥
नारिकेलफलं चैव कदली लव(र्गा?ली)तथा ।
आम्रमामलकं चैव पनसं च हरीतकी ॥ ४३ ॥
व्रतान्तरप्रशस्तं च हविष्यं मन्यते बुधैः ।
अवैष्णवमलभ्यं च यदशस्तं व्रतान्तरे ॥ ४४ ॥
त्याज्यमेव तु तत् सर्वं यदीच्छेत् सिद्धिमात्मनः ।
क्षारं च लवणं मांसं गृञ्जनं कांस्येभोजनम् ॥ ४५ ॥
माषाढकीमसूरांश्च कोद्रवांश्चणकानपि ।
ताम्बूलं च द्विभक्तं च दुःसंवादं प्रमत्तताम् ॥ ४६ ॥
श्रुतिस्मृतिविरुद्धं च जपं रात्रौ विवर्जयेत् ।
भूशय्या ब्रह्मचारित्वं मौनं चाप्यननसूयता ॥ ४७ ॥
नित्यं त्रिषवणस्नानं क्षुद्रकर्मविवर्जनम् ।
नित्यपूजा नित्यदानं देवैतास्तुतिकीर्तनम् ॥ ४८ ॥

२६० गन्धर्वतन्त्रे ।
नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ।
जपनिष्ठा द्वादशैते धर्माः स्युर्मन्त्रसिद्धिदाः ॥ ४९ ॥
स्त्रीशूद्रपतितव्रात्य[पतितो?नास्तिको]च्छ्लिष्टभाषणम् ।
असत्यभाषणं जि(ह्म?ह्य)भाषणं परिवर्जयेत् ॥ ५० ॥
स(त्यै?भ्यै)रपि न भाषेत जपहोमार्चनादिषु ।
अन्यथानुष्ठितं सर्वं भवत्येव निरर्थकम् ॥ ५१ ॥
वाङ्मनःकर्मभिर्नित्यं निःस्पृहावान् भवेत् सदा ।
वर्जयेद् गीत[नृत्या?वाद्या]दिश्रवणं नृत्यदर्शनम् ॥ ५२॥
माल्यं च गन्धलेपं च पुष्पधारणमेव च ।
मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् ॥ ५३ ॥
कौटिल्यं चौरमभ्यङ्गमनावेदितभोजनम् ।
प्राणिहिंसां न कुर्वीत पुरश्चरणकृन्नरः ॥ ५४ ॥
अस्नातांश्च द्विजाञ् शूद्रान् स्त्रियो नैव स्पृशेत्तथा ।
असंकल्पितकृत्यं च वर्जयेन्मर्दनादिकम् ॥ ५५ ॥
त्यजेदुष्णोदकस्नानं सुगन्धामलकादिकम् ।
शिवाङ्गं पञ्चगव्येन क्षालयेद् बहिरन्तरम् ॥ ५६ ॥
स्नायाच्च पञ्चगव्येन केवलामलकेन वा ।
१अपवित्रकरो नग्नः शिरसि प्रावृतोऽपिवा ॥ ५७ ॥
निरासनः शयानो वा गच्छन्नुत्थित एव वा ।
रथ्यायामशिवे२स्थाने न जपेत् तिमिरालये ॥ ५८ ॥
१ 'अपत्रकरलग्नो वा शि' क पाठ । २ 'माशब्द' क पाठ ।

अष्टाविंशः पटलः । २६१
प्रलपन् वा जपेद् यावत् तावन्निष्फलमुच्यते ।
सकृदुच्चारिते शब्दे प्रणवं समुदीरयेत् ॥ ५९ ॥
प्रोक्ते पामरशब्दे तु प्राणायामं सकृच्चरेत् ।
बहुप्रलापे चाचम्य न्यस्याङ्गानि ततो जपेत् ॥ ६० ॥
पतितानामन्त्यजानां दर्शने भाषणे श्रुते ।
क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ॥ ६१ ॥
कृत्वाचम्य जपेच्छेषं यद्वा सूर्यादिदर्शनम् ।
शयीत कुशशय्यायां शुचिवस्त्रधरः सदा ॥ ६२ ॥
प्रत्यहं चालयेच्छय्यामेकाकी निर्भयः स्वपेत् ।
एवमादींश्च नियमान् पुरश्चरणकृच्चरेत् ॥ ६३ ॥
एवमुक्तविधानेन विलम्बत्वरितं विना ।
उक्तसंख्याजपं कुर्यात् पुरश्चरणसिद्धये ॥ ६४ ॥
देवतागुरुमन्त्राणामैक्यं संभावयन् धिया ।
जपेदेकमनाः प्रातःकालान्मध्यंदिनावधि ॥ ६५ ॥
यत्सं(ख्यामा?ख्यया)समारब्धं तच्च कुर्याद्दिने दिने ।
यदि न्यूनाधिकं कुर्याद् व्रतभ्रष्टो भवेन्नरः ॥ ६६ ॥
नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् ।
दिवसातिक्रमात् (तेषां?पुंसः) सिद्धिहानिः प्रजायते ॥६७॥
मन्त्रं जप्त्वाम्बु पानीयैः सुलोचनमभोजनम् (?) ।
कुर्याद्यथोक्तविधिना त्रिसंध्यं देवमर्चयेत् ॥ ६८ ॥
एकसंध्यं द्विसंध्यं वा न मन्त्रं केवलं जपेत् ।

