सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

षष्ठः पटलः । ५६
यमं नियममासनप्राणायामौ ततः परम् ॥ ४५ ॥
प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना ।
अष्टाङ्गान्याहुरेतानि योगिनो योगसाधने ॥ ४६ ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ।
क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ ४७ ॥
तपः संतोषमास्तिक्यं दानं देवस्य पूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ ४८ ॥
दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः ।
पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनं तथा ॥ ४६ ॥
वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् ।
ऊर्वोरुपरि विन्यस्य सम्यक् पादतले उभे ॥ ५० ॥
अङ्गुष्ठौ च निबध्नीयाद् हस्ताभ्यां व्युत्क्रमात् ततः ।
पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ ५१ ॥
जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे ।
ऋजुकायो वसेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ ५२ ॥
सीर्वैंन्याः पार्श्वयोर्न्यस्येद् गुल्फयुग्मं सुनिश्चितम् ।
वृषणांधः पादपार्ष्णिं पाणिभ्यां परिबन्धयेत् ॥ ५३ ॥
भद्रासनं समुद्दिष्टं योगिभिः परिकीर्तितम् ।
ऊर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली ॥५४॥
करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ।
एकं पादमधः कृत्वा विन्यस्योरावथेतरम् ॥ ५५ ॥
१ 'द्वं' क. पाठ. । २ 'धृतिमित्ताहारशौच' क पाठ । ३ 'नु' पाठः ।
४ 'सेम' क पाठः । ५ 'उ' ख. पाठः । ६ 'लीः' ख. पाठ । ७ 'च' क. पाठः ।

६० • गन्धर्वतन्त्रे ।
ऋजुकायो वसेद्योगी वीरासनमितीरितम् ।
इडयां कर्षयेद्वायुं बाह्यं षोडशमात्रया ॥ ५६ ॥
धारयेत् पूरितं योगी चतुःषष्ट्या च मात्रयाꕤ ।
सुषुम्नामध्यगं सम्यग् द्वात्रिंशन्मात्रया शनैः ॥ ५७ ॥
नाड्या पिङ्गलया चैवं रेचयेद्योगवित्तमः ।
प्राणायाममिमं प्राहुर्योगशास्त्रविशारदाः ॥ ५८ ॥
भूयोभूयः क्रमात्तस्य व्यत्यासेन समाचरेत् ।
मात्रावृद्धिक्रमेणैव सम्यग् द्वादश षोडश ॥ ५६ ॥
जपध्यानादिभिर्युक्तं सगर्भं तद्विदुर्बुधाः ।
त[दु?द]पेतं विगर्भं च प्राणायामं परं विदुः ॥ ६० ॥
क्रमादभ्यसतः पुंसो देहे स्वेदोद्गमोऽधमः ।
मध्यमः क[ल्प?म्प]संयुक्तो भूमित्यागः परो मतः ॥ ६१ ॥
उत्तमस्य गुणावाप्तिर्यच्छीलनकमिष्यते ।
इन्द्रियाणां विचरतां विषयेषु निराकुलम् ॥ ६२ ॥
बलादाहरणं तेभ्यः प्रत्याहारोऽयमीरितः
अङ्गुष्ठगुल्फजानुषु सी[म?व]नीलिङ्गनाभिषु ॥ ६३ ॥
हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि ।१
भ्रूमध्ये स्तनके मूर्ध्नि द्वादशान्ते यथाविधि ॥ ६४ ॥
धारणं प्राणमरुतोर्धारणेति निगद्यते ।
समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ ६५ ॥
१ 'मण' क पाठ । २ 'से' ख पाठ ।
ꕤ मात्रालक्षण यथाह नारद - कालेन यावताऽभीक्ष्णो हस्त स्व जानुमण्डलम् ।
पर्येति मात्रा तुल्या स्यात् स्वया श्वासैकमात्रयेति ॥ तथा फेत्कारिणीतन्त्रे—जानु प्रदक्षि-
णीकृत्य न द्रुत न विलम्बितम् । क्रियते चाङ्गुलिस्फोट सा मात्रा परिकीर्तितेति ॥

