सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

१३८ गन्धर्वतन्त्रे ।
अमृतेश्वरि तथेत्युक्त्वा पश्चादमृतवर्षिणि ।
अमृतं(श्रा?स्रा)वययुगं वह्निजायावधिर्मनुः* ॥ ६१ ॥
वाग्भवं वद्युग्मं च वाग्वादिनि चै१ वाग्भवम् ।
कामबीजं क्लिन्ने२ चोक्त्वा क्लेदिनि क्लेदयेति च ॥ ६२ ॥
महाक्षोभं कुरुयुगं कामबीजमतः परम् ।
तार्तीयं मोक्षमृत्युक्त्वा कुरुयुग्मं वदेत्ततः ६३
शक्तिबीजं पुनश्चान्ते संदीपनमनुः† प्रिये ।
संदीपनादिकं कृत्वा बोधिन्या बोधयेत् ततः ॥ ६४ ॥
कृताञ्जलिपुटो भूत्वा स्मरेन्मन्त्रं§ वरानने ।
एवं पात्रचतुष्कं च वटुकादेः पुनर्भवैत् ॥ ६५ ॥
गुरूणां च त्रयं चैकमेकमेवात्मनो भवेत् ।
एवं भवन्ति पात्राणि नवैव ह्युत्तमानि च ॥ ६६ ॥
पञ्चपात्रं भवेन्मध्ये मध्यमं त्वेकपात्रकम् ।
गुरवे गुरु(पा?पु)त्राय तत्पत्त्यै तत् समर्पयेत् ॥ ६७ ॥
(व?वी)रशक्त्यै (वरं?वीर) पात्रं निवेद्यात्मनि योजयेत् ।
एवमेवार्चनाद् देवि भवेदमृतमुत्तमम् ॥ ६८ ॥
कुशाग्रेण समादाय अमृतं सर्वपावनम् ।


१ 'तु' ख पाठ । २ 'क्लीन्नेत्यु' क पाठ. ।
* स्पष्ट यथा ऐंक्लींसौ अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृत स्रवय २ स्वाहा ।
† ऐ वदवद वाग्वादिनि ऐंक्ली क्लेन्ने क्लेदिनि क्लेदय महाक्षोभ कुरु२ क्लींसौ. मोक्ष कुरु २
सौ इति सदीपिनीविद्या ।
§ 'पूर्वल्लिखित ब्रह्माण्डखण्डमश्रुतमित्यादि मयि चित्स्फुरणा कुरु इत्यन्तम्' इति पर्याय-
रूपेणाधिक पाठो दृश्यते ।

त्रयोदशः पटलः । १३६
गुरुत्रयं च संतर्प्य वटुकादीन् प्रतर्प्य च ॥ ६९ ॥
प्रलयानलसंकाशे चिदग्नौ जुहुयात् ततः‡ ।
आत्मनः कुण्डलिन्याश्च हुत्वा वै ब्रह्मरन्ध्रके ॥ ७० ॥
बीजत्रयेण त्रिः प्राश्य मुद्रया तत्त्वसंज्ञया ।
विशुद्धान्तर्मनाः पूतो योग्यः स्याद्यागकर्मणि ॥ ७१ ॥
अमृतत्वं कवित्वं च प्राश्यामृतं लभेन्नरः ।
भ्रंशनादस्य पात्रस्य भूमौ बिन्दुनिपातनात् ॥ ७२ ॥
अशुभं स्यात् तदा तस्य होमाच्छान्तिर्नचान्यतः ।
प्रोक्षयेत् तेन चात्मानं मूलेन वारुणेन वा ॥ ७३ ॥
पूजोपकरणं चापि त्रिरभ्युक्ष्य तथैव हि ।
अमृतैः प्रोक्षितं यत्तु सर्वं ब्रह्ममयं भवेत् ॥ ७४ ॥
यदन्यद् दीयते द्रव्यमलंकारादिकं च यत् ।
वरुणास्यैव बीजेन तेषां प्रोक्षणमाचरेत् ॥ ७५ ॥
सर्वेषां देवमुच्चार्य मूलमुच्चार्य पूर्वतः ।
अर्घ्यपात्रस्थतोयेन प्रतिनाम्ना निवेदयेत् ॥ ७६ ॥
अन्यतोयैस्तु संसृष्टमर्घ्यपात्रस्थितैतरैः ।
तन्न गृह्णातीष्टदेवी दत्तं विधिशतैरपि ॥ ७७ ॥

इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे बहिर्यागविधौ विशेषार्घ्यपा-
त्रादिसाधनक्रमनिरूपणं त्रयोदशः पटलः ॥१३॥


‡ अयमत्र मन्त्र —आर्द्रं ज्वलति ज्योतिरेवाहं ब्रह्माहमस्मि साहमस्मि अहमेवाहं मा
जुहोमि स्वाहा ॥