२६३ गन्धर्वतन्त्रे ।
एकग्रामे स्थितो गत्वा वन्देत केवलं गुरुम् ॥ ६९ ॥
प्रणामोऽष्टाङ्ग एवात्र देवतावन्दनं तथा ।
नित्यं नैमित्तिकं कुर्यात् सङ्गं च साधुभिः सह ॥ ७० ॥
शक्तौ त्रिषवणस्नानं द्वे सकृद्वा तथा चरेत् ।
परकीयतरे तोये स्नानं पूर्वं समाचरेत् ॥ ७१ ॥
संख्यापूर्तौ निजैर्द्रव्यैर्जपसंख्यादशांशतः ।
यथोक्तविहिते कुण्डे जुहुयात् संस्कृतेऽनले ॥ ७२ ॥
अथवा प्रत्यहं जप्त्वा जुहुयात्तद्दशांशतः ।
तथा होमदशांशं तु जले संपूज्य देवताम् ॥ ७३ ॥
तर्पयामीति मन्त्रान्ते प्रोक्ताद्भिर्मूर्ध्नि तर्पयेत् ।
जपो होमस्तर्पणं च (पू?मृ)जा ब्राह्मणभोजनम् ॥ ७४ ॥
पूर्वपूर्वदशांशेन कुर्यात् पञ्चाङ्गसंयुतम् ।
स्वाभिषेकाघमर्षौ च सूर्यार्घ्यं जलपानकम् ॥ ७५ ॥
प्राणायामं ततः कुर्यात् पूर्वपूर्वदशांशतः ।
दशाङ्गोपासनं भक्त्या पुरश्चरणमुच्यते ॥ ७६ ॥
तत्पुरश्चरणं नाम मन्त्रसिद्ध्यर्थमात्मनः ।
यथोक्तं नियमं कृत्वा स्वकल्पोक्तजपस्य हि ॥ ७७ ॥
करणं विजयान्तं तत्प्रोक्तं देशिकसत्तमैः ।
तदन्ते महतीं पूजां कुर्याद् ब्राह्मणभोजनम् ॥ ७८ ॥
गुरुं संतोषयेदेवं मन्त्राः सिध्यन्ति मन्त्रिणः ।

अष्टाविंशः पटलः । २६३
होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः ॥ ७६ ॥
इतरेषां तु वर्णानां त्रिगुणादिः समीरितः ।
एकमङ्गं विहीयेत ततो नेष्टमवाप्नुयात् ॥ ८० ॥
अङ्गहीनं भवेद्यद्यत् तत्तन्नेष्टार्थसाधनम् ।
सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये ॥ ८१ ॥
विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद्यतः ।
न्यूनातिरिक्तकर्माणि न फलन्ति मनोरथान् ॥ ८२ ॥
तान्येवं पूर्णतां यान्ति समस्तानि भवन्ति चेत् ।
अतो यत्नेन विदुषो भोजयेत् सर्वकर्मसु ॥ ८३ ॥
नियतान्यपि कर्माणि हीनानि द्विजभोजनैः ।
निरर्थकानि तानि स्युर्बीजान्यूषरगाणि च ॥ ८४ ॥
अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ॥ ८५ ॥
नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः ।
ग्रहणादिविमोक्षान्तं जपेन्मन्त्रं समाहितः ॥ ८६ ॥
अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् ।
होमस्य तु दशांशेन तर्पणं समुपाचरेत् ।१॥ ८७ ॥
अभिषेकदशांशेन कुर्याद् ब्राह्मणभोजनम् ।
तदन्ते महतीं पूजां कुर्यात् साधकसत्तमः ॥ ८८ ॥
गुरवे दक्षिणां दद्याद्भक्त्या विप्रान् प्रतर्पयेत् ।
१ 'स' क. पाठ. । २ 'ज्ञ' क. पाठ. । 'क' ख. पाठ. ।