षष्ठः पटलः । ६१
आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते ।
समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ ६६^१॥
समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् ।
इति ते कथितं देवि कामादिषट्कनाशनम् ॥ ६७ ॥
दुर्लभं विषयासक्तैः सुलभं संयमात्मनाम् ।
समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ॥ ६८ ॥
यदि जीवः पराद्भिन्नः कार्य्यतामेति सुव्रते ।
[स्व?अ]चित्वं च प्रसज्येते घटवत् परमेश्वरि ॥ ६६ ॥
विनाशित्वं भयं चैव द्वि[त?ती]या[वि?दि]ति ते श्रुतिः ।
नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥ ७० ॥
एकः सन् भिद्यते भ्रान्त्या मायया न स्वरूपतः ।
तस्माद् द्वैतं न मे चास्ति न प्रपञ्चो न सं[स्मृ?सृ]तिः ।७१।
यथाकाशो घटाकाशो महाकाश इतीरितः ।
तथा भ्रान्तिर्द्विधा प्रोक्ता ह्यात्मने^३ जीवेश्वरात्मना ॥ ७२ ॥
नाहं देहो नच प्राणो नेन्द्रियाणि तथैव च ।
न मनो नैव बुद्धिश्च नैव चित्तमहंकृतिः ॥ ७३ ॥
नाहं पृथ्वी न सलिलं नच वह्निस्तथानिलः ।
नचाकाशो न शब्दश्च नच स्पर्शस्तथा रसः ॥ ७४ ॥
नहि गन्धो न रूपं च न मायाहं न संसृतिः ।
सदा साक्षिस্বরূপत्वाद् ब्रह्म चैवास्मि केवलः ॥ ७५ ॥
सोऽहं ब्रह्म न संसारी न मत्तोऽन्यत् कदाचन ।
१ 'ज्यैव' ख. पाठः । २ 'स्म' क. पाठः । ३ 'प्याह्वा' क. ख पाठः ।

६२. गन्धर्वतन्त्रे ।
इति विद्यात् स्वमात्मानं समाधिः परिकीर्तितः ॥ ७६ ॥
समाधौ स्वस्वरूपोऽसौ तुरीयस्वर एव हि ।
तुरीयांशः पराशक्तिर्बिन्द्वात्मा ब्रह्म केवलम् ॥ ७७ ॥
प्रज्ञात्मानं वदन्त्येके एकेऽपि ब्रह्म केवलम् ।
जीवमीश्वरभावेन विद्यात् सोऽहमिति ध्रुवम् ॥ ७८ ॥
यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ।
समुद्रे लीयते तद्वज्जगदात्मनि लीयते ॥ ७९ ॥
यस्यैवं परमात्मा [स?स्वा]पृथग्भूतः प्रकाशितः ।
स याति परं भावं स्वयं साक्षात् परामृतम् ॥ ८० ॥
यदा मनसि चैतन्यं भाति सर्वात्मकं सदा ।
योगिनोऽव्यवधानेन तदा संपद्यते स्वयं ॥ ८१ ॥
यदा भूतानि सर्वाणि स्वात्मन्येवाभिपश्यति ।
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते [स?त]दा ॥ ८२ ॥
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।
एकीभूतः परेणासौ तदा भवति केवलः ॥ ८३ ॥
यदौ जन्मजरादुःखव्याधीनामेव भेषजम् ।
केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा <sup>१</sup>शिवः ॥ ८४ ॥
तस्माद्विज्ञानतो मुक्तिर्नान्यथा भवकोटिभिः ।
मन्त्रौषधिबलैर्यद्वज्जीर्यते भक्षितं विषम् ॥ ८५ ॥
तद्वत् सर्वाणि कर्माणि जीर्यन्ति ज्ञानिनः क्षणात् ।
देहाभिमाने गलिते विदिते परमात्मनि ॥ ८६ ॥
१ 'प्रिये' ख पाठ । २ 'सदा' क. पाठ. ।