चतुर्दशः पटलः।
—०—
ईश्वर उवाच
आधारशक्तिमारभ्य कामेश्वरान्तमद्रिजे ।
पूजयेत् साधको भक्त्या पीठं मन्त्रमयं पुरः ॥ १ ॥
ओंकारबिन्दुमध्यस्थं नामधेयाद्यमक्षरम् ।
देवतानां स्वबीजं तत्पूजायामृद्धिसिद्धिदम् ॥ २ ॥
कामपीठं ततो ध्यात्वा पूजयेत् साधकस्तथा ।
देवं कामेश्वरं तत्र ह्येकवक्त्रं चतुर्भुजम् ॥ ३ ॥
भस्मा(श्रु?श्वि)तं मध्यहृदि रक्तार्कं च कुङ्कुमैः ।
त्रिशूलं च पिनाकं च वामहस्तद्वये धृतम् ॥ ४ ॥
उत्पलं बीजपूरं च दक्षिणाद्वितये तथा ।
श्वेतपद्मोपरिस्थं च ध्यात्वा मध्ये प्रपूजयेत् ॥ ५ ॥
शक्त्या युक्तो यदा देवि साधकः परिचिन्तयेत् ।
आयुधा[नाम?नां स्व]रूपं च मूलदेव्यां समं निशि ॥ ६ ॥
शांभवेनं यजेद् देवं पूर्वोक्तेन च साधकः ।
सप्तम्या मूलमुच्चार्य महात्रिपुरसुन्दरी ॥ ७ ॥,
अमृतपदमुच्चार्य चैतन्यमूर्तिमादितः ।
कल्पयामीति मनुना मूर्ति संचिन्तयेत् तथा ॥ ८ ॥
देवीं कामेश्वराङ्कस्थां परमानन्दनन्दिताम् ।
साधकाय प्रयच्छन्तीं पुरुषार्थचतुष्टयम् ॥ ६ ॥
आनन्दालसया दृष्ट्या वीक्षन्तीं करुणार्द्रया ।
१ 'श्या.' क पाठः । २ 'वाम्येन' क पाठ ।

चतुर्दशः पटलः । १४१
नाराचमुद्रया पश्चाद्रक्षां मन्त्रेण कारयेत् ॥ १०.॥
अवगुण्ठ्य ततो मन्त्री कुर्याद् दिग्बन्धनं ततः ।
प्राणायामं ततः कृत्वा गृह्णीयात् कुसुमाञ्जलिम् ॥ ११ ॥
पुष्पाञ्जलिं विना देवीं नावाइयेत् कदाचन ।
ततो ध्यायेन्महादेवीं यथोक्तां परमेश्वरीम् ॥ १२ ॥
प्रत्यञ्चीकृत्य हृदये जितप्राणोऽथ साधकः ।
ऐक्यं संचिन्तयेद् देव्या बाह्यान्तर्मूर्तियुग्मयोः ॥ १३ ॥
ततस्तु वायुबीजेन वह्निनासापुटेन तु ।
तच्चैतन्यं विनिःसार्य पुष्पाञ्जलौ निवेशयेत् ॥ १४ ॥
नासिकावायुनिःसारात् पुष्पस्था देवता भवेत् ।
यावत् संस्थापयेद् देवीं स्वहस्तं न वियोजयेत् ॥ १५ ॥
कृते वियोगे हस्तस्य पुष्पात् तस्मान्महेश्वरि ।
गन्धर्वैः पूज्यते देवी पूजकैर्नाप्यते फलम् ॥ १६ ॥
त्रिखण्डामुद्रया तस्मात् तामावाहनविद्यया ।
निर्गमय्यातिदीप्ताभां श्रीपीठान्तर्निधारयेत् ॥ १७ ॥
पाणिद्वयं समं सम्यक् परिवर्तनयोगतः ।
योजयित्वा तर्जनीभ्यामनामे धारयेत् ततः ॥ १८ ॥
मध्यमे योजयेन्मध्ये कनिष्ठे तदधस्ततः ।
अङ्गुष्ठावपि संयोज्यौ त्रिधा युग्मक्रमेण तु ॥ १६ ॥
त्रिखण्डेयं महामुद्रा त्रिपुराह्वानकर्मणि ।
हेंसबीजसमारूढा बाला चाग्न्यासनस्थिता ॥ २० ॥
२ 'हस' क पाठ ।

१४२ गन्धर्वतन्त्रे ।
अनया*मूलमुच्चार्य मुद्रया च त्रिखण्डया ।
महापद्मवनान्तःस्थे कारणानन्दविग्रहे ॥ २१ ॥
सर्वभूतहिते मातरेह्येहि परमेश्वरि ।
देवेशि भक्तिसुलभे परिवारसमन्विते ॥ २२ ॥
अस्यां (मूर्त्तौ) समागच्छ स्थितिं मत्कृपया कुरु ।
एहि देवि प्रभावात् ते शुभदे भयनाशिनि ॥ २३ ॥
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ।
कामेशि त्वमिहागच्छ सर्वैः परिकरैः सह ॥ २४ ॥
पूजाकर्मणि सांनिध्यमिह कल्पय कामिनि ।
कामेश्वरि समागच्छ कामेशाङ्कनिषेदुषि ॥ २५ ॥
अव्युच्छिन्नां मतिं शुद्धां वाचं कण्ठस्य देहि मे ।
एवं कृते महादेवि स्थितितस्त्याः प्रजायते ॥ २६ ॥
सम्यक् संपूरितः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः ।
आवाहनी समाख्याता मुद्रा सर्वार्थसाधिका ॥ २७ ॥
अधोमुखीकृता सैव तदा वै स्थापनी भवेत् ।
मिलितं मुष्टियुगलं संनिधापनरूपिणी ॥ २८ ॥
अन्तरङ्गुष्ठमुष्ट्या तु संनिरोधनरूपिणी ।
एतस्या एव मुद्रायास्तर्जन्यौ (सवने? प्रसृते) यदा ॥ २९ ॥
अवगुण्ठनमुद्रेयं सर्वरक्षाकरी मता ।
अमृतीकरणं कुर्यात् साधको धेनुमुद्रया ॥ ३० ॥
परिवर्त्य करौ पश्चात् तर्जनीमध्यमे युगे ।