२६४ गन्धर्वतन्त्रे ।
ततश्च मन्त्रसिद्धिः स्याद् देवता च प्रसीदति ॥८९॥
ततस्तु मन्त्रसिद्ध्यर्थं गुरुं संपूज्य तोषयेत् ।
अथवा देवतारूपं गुरुं भक्त्या प्रतोषयेत् ॥ ९० ॥
पुरश्चरणहीनोऽपि मन्त्रसिद्धिरसंशयः ।
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पुरश्चर्याविधिनिरूपणं
अष्टाविंशः पटलः ॥ २८ ॥

४. पटल ३१-४२: सिद्धि-लक्षण, कुलधर्म एवं तन्त्र-उपसंहार

एकोनत्रिंशः पटलः ।
—=::❀::=—
ईश्वर उवाच
पूर्वोक्तविधिना देवि लक्षार्धं प्रजपेत् तथा ।
रात्रौ ताम्बूलपूर्णास्यस्तथैवोक्तविधानतः ॥ १ ॥
कामरूपं वपुः कृत्वा कामिन्येवै महानिशि ।
कुलयुक्तो जपेल्लक्षं निशाया मध्यभागतः ॥ २ ॥
अत्र यत् क्रियते कर्म तदनन्तफलप्रदम् ।
मूलाधारे महादेवि लिङ्गं स्वयंभूवाचकम् ॥ ३ ॥
ज्योतीरूपं तु योनिस्यं तत्रैव मनसा जपेत् ।
ध्यायेत् कुण्डलिनीं देवि तद्विद्यान्तररूपिणीम् ॥ ४ ॥
हृदि त्रिकोणमध्ये च बाणलिङ्गे च तेजसि ।
तत्र संचिन्त्य मनसा जपेल्लक्षं समाहितः ॥ ५ ॥
मूर्ध्नि त्रिकोणमध्ये तु इतरं पश्चिमामुखम् ।
तत्र स्थित्वा जपेल्लक्षं यत्र कुत्र समाहितः ॥ ६ ॥
एवं लक्षत्रये सिद्धे यद्भावस्तूपजायते ।
तमुपाश्रित्य भावेन यथा देवस्तथा (रवे?भवेत्) ॥७॥
नवलक्षं जपेद्विद्यामिह भोगसमृद्धये ।
न ध्यानं नच विन्यासो न पूजा न पुरस्क्रिया ॥८॥


१ 'रास्य.' ख. पाठ. । २ 'नी' ख. पाठ. ।

२६६ गन्धर्वतन्त्रे ।
केवलं जपमात्रेण सिद्धयः सिद्धिकाङ्क्षिणाम् ।
कोटिजापे तु संपूर्ौ मनो मन्त्रात्मकं भवेत् ॥ ६ ॥
यावत्तावद्धि जप्तव्यं मनसैव नचान्यथा ।
मन्त्रमात्रस्वरूपे च सिद्धे मनसि पार्वति ॥ १० ॥
ध्यानमात्रं मनः कृत्वा ध्यानं ब्रह्मणि चार्पयेत् ।
विदिते ब्रह्मणः नेत्रे विदितः सर्ववित् प्रभुः ॥ ११ ॥
नव स्थानानि कथ्यन्ते शृणु सावहिता प्रिये ।
ज्योतीरूपं तदाधारे मेढ्रस्थाने शिखाप्रभम् ॥ १२ ॥
नाभिस्थं सूर्यविम्बाभं तरुणादित्यवर्च्चसम् ।
हृदि ज्योतिःशिखाकारं कण्ठे दीपशिखाप्रभम् ॥ १३॥
भ्रूमध्ये रत्नसङ्काशं तदूर्ध्वं भास्करप्रभम् ।
लम्बिके चन्द्रबिम्बाभं ततो वैदूर्यसंनिभम् ॥ १४ ॥
नवमे विश्वतेजा हि घण्टावैदूर्यसंनिभः ।
लिङ्गरूपी ह्यहं देवि नव लिङ्गानि यानि च ॥ १५ ॥
नव स्थानानि मन्त्रेण क्रमात् संभिद्य कुण्डलीम् ।
विसंज्ञाममृतं पीत्वा पुनराधारमानयेत् ॥ १६ ॥
मूलस्थानगतं मन्त्रं स्मरेदेवं क्रमेण तु ।
नवलक्षप्रमाणं तु जप्त्वा त्रिपुरसुन्दरीम् ॥ १७ ॥