षष्ठः पटलः । ६३
यत्र यत्र मनो याति तत्र तत्र समाधयः ।
अहं ब्रह्मे नचान्योऽस्मि मुक्तोऽहमिति भावयेत् ॥८७॥
सच्चिदानन्दरूपोऽहं नित्यं मुक्तस्वभाववान् ।
एवं समाधियुक्तो यः समाधये स कल्पते ॥ ८८ ॥
सदाशिवोऽहमित्युक्त्वा स्वेच्छया विहरेद्यतिः ।
लिप्यते न स पापेन बध्यते नच कर्मणा ॥ ८६ ॥
यथाग्निविद्रुतं स्वर्णं मालिन्यं दहति क्षणात् ।
तथा ब्रह्मार्पितात्मासौ सर्वकर्माणि दह्यति ॥ ६०॥
आत्मस्थां देवतां त्यक्त्वा बहिर्देवान्विचि[न्व?नु]ने ।
करस्थं कौस्तुभं त्यक्त्वा भ्रमते काचतृष्णया ॥ ६१॥
न योगेन न यन्त्रेण न मन्त्रेण विना हि सः [?] ।
द्वयोरभ्यासयोगेन ब्रह्म संसिद्धिकारकम् ॥ ६२॥
तमःपरिवृते गेहे घटो दीपेन दृश्यते ।
एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः ॥ ६३ ॥
एतत्ते कथितं देवि ब्रह्मज्ञानमिदं महत् ।
विज्ञाय गुरुतो जप्त्वा संसारसागरं तरेत् ॥ ६४ ॥
यत्र यत्र मृतश्चायं गङ्गायां श्वपचालये ।
ब्रह्मविद् ब्रह्मभूयाय कल्पते नान्यथा प्रिये ॥ ६५ ॥
विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं प्रिये ।
चन्द्रसूर्याग्नितोजोभिर्जीवब्रह्मैकरूपकम् ॥ ६६ ॥
तिस्रः कोट्यस्तदर्धेनै शरीरे नाडयो मताँः ।
१ 'देवि' ख पाठ । २ 'हत्य' क पाठः । ३ 'स्व' क पाठ । ४ 'हृद्य' क,
पाठ । ५ दै' क पाठ । ६ 'त ' क पाठ. ।

६४ गन्धर्वतन्त्रे ।
तासु मुख्या दश प्रोक्तास्तासु तिस्रो व्यवस्थिताः ॥६७॥
प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्निरूपिणी ।
शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा ॥ ६८ ॥
इडा वामे स्थिता नाडी शुक्ला तु चन्द्ररूपिणी ।
पिङ्गलाख्या च या दक्षे पुंरूपा सूर्यविग्रहा ॥ ६९ ॥
दाडिमीकुसुमप्रख्या विषारूपा चापरा मता ।
मेरुमध्यस्थिता या तु मूलादाब्रह्मरन्ध्रगा ॥ १०० ॥
सर्वतेजोमयी सा तु सुषुम्ना बह्निरूपिणी ।
तस्या मध्ये विचित्राख्या अमृतस्त्राविणी शुभा ॥ १०१ ॥
सर्वदेवमयी सा तु योगिनां हृदयङ्गमा ।
विसर्गाद्विन्दुपर्यन्तं व्याप्य तिष्ठति तत्त्वतः ॥ १०२ ॥
मूलाधारे त्रिपुराख्ये इच्छाज्ञानक्रियात्मके ।
मध्ये स्वयंभूलिङ्गं तु कोटिसूर्यसमप्रभम् ॥ १०३ ॥
तदूर्ध्वे तत्तुरोयं तु ध्यायेद्वन्धूकसंनिभम् ।
तदूर्ध्वे तच्छिखाकारा कुण्डली रक्तविग्रहा ॥ १०४ ॥
सा एव हि परा सूक्ष्मा महात्रिपुरसुन्दरी ।
चैतन्यं सर्वभूतानां शब्दब्रह्म यदुच्यते ॥ १०५ ॥
तत्प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् ।
सर्वतेजोमयं तत्तु सच्चिदानन्दमव्ययम् ॥ १०६ ॥
तद्बाह्ये हेमवर्णाभं [र?व]सवर्णा ॐ चतुर्दलम् ।
द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥ १०७ ॥
१ 'म्णा' क. पाठ. । २ 'र्दे' क पाठ. ३ 'द्धैं' क पाठ. ।