  • ह्स्त्रैं हसकलरीं ह्स्त्रौ इति त्रिखण्डाविद्या ।

चतुर्दशः पटलः । १४३
कनिष्ठानमिकायुग्मं परस्परयुतं कुरु ॥ ३१ ॥
धेनुमुद्रेयमाख्याता अमृतीकरणे प्रिये ।
अङ्गमन्त्रान् न्यसेद् देवि देव्याङ्गे साधकोत्तमः ॥ ३२ ॥
सकलीकरणं नाम मुद्रेयं व्याप्तिरूपिणी ।
अन्योन्यग्रथिताङ्गुष्ठा प्रसारितपराङ्गुलिः ॥ ३३ ॥
महामुद्रेयमाख्याता परमीकरणे शिवे ।
ततोऽवगुण्ठयेद् देवीमवगुण्ठनमुद्रया ॥ ३४ ॥
आवाहनं भवेद् देवि दूरादाह्वानमेव च ।
संस्थापनं भवेद् देवि निश्चलत्वोपपादकम् ॥ ३५ ॥
नैकट्यावस्थितित्वं च संनिधानमितीरितम् ।
अनन्यचित्ततया(च्छा?त्त्वा)संनिरोधनमुच्यते ॥ ३६ ॥
संपूर्णावस्थितेर्या(च्छा?त्त्वा)सकलीकरणं प्रिये ।
अयोग्यदृष्ट्यविषयपा(दो?द)नमवगुण्ठनम् ॥ ३७ ॥
आनन्दपूर्णाव(स्थिति?स्थ)त्वममृतीकरणं शिवे ।
सर्वापराधजातानां सहिष्णुत्वप्रकाशकम् ॥ ३८ ॥
परमीकरणं नाम संप्रार्थनमिहोच्यते ।
संमुखमुद्रया देवीं संमुखं प्रार्थयेत् ततः ॥ ३६ ॥
मुष्टिद्वयस्थिताङ्गुष्ठौ संमुखौ च परस्परम् ।
संश्लिष्टावुच्छ्रितौ कुर्या[च्छ्रेयः?त्सेयं]संमुखमुद्रिका ॥४०॥
मूलविद्यां समुच्चार्य महात्रिपुरसुन्दरी ।
श्रीपादुकां ततः पश्चात् पूजयामीति भक्तितः ॥ ४१ ॥
१ 'यता पा' क पाठ ।

१४४ गन्धर्वतन्त्रे ।
देवीपादाम्बुजद्वन्द्वे पुष्पाञ्जलित्रयं दिशेत् ।
तथैव^१ तर्पयाम्यन्ते मुद्रया तर्पयेत् त्रिधा ॥ ४२ ॥
प्रार्थनमुद्रया पश्चादभ्यर्थयेदनेन तु ।
प्रसादसंमुखे देवि प्रसन्ना भव सुन्दरि ॥ ४३ ॥
पूजाभागं गृहाणेमं मामकं भक्तवत्सले ।
अहं यद्यपि देवेशि दुर्बलोऽप्यल्पसाधनः ॥ ४४ ॥
भक्त्या करोमि पूजां ते कृपयानुगृहाण माम् ।
प्रसृताङ्गुलिकौ हस्तौ मिथःश्लिष्टौ च संमुखौ ॥ ४५ ॥
कार्यौ च हृदये सेयं मुद्रा प्रार्थनसंज्ञिका ।
संदर्शयेत् स्वस्वबीजपूर्वं मु(द्रां त?द्रास्त)तो नव ॥ ४६ ॥
संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः ।
खेचरीबीजयोन्याख्या नव मुद्रास्ततः क्रमात् ॥ ४७ ॥
एता मुद्रा महेशानि ब[न्ध?न्धू]ककुङ्कुमप्रभाः ।
खखमुद्रांकराः सर्वाः श्रीविद्यासंमुखी(:)स्मरेत् ॥ ४८॥
अथैवं परमेशान्या उपचारान् निवेदयेत् ।
भक्त्यैवैते कृता देवि साधकं देवसंनिधिम् ॥ ४६ ॥
चारयन्ति यतस्तस्मादुच्यन्ते चोपचारकाः ।
समीपे चारणाद्वापि[कला?बालि]कान्ते तथोदिताः ॥५०॥
नमोन्तमासनं दद्यात् स्वागतं दर्शनं भवेत् ।
नमोन्तं पाद्योः पाद्यमर्घ्य [शिवो?नमो]न्तमेव च ॥ ५१ ॥
स्वधेत्याचमनं [प्राज्ञि?प्रोक्तं] मधुपर्कस्तथैव च ।
१ 'द्रा' क पाठ ।