एकोनत्रिंशः पटलः । २६७
विधिवज्जायते देवि रुद्रमूर्त्तिरिवापरः ।
मन्त्राणां नव लक्षाणि कृत्वा लिङ्गानि वै नव ॥१८॥
नवैव परिजप्याथ नवलक्षफलं लभेत् ।
जातसूतकमादौ स्याद् वृत्ते च मृतसूतकम् ॥१९॥
सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति ।
स्वयं तद्रहितं कृत्वा मन्त्रं यावज्जपेद्धिया ॥२०॥
सूतकद्वयनिर्मुक्तः स मन्त्रः सर्वसिद्धिदः ।
सत्कुलस्थानजातीनां शुचीनां श्रीमतां सताम् ॥ २१ ॥
नियतमग्निहोतॄणां भिक्षाशिनो(शना) ग्रजन्मनाम् ।
एषां मध्ये तु यः कश्चिद्गुरुर्वा शिष्य एव वा ॥२२॥
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति च ।
कथितं सूतकं तस्य जपात् सिद्धिर्न जायते ॥२३॥
गुप्तवी(जा?र्या)श्च ये मन्त्रा न दास्यन्ति फलं प्रिये ।
मन्त्राश्चैतन्यसंयुक्ताः सर्वसिद्धिकराः स्मृताः ॥२४॥
चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् ।
फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि ॥ २५॥
मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् ।
शते सहस्रे लक्षे वा कोटिजापे न तत्फलम् ॥ २६ ॥

२६८ गन्धर्वतन्त्रे ।
हृदये ग्रन्थिभेदश्च सर्वावयववर्धनः ।
मन्त्रार्थः कथ्यते देवि शृणु तत्प्रथमं प्रिये ॥ २७ ॥
भावार्थः संप्रदायार्थो निग(र्वा?र्भा)ख्यश्च कौलिकः ।
तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च ॥ २८ ॥
अ(त्यन्ता?न्तरा)र्थो हि भावार्थः केवलं परमेश्वरि ।
शिवशक्तिसमायोगाज्जनितो मन्त्रराजकः ॥ २६ ॥
तन्मयीं परमानन्दनन्दितां मन्तरूपिणीम् ।
नि[संज्ञ?सर्ग] सुन्दरीं देवीं ज्ञात्वा खैरमुपासते ॥ ३० ॥
शिवशक्त्यात्मसं[यन्त्र?घट्ट]रूपिणी ब्रह्मरूपिणी ।
तत्प्रथाप्रसराश्लेषभुवि त्विन्द्रोपलक्षिते ॥ ३१ ॥
ज्ञातुर्ज्ञानमयाकारकरणान्मन्तरूपिणी ।
मध्यबिन्दुवि[सर्गान्तः] समौस्थानमये परे ॥ ३२ ॥
कुटिलारूपके तस्याः प्रतिरूपे३ त्रियत्कले४ ।
मध्यप्राणप्रथारूपस्पन्दव्योम्नि स्थिता पुनः ॥ ३३ ॥
मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः ।
[बाह्य?राहु]कूटद्वयस्फूर्जच्च[रुद्रा?लक्ता]संस्थितस्य तु ।३४।
धर्माधर्मस्य वाच्यस्य [वीरा?विषा]मृतमयस्य च ।
वाचकाक्षरसंयुक्तेः प्रथिताँ विश्वरूपिणी ॥ ३५ ॥

१ 'भ्रं' ख पाठ । २ 'मस्था' ख पाठ । ३ 'बिम्ब' क पाठ । ४ 'ता' क पाठ ।
५ 'णीम्' क पाठ ।