  • बादिसान्तवर्णोपेतमित्यर्थः ।

षष्ठः पटलः । ०६५
तदूर्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् ।
बादिलान्तषडर्णेन युक्तं स्वाधिष्ठानसंज्ञकम् ॥ १०८ ॥
मूलमाधारषट्कानां मूलाधारं ततो विदुः ।
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ १०६ ॥
तदूर्ध्वे नाभिदेशे तु मणिपूरं महत् पुरम् ।
हेमाभं वैद्युताभं च बहुतेजोमयं तथा ॥ ११० ॥
मणिवद्भिन्ं तत्पूरं मणिपूरं ततो विदुः ।
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ १११ ॥
विष्णुनाधिष्ठितं पद्मं विश्वालोकनकारणम् ।
तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसंनिभम् ॥ ११२ ॥
कादिठान्ताक्षरैरर्कपत्रैश्च समलंकृतम् ।
तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ ११३ ॥
शब्दब्रह्ममयः शब्दोऽनाहतस्तत्र दृश्यते ।
अनाहताख्यं तत्पद्मं योगिभिः परिकीर्त्यते ॥ ११४ ॥
आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् ।
तदूर्ध्वे तु विशुद्धाख्यं दलैः षोडशभिर्युतम् ॥ ११५ ॥
स्वरैः षोडशकैर्युक्तं धूम्रवर्णं महत्प्रभम् ।
विशुद्धिं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ ११६ ॥
विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् ।
आज्ञाचक्रं तदूर्ध्वे तु आत्मनाधिष्ठितं परम् ॥ ११७ ॥
१ ' नून ' ख पाठ । २ ' क्त ' क पाठ । ३ ' तत्पुर मणिवद्भिज्ञ ' ख पाठः ।
४ ' न्तदलै ' क पाठ । ५ ' ब्दो ' क पाठः ।

६६ • गन्धर्वतन्त्रे ।
हक्षादिद्विदलं पद्मं चन्द्रेणाधिष्ठितं तु तत् ।
आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्तितम् ॥ ११८ ॥
कैलासाख्यं तदूर्ध्वे तु बोधिनी तु तदूर्ध्वतः ।
सहस्राराम्बुजं देवि बिन्दुस्थानं तदूर्ध्वतः ॥ ११९ ॥
आदौ पूरकयोगेन स्वाधारे योजयेन्मनः ।
गुदमेढ्रान्तरे शक्तिं तामाकुञ्च्य प्रबोधयेत् ॥ १२० ॥
लिङ्गभेदक्रमेणैव बिन्दुस्थानं समानयेत् ।
शंभुना तां परां शक्तिमेकी(भाव?भूतां)विचिन्तयेत् ॥१२१॥
तदुद्भवमृतं वक्त्रद्रुतं लाक्षारसोपमम् ।
पाययित्वा च तां शक्तिं परोक्षां योगसिद्धिदाम् ॥१२२॥
षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया ।
आनयेत्तेन मार्गेण मूलाधारं पुनः सुधीः ॥ १२३ ॥
यातायातकमेणैव तत्र कुर्यान्मनोलयम् ।
एवमभ्यस्यमानं तु अहन्यहनि पार्वति ॥ १२४ ॥
जरामरणादुःखायैर्मुच्यते भवबन्धनैः ।
इत्युक्तं परमं योगं योनिमुद्राप्रबन्धनम् ॥ १२५ ॥
अथापरं प्रवक्ष्यामि समाधिं भवनाशनम् ।
अथवा परमेशानि यथोक्तध्यानयोगतः ॥ १२६ ॥
हृत्पद्मकर्णीकामध्ये ध्यायेद्देवीमनन्यधीः ।
त्रिपुरात्मकमात्मानं भावयेन्न्यस्तविग्रहः ॥ १२७ ॥
ऐक्यं संभावयेन्नित्यं स्वगुरुदेवतात्मनाम् ।
१ 'दे' क पाठ । २ 'लि' ख पाठ' ।