चतुर्दशः पटलः । १४५
तेनैव मनुनाचामं नमोन्तं स्नानमेव च ॥ ५२ ॥
नमोन्ते वाससी प्रोक्ते तथाङ्गाभरणानि च ।
नमोन्तमर्पयेत्(कुन्दं?गन्धं)पुष्पं चै¹ वौषडन्तकम् ॥ ५३ ॥
पुष्पं समर्पयेद् देव्यै मुद्रया ज्ञानसंज्ञया ।
अङ्गुष्ठतर्जनीयोगाज् ज्ञानमुद्रेयमीरिता ॥ ५४ ॥
नमोन्तं च तथा धूपं दीपं² मालां तथैव च ।
नैवेद्यं च ततो दद्याद्यथोक्तं वै चतुर्विधम् ॥ ५५ ॥
पानार्थं मधुरं वारि दद्यादाचमनं पुनः ।
कर्पूरसहितं देव्यै ताम्बूलं च निवेदयेत् ॥ ५६ ॥
तर्पणानि पुनर्दद्यात् त्रिपुरात्तत्वमुद्रया ।
अङ्गुष्ठानामिकायोगात्³ तत्त्वमुद्रेयमीरिता ॥ ५७ ॥
अङ्गुष्ठं शिवमित्याहुरनामा शक्तिरुच्यते ।
तर्पणं तु तयोर्गादमृतैर्वामपाणिना ॥ ५८ ॥
योनिमुद्रां प्रदर्श्याथ मुद्राः संदर्शयेत् क्रमात् ।
स्तुत्वा प्रणम्य विधिवज्जपेद्विद्यामनन्यधीः ॥ ५९ ॥
जपान्ते जुहुयादग्निं होमान्ते बलिमुत्सृजेत् ।
बलिदानावसाने तु निवेद्यानि निवेदयेत् ॥ ६० ॥
दशाङ्गाद्यैस्ततो धूपैः पुनर्देवीं प्रधूपयेत् ।
दीपमालाः प्रदर्श्याथ पादाङ्गललाटकावधि ॥ ६१ ॥
वीरेश्वराय वौषट् चै सिन्दूरं दापयेदथ ।
अङ्गरागेषु सिन्दूरं पानेषु मदिरां तथा ॥ ६२ ॥
१ 'च नास्ति' क पाठ । २ 'पमा' क पाठ । ३ 'ग' क पाठ ।
४ 'पडिति' क पाठ ।

१४६ गन्धर्वतन्त्रे ।
वस्त्रेषु रक्तकौशेयं त्रिपुराप्रीतिदायकम् ।
नेत्राञ्जनं निवेद्याथ दर्शयेद् दर्पणं तथा ॥ ६३ ॥
मूर्ध्नि च्छत्रं निधायाथ वीजयेद्रक्तचामरैः ।
सितैर्वा परमेशानीं नतु कृष्णैः कदाचन ॥ ६४ ॥
वादयेच्छङ्खघण्टे च पुनःपुनः प्रधूपयेत् ।
ततः संतोषयेद् देवीं गीतवादित्रनिःस्वनैः ॥ ६५ ॥
वाद्यैर्नानाविधैर्देवि क्रीडाकौतुकमङ्गलैः ।
नटनर्तकसङ्घैश्च वेश्याभिरपि पार्वति ॥
आत्मना सर्वभावेन निवेद्य तन्मयो भवेत् ॥ ६६ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे बहिर्यागविधिनिरूपणं
चतुर्दशः पटलः ॥ १४ ॥
१ 'षेय' क. पाठः । २ 'यञ्छ्र' क. पाठः । ३ 'है' क. पाठः ।

पञ्चदशः पटलः।
──────── 0 ────────
श्रीदेव्युवाच
उपचारान् कथं देव फलं तेषां च कीदृशम् ।
यच्च प्रियतमं देव्यास्तत् सर्वं वद शंकर ॥ १ ॥
ईश्वर उवाच
उपचारान् प्रवक्ष्यामि शृणु षोडश पार्वति ।
यैः साक्षात्¹ तुष्यते देवी विधानैर्विहितैर्वि[दुःभुः] ॥ २ ॥
सौवर्णं राजतं वस्त्रं तथा रत्नविनिर्मितम् ।
आसनं प्रथमं दद्यात् पौष्पं दारवमेव वा ॥ ३ ॥
न पत्रमासनं दद्यात् कदाचिदिह पूजने ।
यथोक्तविधिना देव्यै रक्तकम्बलमेव वा ॥ ४ ॥
सुमेरुपादपीठान्ते पद्मकल्पित आसने³ ।
भोगमोक्षप्रदे मातस्तिष्ठस्व परमेश्वरि ॥ ५ ॥
अनेनैवासनं देव्यै यो दद्याद्विहितं शिवे ।
भुक्तिमुक्ती करे तस्य सर्वत्र स्थानवान् भवेत् ॥ ६ ॥
पा(द्या?दा)⁵र्थमुदकं पाद्यं चन्दनागुरुसंयुतम् ।
सुशीतलं❄मया देवि सुखाय तव पादयोः ॥ ७ ॥
तत्तैजसेन पात्रेण शङ्खेनाथ प्रदापयेत् ।
धर्मार्थकाममोक्षाणां संस्थानं पाद्यमिष्यते ॥ ८ ॥
१ 'स्यात्' ख पाठ । २ 'रिडिनै' क पाठ । ३ 'स्व' क पाठ । ४ 'तमासनम्'
ख पाठ । ५ 'द' क पाठ । ❄ निवेदितमितिशेष ।