एकोनत्रिंशः पटलः । २६६
तेषां समस्तरूपेण पराशक्तिस्तु मातृका ।
कूटत्रयात्मिका देवी समष्टिव्यष्टिरूपिणी ॥ ३६ ॥
कूटत्रये तु ह्रींकारं देव्या नेत्रत्रयं शुभम् ।
हकारस्त्वग्निरू[ढ?प]त्वात् संहरेद्भेदसंततिम् ॥ ३७ ॥
रेफः कालाग्निरू[ढ?प]त्वात् पापौघक्षयकारकः ।
तयोर्विमर्श ईकारो बिन्दुना त्रिगुणात्मना ॥ ३८ ॥
अमृतत्वं करोतीन्दुः कामः कामानशेषतः ।
सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः ॥ ३६ ॥
विश्वाकारप्रथायास्तु महत्त्वं च (स?य)दाश्रयम् ।
शिवशक्त्याद्यया मूलविद्यया परमेश्वरि ॥ ४० ॥
जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये ।
पञ्चभूतमयं विश्वं तन्मयी सा सनातनी ॥ ४१ ॥
तन्मयी मूलविद्या च तथापि कथयामि ते ।
हकाराद्व्योम संभूतं (ह?क)कारात्तु प्रभञ्जनः ॥ ४२ ॥
रेफादग्निः सकाराच्च जलतत्त्वस्य सम्भवः ।
लकारात् पृथिवी जाता तस्माद्विश्वमयी च सा ॥ ४३ ॥
गुणाः पञ्चदश प्रोक्ता भूतानां तन्मयी शुभा ।
यस्य यस्य पदार्थस्य या या शक्तिरुदीरिता ॥ ४४ ॥
१ 'का देवी' क पाठ । २ 'णीम्' क पाठ । ३ 'त्मना' क पाठ ।

२७० गन्धर्वतन्त्रे ।
सैव सर्वेश्वरी देवी स च सर्वो महेश्वरः ।
व्याप्या पञ्चदशार्णैः सा पञ्चभूत[स्तु?गु]णात्मिका¹ ॥ ४५ ॥
पञ्चभिश्च तथा षड्भिश्चतुर्भिरपि चाक्षरैः ।
स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी ॐ ॥ ४६ ॥
सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्त्वरूपिणी ।
तत्त्वातीतस्वभावा च विज्ञेयं भाव्यते सदा ॥ ४७ ॥
पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् ।
भूतं[लं सस्तलं?त्वधस्तनं] व्याप्यं तद्गुणा व्यापकाश्रयाः ४८
व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः ।
तस्माद्व्योमगुणः शब्दो वाय्वादीन् व्याप्य संस्थितः ॥४६॥
व्योमबीजैस्तु विद्या[चै?स्थै]र्लक्ष्ये[तु च?च्छब्द] पञ्चकम् ।
तेषा कारणरूपेण स्थितं व्योममये परम् ॥ ५० ॥
भवे(ज्जवलु?द्गुण)वतां बीजं गुणानामपि वाचकम् ।
कार्यकारणभावेन तयोरैक्यविवक्षया ॥ ५१ ॥
१ 'काम्' क पाठ । २ 'ध्वनिमय' ख पाठ ।
ॐ प्रथमबीजेऽकारचतुष्टयमकारश्चेति पञ्च स्वरा व्यञ्जनषटक चेति एवमेकादश ।
द्वितीयबीजेऽकारपञ्चकमीकारश्चेति षट् स्वरा सप्त व्यञ्जनानि एव त्रयोदश । तृतीयबी-
जेऽकारत्रयमीकारश्चेति चत्वार स्वरा पञ्च व्यञ्जनानि एव नव । एवं विभजने त्रय-
स्त्रिशत् । बीजत्रयान्ते बिन्दुद्वयम् इति षट्त्रिंशत् । एतत्समष्टिरेका । एव सप्तत्रिंश-
त्प्रभेदिनी विज्ञेति ।

एकोनत्रिंशः पटलः । २७१
महामायात्रयेणापि कारणेन च बिन्दुना ।
वाय्वग्निजलभूमीनां स्पर्शानां च चतुष्टयम् ॥ ५२ ॥
उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः ।
रूपाणां त्रितयं त[त्त्वं?द्वत्]त्रिभी रेफैर्विभावितम् ॥ ५३ ॥
प्रधानं तेजसो रूपं तद्बीजेन हि जन्यते ।
विद्यास्थैश्चन्द्रबीजैस्तु स्थूलः सूक्ष्मो रसः स्मृतः ॥ ५४ ॥
सम्बन्धो विदितो लोके रसस्याप्यमृतस्य च ।
वसुन्धरागुणो गन्धस्त[द्विद्धि?ल्लिपिः]गन्धवाचिका ॥ ५५॥
भुवनत्रयसं [बुद्ध्या?बन्धात्] त्रिधात्वं तु महेश्वरि ।
अशुद्ध [स्तत्त्व?शुद्ध] मिश्राणां प्रमातॄणां परं वपुः ॥ ५६ ॥
क्रोधीशत्रितयेनाथ विद्यास्थेन प्रकाश्यते ।
श्रीक[श्व?ण्ठ] दशकं तद्वद्व्यक्तस्य हि' वाचकम् ॥ ५७॥
प्राणारूपस्थितो देवि त (त्त्वमे?द्वाद)कादशः (पुनः?परः) ।
एकः सन्नेव पुरुषो बहुधा जायते हि सः ॥ ५८ ॥
रुद्रेश्वरसदेशाख्या देवता मितैविग्रहाः ।
बिन्दु(क्रमे?त्रये)ण कथिता, अमितामितैर्विग्रहाः ॥ ५९ ॥
शान्तिः शक्तिश्च शंभुश्च नादत्रितयबोधनैः ।
वा[ग्भवो?गुरा] मूलवलये सूत्राद्याः कवलीकृताः ॥ ६० ॥