षष्ठः पटलः । -६७
अहं देवो नचान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ॥१२८॥
सच्चिदानन्दरूपोऽहं शुद्धबुद्धेस्वभाववान् ।
प्रणवं पूर्वमुद्धृत्य तदिति परतस्ततः ॥ १२६ ॥
सदिति तु समालोच्यं कर्म कुर्याद्विचक्षणः ।
स्मरणात् कर्मणामाद्ये ब्रह्मभूयाय कल्पते ॥ १३० ॥
सर्वमङ्गलसंपन्नो बहिर्निर्गत्य साधकः ।
त्य(क्र?क्त्वा)मूत्रपुरीषे च करपादौ विशोधयेत् ॥ १३१ ॥
मुखं प्रक्षाल्य देवेशि नासारन्ध्रद्वयं ततः ।
नेत्राञ्जनं विधायैव शुद्धस्थानं समाश्रयेत् ॥ १३२ ॥
नेत्राञ्जनमकृत्वैव यः पश्येत् सौरमण्डलम् ।
जन्माजितफलं नश्येत् का कथा तस्य दुर्मतेः ॥१३३॥
त्रितत्त्वेन त्रि(धा?रा)चम्य दन्तधावनमाचरेत् ।
दन्तकाष्ठम(था?खा)दित्वा पूजयेद्यस्तु देवताम् ॥ १३४ ॥
तत्पूजा विफला देवि मृते च नरकं व्रजेत् ।
क्लीमात्मकं कामदेवं सर्वान्ते जनमाँलिखेत् ॥ १३५ ॥
प्रियाय हृदयान्तोऽयं मनुर्दन्तौँविशुद्धये ।
चतुर्दशस्वरैर्वक्त्रं क्षालयेच्छुँद्धिहेतवे ॥ १३६ ॥
इति गन्धर्वतन्त्रे श्रीपार्वतीश्वरसंवादे कर्मयोगादिक्रमनिरूपणं
नाम षष्ठः पटलः ॥ ६ ॥
१ 'द्वि' क पाठ । २ 'भाष्य' ख पाठ । ३ 'वंञ्जनमथा' ख. पाठ । ४ 'देंह' ख. पाठ । ५ 'स्सि' ख पाठ ।

सप्तमः पटलः ।
शंकर उवाच
प्रातः स्नानं ततः कुर्यात् त्रैपुरं योजयन् क्रमम् ।
सुगन्धिसलिलैः शुद्धैः कुलतीर्थेऽथवा पुनः ॥ १ ॥
नद्यादौ विधिवत् स्नायात् कुलदर्भविधा(य?र)कः ।
रौप्यं दक्षिणतर्जन्यामनामा हेमसंयुता ॥ २ ॥
वामकनिष्ठिका हेमैः कुलदर्भोऽयमीरितः ।
एष एव भवेद्दर्भो न दर्भो वनसंभवः ॥ ३ ॥
अशून्यं तु करं कुर्याद्रहीन्द्वर्कप्रतिष्ठया ।
सर्वभूतवशी स स्यान्मुद्रया चातिशोभया ॥ ४ ॥
त्रितत्त्वेन त्रि(धा?रा)चम्य संकल्प्य पापनुत्तये ।
कुलपात्रे सरत्नं च सतिलं सजलं ततः ॥ ५ ॥
गृहीत्वा कुलदेवस्य प्रीतये स्नानमाचरेत् ।
अस्नातस्य फलं नास्ति तथातर्पयतः पितॄन् ॥ ६ ॥
इदं विष्णुर्भैरवं तु विचक्रम इतीरितम् ।
मृदालम्भनकृत्ये च नित्यमेवमुदीरयेत् ॥ ७ ॥
कुलचक्रं जले न्यस्य कुलमुद्रां विधाय च ।
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥ ८ ॥
आवाहयामि देवि त्वां स्नानार्थमिह सुन्दरि ।
आवाह्याम्भसि संयोज्य सोमसूर्याग्निमण्डलम् ॥ ६
१ ' रम ' ख पाठ ।