१४८ गन्धर्वतन्त्रे ।
पाद्यमन्त्रो मया प्रोक्त(म?स्त्व)नेनैव निवेदयेत् ।
अर्घ्येण लभते कामानर्घ्येण लभते धनम् ॥ ६ ॥
पुत्रायुःसुखमोक्षा(शि?दि) ढानाढ(र्घ?र्घ्य)स्य वै लभेत् ।
पूर्वसंस्थापितेनैव शङ्खेन विधिना स्वयम् ॥ १० ॥
श्वेतसर्षपमुद्गाभ्यां तिलक्षीरैस्तथा यवैः ।
रक्तचन्दनपु(ष्पे च ?ष्पैश्च) त्रिपुरायै महेश्वरि ॥ ११ ॥
निधाय पुरतो दद्यादर्घ्यमन्त्रेण साधकः ।
अर्घ्यमर्घ्यमिदं देवि मया भक्त्या निवेदितम् ॥ १२ ॥
सजलं शङ्खपात्रस्थं गृहीत्वा मूर्ध्नि योजय ।
उदकं दीयते य[स्तु?त्तु] सगन्धं फेनवज्र्जितम् ॥ १३ ॥
आचमना(द्यं?र्थं)देवाय तदाचमनमुच्यते ।
कर्पूरवासितैर्वापि कालागुरुप्रधूपितैः ॥ १४ ॥
यथा तथा सगन्धैर्वा प्रसत्रैः [क?फे]नवर्जितैः ।
दद्यादाचमनीयं तु सगन्धसलिलैः शुभैः ॥ १५ ॥
तैजसेन तु पात्रेण शङ्खेनाप्यथवा प्रिये ।
आयुर्बलयशोवृद्धिं प्रदायाचमनीयकम् ॥ १६ ॥
लभते साधको नित्यं[स?का]मांश्चैव यथेप्सितान् ।
सगन्धाचमनं देवि मया भक्त्या निवेदितम् ॥ १७ ॥
आयुर्बलयशोवृद्धयै तदिदं प्रतिगृह्यताम् ।
दधि सर्पिर्जलं क्षौद्रं सितामिश्रापि[पञ्चभिः?सेत्तुभिः] १८
प्रोच्यते मधुपर्कस्तु देवीप्रीतिप्रदायक ।
१ 'तम्' क पाठ । २ 'के तु' क पाठ

पञ्चदशः पटलः। १४६
जलं च नारिकेलोत्थं सिता दधि घृतं समम् ॥ १९ ॥
सर्वेषामधिकं क्षौद्रं मधुपर्के प्रयोजयेत् ।
तद्दद्यात् कांस्यपात्रेण रोप्यपात्रेण वा पुनः ॥ २० ॥
ज्योतिष्टोमाश्वमेधादौ यत् पुण्यं लभते नरः ।
सर्वं तत् परमेशानि मधुपर्के प्रतिष्ठितम् ॥ २१ ॥
आज्यं दधि मधुन्मिश्रं जलं चापि सशर्करम् ।
मधुपर्कं रोप्यपात्रे गृहीत्वा भुङ्क्ष्व सुन्दरि ॥ २२ ॥
मधुपर्कं विना पूजा साधकक्षयकारिणी ।
मधुपर्क्रमदृष्ट्वैव साधकं भक्षयेत् परा ॥ २३ ॥
कर्पूरागुरुकस्तूरीरोचनाकुङ्कुमं तथा ।
नारिकेलजलं क्षौद्रं तथेक्षुरसमुत्तमम् ॥ २४ ॥
सितां च पञ्चगव्यं च सर्वौषधिगणं तथा ।
प्रान्ते तोयमिति प्रोक्तं स्नानीयं त्रिपुराप्रियम् ॥ २५ ॥
भृङ्गारेणाथवा शङ्खैस्त्रिपुरायै निवेदयेत् ।
साधकः स्नानदानात्तु हयमेधफलं लभेत् ॥ २६ ॥
दीर्घायुः कामभोगी च महापातकहा भवेत् ।
प्रत्येकं सर्ववस्तूनां सहस्रपलमानतः ॥ २७ ॥
महास्नानं भवेद्देवि मध्यं पलशतेन तु ।
कनिष्ठं वै भवेत् स्नानं प(लानां ? लैः) दशभिरीरितम् ॥ २८ ॥
मिश्रीकृतैस्तु सर्वेषां स्नानमानं न विद्यते ।
स्नपयेत् प्रथमं देवीं त्रिपादिति ऋचा पुनः ॥ २६ ॥
'रौप्य' क पाठ । २ तां' क पाठः । ३ 'स्ना' क पाठः ।

१५७ गन्धर्वतन्त्रे ।
मूलेनापि ततः पश्चादमुना च निवेदयेत् ।
त्वमापः पृथिवी चैव ज्योति(स्तं?स्त्वं)वायुरेव च ॥ ३०॥
केवलं भक्तिभावेन देवि त्वां स्नपयाम्यहम् ।
स्नपयित्वा महादेवीं वस्त्र यदि न दापयेत् ॥ ३१ ॥
स निर्लज्जः परः पापः प्रपते(द्?द्वृ)जिनार्णवे ।
वस्त्राभावे ततो दद्याद्रक्तपद्मं तथा ज(वाः?पाः) ॥ ३२॥
स्नपयित्वा महादेवीं वस्त्रयुग्मं प्रदापयेत् ।
वस्त्रेण ह्रियते लज्जा वस्त्रेण ह्रियते त्वघम् ॥ ३३ ॥
सर्वभूषणवर्गेषु वस्त्रमुत्तममुच्यते ।
देवीप्रीतिकरं वस्त्रं चतुर्वर्गप्रदं शुभम् ॥ ३४ ॥
निर्दशं मलिनं जीर्णं छिन्नं गात्रावलिङ्गितम् ।
परकीयं ह्या²(थु?खु)दष्टं सूचीविद्धं तथोषितम् ॥ ३५ ॥
सत्पताका(रि?वि¹)तानादौ सूचीविद्धं प्रयोजयेत् ।
केशान्वितमधौतं च श्लेष्ममूत्रादिदूषितम् ॥ ३६ ॥
वह्निदग्धं कुचैलं च महादेव्यै न दापयेत् ।
चित्रवस्त्रं दुकूलं च देवीप्रीतिकरं परम् ॥ ३७ ॥
सर्वसिद्धिप्रदं वस्त्रं वह्निष्टोमफलप्रदम् ।
विद्यातन्तुसमायुक्ते मन्त्रवर्णसमन्विते ॥ ३८ ॥
विद्याविद्ये ज(वा?पा)शोणवाससी तव सुन्दरि ।
उद्यदादित्यसंकाशं वासोयुग्मं सुनिर्मलम् ॥ ३६ ॥
नूतनं गात्रसुखदं परिधत्स्व सुरेश्वरि ।