२७२ गन्धर्वतन्त्रे ।
तथा ऽमन्त्राः समस्ताश्च विद्याया(य?म)त्र संस्थिताः ।
गुरुक्रमेण संप्राप्तः संप्रदायार्थ ईरितः ॥ ६१ ॥
निग[र्वो?र्भो]ऽपि च देवेशि शिवगुर्वा[थ?त्म] गोचरैः ।
तत्प्रकारं च देवेशि दिङ्मात्रेण वदामि ते ॥ ६२ ॥
शिवगुर्वात्मनामैक्यानुसंधानात् तदात्मकम् ।
निष्कलत्वं शिवे बुद्ध्वा तद्रूपत्वं गुरोरपि ।
तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ॥ ६३ ॥
भावयेद्भक्तिनम्रस्तु शङ्कोन्मेषाकलङ्कितः ।
कौलिकं कथयिष्यामि चक्र[मे?दे]वतयोरपि ॥ ४६ ॥
विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते² ।
तथा मन्त्रात्मकं चक्रं देवतायाः परं वपुः ॥ ६५ ॥
एकादशाधिकशतै³र्देवतात्मतया स्थितम् ।
लकारैश्चतुरस्राणि, वृत्तत्रितयसंयुक्तम् ॥ ६६ ॥
सरोरुहद्वयं (शक्तो?शाक्तै)रग्नी(सो?षो) मात्मकं प्रिये ।
हृल्लेखात्रयसम्भु[ल्यै?तै]रक्षरैर्नवसंख्यकैः ॥ ६७ ॥
बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये ।
मण्डलत्रयसंयुक्तं चक्रं शक्त्यनलात्मकम् ॥ ६८ ॥
व्योमबीजत्रयेणापि, प्रमातृत्रितयात्मकम् ।
इच्छा[दिना?ज्ञान]क्रियारूपमादनत्रयसंयुक्तम् ॥ ६६ ॥
१ 'गौरव' क पाठ । २ 'दृश्यते' क पाठ । ३ 'त' क पाठ ।

एकोनत्रिंशः पटलः । २७३
सर्ववर्णात्मकं बिन्दुचक्रं सद्यः शिवात्मकम् ।
गणेशत्वं महादेव्याः ससोमरविपावकैः ॥ ७० ॥
इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैः पुनः ।
ग्रहरूपा परा देवी, ज्ञानकर्मेन्द्रियैरपि ॥ ७१ ॥
त(दुत्थै?दर्थै)रेव देवेशि करणैरान्तरैः पुनः ।
प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ॥ ७२ ॥
नक्षत्रविग्रहा जाता, योगिनीनामथोच्यते ।
त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ॥ ७३ ॥
वर्गाष्टकनिविष्टाभिर्योगिनी(भ्य?भि)स्तु संयुता ।
योगिनीरूपमास्थाय क्रीडते विश्वरूपिणी ॥ ७४ ॥
प्राणोऽपानः समानश्च व्यानोदानौ तथा पुनः । ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ७५ ॥
जीवात्मा परमात्मा च तैरेव [बलि?राशि]रूपिणी ।
अकथादित्रिपंक्त्यात्मतार्तीयादिक्रमेण सा ॥ ७६ ॥
(जनना?गणेशोऽ)भून्महाविद्या परावागादिवाङ्मयी ।
बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥ ७७ ॥
हृल्लेखात्रयसम्भूतैस्तिथिसंख्यैरथाक्षरैः ।
अन्यैर्द्वादशभि[र्व्यक्तै?र्वर्णै]रेषा नक्षत्ररूपिणी ॥ ७८ ॥