सप्तमः पटलः । ६६
संचिन्त्य मन्त्री तन्मध्ये ध्यायेत् त्रिपुरसुन्दरीम् ।
गायत्र्या वै महादेव्याः सुन्दरीमाह्वयेच्छिवाम् ॥ १० ॥
त्रिवारम(जनौ?ज्जने)वारि मूलमन्त्रेण मन्त्रयेत् ।
अभिषिञ्चेत् ततो मूर्ध्नि² मूलमन्त्रं हृदि स्मरन् ॥ ११ ॥
त्रिभिस्तु त्रिपुराबीजैस्त्रिधा मज्जनमाचरेत् ।
तस्मादुत्थाय देवेशि निर्मुक्ताशेषविग्रहः ॥ १२ ॥
त्र्यक्षरीं च समुच्चार्य दुकूले परिधापयेत् ।
सकेशं मूषिकाक्रान्तमधौतं भग्नमम्बरम् ॥ १३ ॥
मलिनं परकीयं च पर्युषितं च वर्जयेत् ।
तिलकं कुलरूपं च कृत्वाचम्य विधानतः ॥ १४ ॥
ततः संध्यामुपासीत पापहानाय साधकैः³ ।
स्नानं च त्रिविधं प्रोक्तं संध्या च त्रिविधा स्मृता ॥१५॥
आन्तरं च भवेद्देवि बाह्यं मानसमेव च ।
मानसं वै भवेत् स्नानं यः सदा शुद्धमानसः ॥ १६ ॥
स्पर्शते पादुके देवि⁴ निर्विकल्पः सदैव हि ।
बाह्यं मन्त्रैश्च⁵ संप्रोक्तमान्तरं शृणु सांप्रतम् ॥ १७ ॥
प्रागुक्तक्रमयोगेन प्राणायामपरो बुधः ।
शक्तिं पराशिवेनैव संगमय्य विधानतः ॥ १८ ॥
तदुद्भवामृते शश्वन्निमज्य पुनरेव हि ।
स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते ॥ १६ ॥
१ ‘ङ्ख्याश्च’ क पाठ । २ ‘र्द्धि’ क पाठ । ३ ‘हा येन साधना’ क.
पाठः । ४ ‘स्पर्शलेपादिकेवापि ख पाठ ५ ‘ह्ममन्त्रैव’ ख पाठ । ६ ‘मार्थ’
क पाठ. ।

७० गन्धर्वतन्त्रे ।
बिन्दुतीर्थेऽथवा स्नात्वा पुनर्जन्म न विद्यते ।
आत्मानं सर्वदा सम्यग् ध्यायेद्ध्यानपरायणः ॥ २० ॥
देवताभेदतः संध्या मानसीयं परा प्रिये ।
शिवशक्त्योः समायोगो यस्मिन् काले प्रजायते ॥ २१ ॥
सा संध्या कुलनिष्ठानां समाधिस्थैः प्रतीयते ।
अपरां कथयाम्यत्र सर्वपापविनाशिनीम् ॥ २२ ॥
उपविश्य शुचौ देशे त्रितत्त्वेन त्रिराचमेत् ।
प्राणायामत्रयं कृत्वा त्रिभिर्बीजैस्त्रिधावि(ध?धि)म् ॥ २३ ॥
वामहस्ते जलं गृह्य गलितोदकबिन्दुभिः ।
सप्तधा प्रोक्षणं कुर्यान्मूर्ध्नि³ मन्त्रमनुस्मरन् ॥ २४ ॥
अवशिष्टोदकं दक्षहस्ते संगृह्य साधकः ।
नासामाश्लिष्य तोयेन ततस्तेनाघमर्षणम् ॥ २५ ॥
इडयाकृष्य देहान्तः क्षालितैः पापसंचयैः ।
कृष्णवर्णं तदुदकं दक्षनाड्या विरेचितम् ॥ २६ ॥
दक्षहस्ते तु तन्मन्त्री पापरूपं विचिन्त्य वै ।
पुरतो वज्रपाषाणे प्र⁵क्षिप्तेदस्त्रमन्त्रतः ॥ २७ ॥
इत्यघमर्षणं कृत्वा पुनराचमनं तथा ।
अभिषिञ्चेत् ततो मूर्ध्नि विधिना साधकोत्तमः ॥ २८ ॥
ओं आपो देवी रसोऽमृतं पूतं ब्रह्म पुनीमहे ।
जलाञ्जलित्रयं भूमौ मार्तण्डभैरवाय च ॥ २६ ॥
ऊर्ध्वबाहुस्ततो मन्त्री मार्तण्डं समुपाश्रयेत् ।
१ ‘धा’ क पाठ. । २ ‘धा’ ख पाठ । ३ दृष्ट्वि’ क पाठ । ४ ‘वाम’
क पाठ । ५ ‘स्तयेत’ ख पाठ । ६ ‘नि’ ख पाठ ।