१ 'वी' क पाठ । २ 'स्त्रा' क पाठ ।

पञ्चदशः पटलः । १५१
किरीतं च शिरोरत्नं कुण्डलं च ललाटिका ॥ ४० ॥
तालपत्रं च हारेश्च ग्रैवेयकमथोर्मिका ।
सूत्रावली केशपाशे ता(ड?ट)ङ्कवलया(न्ददौ?ङ्गदाः) ॥४१॥
पादाङ्गु(री?ली)यकं सूत्रं नूपुरं क्षुद्रघण्टिकाः ।
अलङ्काराः समाख्याता अलङ्कारेषु षोडश ॥ ४२ ॥
चतुर्वर्गप्रदं नित्यं भूषणं सर्वसौख्यदम् ।
तुष्टिपुष्टिकरं देव्यै यथाशक्त्या निवेदयेत् ॥ ४३ ॥
नवरत्नसमायुक्ता द्रुतहाटककल्पिताः ।
गात्राणि शोभयन्त्येते अलङ्कारास्तु सुन्दरि ॥ ४४ ॥
कामेशि कामरूपे त्वं सर्वकामफलप्रदे ।
भूषणं गृह्ण चार्वङ्गि मया भक्त्या निवेदितम् ॥ ४५ ॥
चूर्णीकृतो वा घृष्टो वा दाहार्कर्षित एव वा ।
रसः संमर्दजो वापि प्रागयङ्गोद्भव एव वा ॥ ४६ ॥
गन्धः पञ्चविधः प्रोक्तो देवीप्रीतिप्रदायकः ।
प्रशस्तगन्धयु[क्ता ? क्त्या] तु गन्धचूर्णानि यानि च ॥ ४७॥
तानि गन्धाह्वयानि स्युः स गन्धः प्रथमः स्मृतः ।
घृष्टो मलयजो गन्धः [स ? श]बलश्च नमेरुणा ॥ ४८ ॥
अगुरुप्र[भू ? भृ]तिश्चापि यस्य पङ्कः प्रदीयते ।
अगुरुर्देवदार्व्वादि यो दग्ध्वा गृह्यते रसः ॥ ४९ ॥
स दाहार्कर्षितो गन्धस्तृतीयः परिकीर्तितः ।
सगन्धगन्धिनीबिल्वतिलकं शतपत्रिकाम् ॥ ५० ॥

१ 'र'क पाठ । २ 'नित्य' क पाठ । ३ 'समर्दज ' क पाठ । ४ 'रुदै' क पाठः ।

१५२ गन्धर्वतन्त्रे ।
निष्पीड्य गृह्यते योऽसौ संमर्द्जः स उच्यते ।
मृगनाभिसमुद्भूतस्तत्कोशोद्भव एव वा ॥ ५१ ॥
गन्धः प्राणयङ्गजः प्रोक्तः पञ्चमस्तु स उच्यते ।
गन्धस्य विस्तरो भेदो दिङ्मात्रं समुदाहृतम् ॥ ५२ ॥
सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः ।
तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा ॥ ५३ ॥
कुङ्कुमागुरुकस्तूरीकर्पूरमलयोद्भवैः ।
समीकृतैस्तु यो गन्धस्त्रिपुराप्रीतिदायकः ॥ ५४ ॥
कुचन्दनं [शि? सि]तं चैव कालीयकसमन्वितम् ।
अनुलेपनमुख्यं तु देव्याः प्रीतिकरं परम् ॥ ५५ ॥
अलक्तं नखरागेषु देवीप्रीतिकरं तथा ।
गन्धेन लभते कामान् गन्धो धर्मप्रदः सदा ॥ ५६ ॥
अ[श्वा? ङ्गा]नां साधको गन्धो मोक्षे चापि प्रतिष्ठितः ।
शरीरं ते न जानामि चेष्टां [चै? श्चै]व महेश्वरि ॥ ५७ ॥
मया निवेदितान् गन्धान् प्रतिगृह्य विलिप्यताम् ।
गन्धैः सुतोषिता देवी चतुर्वर्गप्रदा भवेत् ॥ ५८ ॥
अनेनैव महेशानि गन्धान् देव्यै निवेदयेत् ।
घृततैलादियोगेन स्वर्णादौ दीपवह्निना ॥ ५६ ॥
यदञ्जनं प्रजायेत कृत्वा कर्पूरमिश्रितम् ।
धर्मार्थकाममोक्षाय त्रिपुरायै निवेदयेत् ॥ ६० ॥
विधवा ना(च्छ? ञ्ज)नं कुर्यान्महामायार्थमद्रिजे ।
१ ‘पोद्भव’ क पाठ ।

