गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 221, कुल 446 में से
संदर्भ में पढ़ेंचतुर्दशः पटलः।
—०—
ईश्वर उवाच
आधारशक्तिमारभ्य कामेश्वरान्तमद्रिजे ।
पूजयेत् साधको भक्त्या पीठं मन्त्रमयं पुरः ॥ १ ॥
ओंकारबिन्दुमध्यस्थं नामधेयाद्यमक्षरम् ।
देवतानां स्वबीजं तत्पूजायामृद्धिसिद्धिदम् ॥ २ ॥
कामपीठं ततो ध्यात्वा पूजयेत् साधकस्तथा ।
देवं कामेश्वरं तत्र ह्येकवक्त्रं चतुर्भुजम् ॥ ३ ॥
भस्मा(श्रु?श्वि)तं मध्यहृदि रक्तार्कं च कुङ्कुमैः ।
त्रिशूलं च पिनाकं च वामहस्तद्वये धृतम् ॥ ४ ॥
उत्पलं बीजपूरं च दक्षिणाद्वितये तथा ।
श्वेतपद्मोपरिस्थं च ध्यात्वा मध्ये प्रपूजयेत् ॥ ५ ॥
शक्त्या युक्तो यदा देवि साधकः परिचिन्तयेत् ।
आयुधा[नाम?नां स्व]रूपं च मूलदेव्यां समं निशि ॥ ६ ॥
शांभवेनं यजेद् देवं पूर्वोक्तेन च साधकः ।
सप्तम्या मूलमुच्चार्य महात्रिपुरसुन्दरी ॥ ७ ॥,
अमृतपदमुच्चार्य चैतन्यमूर्तिमादितः ।
कल्पयामीति मनुना मूर्ति संचिन्तयेत् तथा ॥ ८ ॥
देवीं कामेश्वराङ्कस्थां परमानन्दनन्दिताम् ।
साधकाय प्रयच्छन्तीं पुरुषार्थचतुष्टयम् ॥ ६ ॥
आनन्दालसया दृष्ट्या वीक्षन्तीं करुणार्द्रया ।
१ 'श्या.' क पाठः । २ 'वाम्येन' क पाठ ।