सप्तमः पटलः । ७१
ओं उदुत्यं जातवेदसं देवं वहन्ति केतवः ॥ ३० ॥
दृशे विश्वाय मार्तण्डशेषे भैरवमीरयेत् ।
सूर्यमण्डलमध्ये तु कुलचक्रं विचिन्तयेत् ॥ ३१ ॥
बाल्योचितं स्पृहन्तीं वै बालिकां चक्रमध्यतः ।
बालार्कमण्डलाभासां भानुवह्नीन्दुलोचनाम् ॥ ३२ ॥
पाशाङ्कुशौ शरांश्चापं धारयन्तीं शिवां स्मरेत् ।
मध्याह्ने चिन्तयेद् देवीं नवयौवनशोभिताम् ॥ ३३ ॥
सायाह्ने चिन्तयेद् देवीं त्रैलोक्यैकप्रभामयीम् ।
सर्वयौवनसंपन्नामुज्ज्वलां परमां कलाम् ॥ ३४ ॥
तामेव चिन्तयेद्रात्रौ भोगी भोगपरायणाम् ।
अष्टोत्तरशतावृत्त्या गायत्रीं च जपेत् सुधीः ॥ ३५ ॥
रविमण्डलगां देवीं प्रणिपत्य समापयेत् ।
एवं संध्यां समाप्याथ हृदि विद्यां परामृ(षे?शे)त् ॥३६॥
अथवा परमेशानि सदैनां परिचिन्तयेत् ।
देव्युवाच
इदानीं श्रोतुमिच्छामि कथमत्राधिकारिता ॥ ३७ ॥
वेदव्रतविहीनानां व्रात्यादीनां कृतागसाम् ।
तथैवानुपनीतानां स्त्रीशूद्राणां भवेच्छिव ॥ ३८ ॥
कथमेते महादेव मुक्तिं गच्छन्त्यनुत्तमाम् ।
न विना ब्राह्मणं मुच्येद्देहब(न्ध्या?न्धा)दिति श्रुतिः ॥३६॥
ईश्वर उवाच
१ 'सूर्य मार्तण्डशेषे देवेशि भैरवं पदमीरयेत' ख पाठः । २ 'का' ख. पाठः ।