पञ्चदशः पटलः । १५३
न मृत्पात्रे गतं कुर्यात् साधको नेत्ररञ्जनम् ॥ ६१ ॥
न पूजाफलमाप्नोति मृत्पात्रे विहिताञ्(लैः?नैः) ।
परकीयांस्तथा घ्रातान् स्तेयं कृ(त्या?त्वा)भिमर्दितान् ॥ ६२॥
पुष्पं धूपं च गन्धं च नोपच[रान्? रेत्] तथापरान् ।
घ्रातान् निवेद्य देवेशि नरो नरकमाप्नुयात् ॥ ६३ ॥
नैव पर्युषितैः पुष्पैः पत्रैश्चापि महेश्वरीम् ।
पूजयेत् परमेशानि महात्रिपुरसुन्दरीम् ॥ ६४ ॥
सर्वं पर्युषितं वर्ज्यं पत्रं पुष्पं फलं तथा ।
पद्मानि सितरक्तानि कुमुदान्युत्पलानि च ॥ ६५ ॥
एषां पर्युषिताशङ्का कार्या पञ्चदिनोर्ध्वतः ।
अन्येषां कुसुमानां च यावद्गन्धविपर्ययः ॥ ६६ ॥
बिल्वपत्रे महेशानि नास्ति पर्युषितात्मता ।
बकुलं केसरं वज्रं माल्यं कुन्दं च शाल्मलम् ॥ ६७ ॥
करवीरं चार्कपुष्पं बन्धूककमले तथा ।
मालती मल्लिका जाती यूथिका माधवी तथा ॥ ६८ ॥
तगरः कर्णिकारश्च द्रोणश्चोत्पलचम्पकौ ।
अशोकः कुमुदश्चैव शेफालिकाकदम्बकौ ॥ ६९ ॥
केतकी वनमाला च कुसुम्भर्किंशुकौ तथा ।
कह्लारबकुले चैव लवङ्गनागकेसरौ ॥ ७० ॥
सर्वेषु पुष्पजातेषु त्रिपुरायाः सदैव हि ।
एतान्येव प्रियाणि स्युर्न पत्रैरर्चयेच्छिवाम् ॥ ७१ ॥
पत्रेषु बिल्वपत्रं च तथा मदनपल्लवम् ।
१ 'र्ध्वत.' क पाठ । २ 'ला' ख पाठ ।

१५४ गन्धर्वतन्त्रे ।
दूर्वाङ्कुरं तथा प्रो(क्ता?क्तं) नान्यत् पत्रं प्रयोजयेत् ॥ ७२॥
मल्लिका मालती कुन्दो द्रोणश्चाथ सिताम्बुजम् ।
शुक्लपक्षे महादेवि त्रिपुरायै निवेदयेत् ॥ ७३ ॥
सर्वेषां पुष्पजातीनां रक्तपद्मं तथा ज(वा?पा) ।
देवीप्रीतिकरं प्राज्ञे सर्वकामफलप्रदम् ॥ ७४ ॥
रत्नपुष्पं च देवेशि तथा स्वर्णादिनिर्मितम् ।
रक्तपद्मेन वज्रेण तुलां नायाति कर्हिचित् ॥ ७५ ॥
एतेषां पुष्पजातानां येन केन विनिर्मिताम् ।
मालां कृत्वा महादेव्यै यत् फलं लभते नरः ॥ ७६ ॥
अपि वक्त्रसहस्रैस्तद्वक्तुं नालं ततः प्रभुः ।
पुष्पमूले वसेद् ब्रह्मा पुष्पमध्ये तु केशवः ॥ ७७ ॥
पुष्पाग्रेऽहं स्थितो नित्यं सर्वे देवाः स्थिता दले ।
चराचराश्च सकलाः सदा पुष्पवसाः स्मृताः ॥ ७८ ॥
परं ज्योतिः पुष्पगतं पुष्पेणैव प्रसीदति ।
भोगमोक्षप्रदं पुष्पं तुष्टिश्रीपुष्टिमोददम् ॥ ७६ ॥
पुष्पैर्देवी प्रसन्ना स्याद् धर्मकामार्थदायिनी ।
तस्मात् पुष्पैर्यजेद् देवीं नित्यं भक्तियुतो नरः ॥ ८० ॥
ब्रह्मविष्णुशिवादीनां पुष्पमेव सदा प्रियम् ।
तत्ते मातः प्रयच्छामि पवित्रं प्रतिगृह्यताम् ॥ ८१ ॥
उग्रगन्धमगन्धं च कृमिकेशादिदूषितम् ।
अशुद्धपात्रपाणिस्थं वासोभिः कुत्सितात्मभिः ॥ ८२ ॥
आनीतं नार्पयेद् देव्यै प्रमादादपि दोषकृत् ।
१ ‘स्तु’ ख पाठ ।

पञ्चदशः पटलः । १५५
स्ना(त्वा?ता)नीतैः पर्युषितैर्याचितैः कृष्णवर्णकैः ॥ ८३ ॥
स्वयं विका(शि?सि)तर्मुक्तेः स्वयं च पतितैर्भुवि ।
नार्चयेत् कलिकाभिश्च विना चम्पकपङ्कजैः ॥ ८४ ॥
पुष्पं वा यदिवा पत्रं फलं नेष्टमधोमुखम् ।
दुःखदं तत् समाख्यातं यथोत्पन्नतथार्पणम् ॥ ८५ ॥
चित्रपूजासु सर्वासु न विरुद्धं न दूषणम् ।
अधोमुखापर्णं नेष्टं पुष्पाञ्जलिविधिं विना ॥ ८६ ॥
किंचातिबहुनोक्तेन सामान्येनेदमुच्यते ।
उक्ता(न्मु?नु)कैस्तथा पुष्पैर्जलजैः स्थलजैरपि ॥ ८७ ॥
पत्रैः सर्वैर्यथालाभं भक्तिमान् सततं यजेत् ।
पुष्पाभावे यजेत् पत्रैः पत्रालाभे च तत्फलैः ॥ ८८ ॥
अक्षतैर्वा जलैर्वापि न पूजां व्यतिलङ्घयेत् ।
एतेषामप्यलाभे तु मानसीं भक्तिमाश्रयेत् ॥ ८९ ॥
दह्यमानस्य काष्ठादेर्निस्तापो यस्य जायते ।
नासादिरन्ध्रसुखदः सगन्धोऽतिमनोहरः ॥ ६० ॥
स धूप इति विज्ञेयो देवीप्रीतिप्रदायकः ।
पत्रं मुस्तं नखं कुष्ठं जटा मांसी च शैलजम् ॥ ६१ ॥
सरलं देवकाष्ठं च जतु सर्जसचन्दनम् ।
कपिलाघृत-कर्पूर-शर्करागरुमिश्रितम् ॥ ६२ ॥
षोडशाङ्गो महाधूपः षोडशीप्रीतिदायकः ।
न भूमौ वितरेद् धूपं नासने कलशे नतु ॥ ६३ ॥
यथा तथाधारगतं कृत्वा तं तु निवेदयेत् ।
१ 'पुत्र' क पाठ ।

१५६ गन्धर्वतन्त्रे ।
वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ॥ ६४ ॥
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।
अथ दीपं प्रवक्ष्यामि ज्योतिष्टोमफलप्रदम् ॥ ६५ ॥
घृतदीपस्तु प्रथमस्तिलतैलोद्भवस्ततः ।
सार्षपश्चाधमः प्रोक्तस्तदन्यो निन्दितः स्मृतः ॥ ६६ ॥
पद्मसूत्रभवा चाद्या कार्पाससंभवा परा ।
दर्भगर्भभवा चापि वर्तिका परिकीर्तिता ॥ ६७ ॥
को[ष?श]जं रोमजं वस्त्रं तूलं पर्युषितं तथा ।
वर्तिकार्थं न चादद्यात् साधको भूतिमिच्छुकः ॥ ६८ ॥
तैजसं पार्थिवं लौहं दीपपात्रं प्रशस्यते ।
दीपवृक्षाश्च कर्तव्यास्तैजसाद्याः पृथक् पृथक् ॥ ६६ ॥
वृक्षे दीपः प्रदातव्यो नतु भूमौ कदाचन ।
कुर्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः ॥ १०० ॥
तामिस्रं नरकं घोरमाप्नोत्येव न संशयः ।
नेत्राह्लादकरः स्वर्च्चिर्दूरतापविवर्जितः ॥ १०१ ॥
सशिखः शब्दरहितो निर्धूमो नातिह्रस्वकः ।
दीपवृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते ॥ १०२ ॥
दक्षिणावर्तवर्त्या वै चारुदीप्तः प्रदीपकः ।
उत्तमः प्रोच्यते सोऽत्र त्रिपुराप्रीतिदायकः ॥ १०३ ॥
वृक्षेण वर्जिनो दीपो मध्यमः परिकीर्तितः ।
विहीनः पात्रतैलाभ्याम[ध्य?ध]मः परिकीर्तितः ॥ १०४ ॥
दीपमाला प्रकर्तव्या नैकदीपः कदाचन ।

  • १ क पाठ । २ 'मलिन' क पाठ.।

पञ्चदशः पटलः । १५७
त्रयो दीपाः प्रदातव्याः पञ्च वा परमेश्वरि ॥ १०५ ॥
इतो न्यूनं न दातव्यं त्रिपुरायै कदाचन ।
नैव दीपः प्रदातव्यो विधूतः श्रीविवृद्धये ॥ १०६ ॥
न मिश्रीकृत्य दद्यात् तु दीपस्नेहान् घृतादिकान् ।
कृत्वा मिश्रीकृतस्नेहं रौरवं नरकं व्रजेत् ॥ १०७ ॥
नैव निर्वापयेद् दीपं देवार्थमपि कल्पितम् ।
दीपहर्ता भवे[द्व?द]न्धः का[नो?णो]निर्वापको भवेत् ।१०८।
न तेन व्यवहारोऽपि कर्तव्यः साधकोत्तमैः ।
सूर्याचन्द्रमसोर्ज्योतिर्विद्यु[द?तोऽ]ग्रेस्तथैव च ॥ १०६ ॥
त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।
दीपं दक्षिणतो देव्याः पुरतो नतु वामतः ॥ ११० ॥
वामतस्तु तथा धूपमग्रे वा नतु दक्षिणे ।
निवेदयेत् पुरोभागे गन्धं पुष्पं च भूषणम् ॥ १११ ॥
नैवेद्यं दक्षिणे वामे पुरतो वा न पृष्ठतः ।
गात्रे दातुं च यद्योग्यं यन्त्रेष्वेव निवेदयेत् ॥ ११२ ॥
दद्याद्यथोग्यं पुरतो नैवेद्यं भोजनादिकम् ।
मदिरां पृष्ठतो दद्यादन्यपानं तु वामतः ॥ ११३ ॥
या विद्या चेह देवेशि श्रीविद्यायामनासवा ।
फलहीना समाख्याता साभिचाराय कल्पते ॥ ११४ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पूजोपचारतत्फलवर्णनं
पञ्चदशः पटलः संपूर्णः ॥ १५ ॥
१_ 'बी' क पाठ ।