७२ गन्धर्वतन्त्रे ।
देवदारुवने पूर्वं ब्राह्मणानतिदुर्धियः ।
विलोक्य भगवान् विष्णुर्मामभ्येत्याभिवाद्य च ॥ ४० ॥
उपविष्टस्तदा देवः कारुण्यद्रुतचेतसा ।
पृष्टवान् मां महादेवि तेषां मुक्तेर्हि कारणम् ॥ ४१ ॥
भगवानुवाच
इमे दुर्मतयः सर्वे वेदाचारबहिष्कृताः ।
अन्यायमैथुने (श?स)क्ताः सुरापानपरायणाः ॥ ४२ ॥
आत्मज्ञानविहीनानां योगाभ्यासावहेलिनाम् ।
कथमेषां भवेन्मुक्तिस्तदुपायं वद प्रभो ॥ ४३ ॥
शूद्रादीनां कथं देव दीक्षायामधिकारिता ।
ईश्वर उवाच
अपि कृत्वा दुराचारान् पतितो वेदवर्जितः ॥ ४४ ॥
नारी शूद्रोऽथवा बालो यां ज्ञात्वा ब्राह्मणो भवेत् ।
यया विज्ञायते ब्रह्म सच्चिदानन्दमव्ययम् ॥ ४५ ॥
तामेव कथयाम्यद्य तवैव हृदि संस्थिताम् ।
चतुर्विंशतितत्त्वेन निर्मितां तत्स्वरूपिणीम् ॥ ४६ ॥
त्रिकारं चम्पकापीतं ब्रह्मविष्णुशिवात्मकम् । १
शतपत्रासनारूढं ध्यायेत् पद्मासनस्थितम् ॥ ५७ ॥
पुकारं चिन्तयेद्देवमतसीपुष्पसंनिभम् ।
पद्ममध्यस्थितं सौम्यमुपपातकनाशनम् ॥ ४८ ॥
रकारं कपिलं नित्यं कमलासनसंस्थितम् ।
ध्येयेच्छान्तं सुरश्रेष्ठ महापातकनाशनम् ॥ ४६ ॥
१ 'क्ति' क पाठ । २ 'ता' क पाठ । ३ 'य्यी' क पाठ ।

सप्तमः पटलः । ७३
सुकारं चिन्तयेद्देवमिन्द्रनीलसमप्रभम् ।
निर्दहेत् सर्वदुःखानि ग्रहरोगोद्भवानि च ॥ ५० ॥
न्दकारं वह्निदीप्ताभं चिन्त(ना?ये)त् पुरुषर्षभ ।
भ्रूणहत्याकृतं पापं तत्क्षणादेव नश्यति ॥ ५१ ॥
(रि?यै)कारं विमलं ध्यायेद् ब्रह्महत्याविनाशनम् ।
(रि?वि)कारं चिन्तयेद्विद्वान् शुद्धस्फटिकसंनिभम् ॥५२॥
पापं नश्यति तत्क्षिप्रमगम्यागमनोद्भवम् ।
(सु?ह्म)कारं चिन्तयेद्योगी शुद्धस्फटिकसंनिभम् ॥ ५३ ॥
अभक्ष्यभक्षणं पापं तत्क्षणादेव नश्यति ।
हेकारं तारकावर्णांमिन्दु(शेष?शीर्ष)विभूषितम् ॥ ५४ ॥
योगिनां वरदं ध्यायेद् ब्रह्महत्याविनाशनम् ।
काकारं कृष्णवर्णं च नीलमेघसमप्रभम् ॥ ५५ ॥
ध्यात्वा पुरुषशार्दूल पापं नाशयति ध्रुवम् ।
मेकारं रक्तवर्णं च कमलासनसंस्थितम् ॥ ५६ ॥
गोहत्यादिकृतं पापं नाशयत्येव तत्क्षणात् ।
श्वकारं परमं ध्यायेत् तप्तकाञ्चनसंनिभम् ॥ ५७ ॥
कमलासनमासीनं मन्त्री हत्याविमोचनम् ।
(रि?यै)कारं शुक्लवर्णं तु जातीपुष्पसमप्रभम् ॥ ५८ ॥
गुरुहत्याकृतं पापं ध्यात्वा दहति तत्क्षणात् ।
धीकारं चिन्तयेच्छुक्लं कुन्दपुष्पसमप्रभम् ॥ ५६ ॥
पितृमातृवधात् पापान्मुच्यते नात्र संशयः ।
१ 'य' क पाठ ।

७४ गन्धर्वतन्त्रे ।
मकारं पद्मरागाभं चिन्तयेद् दीप्ततेजसम् ॥ ६० ॥
पूर्वजन्मार्जितं पापं तत्क्षणादेव नश्यति ।
हिकारं शङ्खवर्णं तु पूर्णचन्द्रसमप्रभम् ॥ ६१ ॥
अशेषपापदहनं ध्यायेन्नित्यमिहाच्युत (?) ।
तत्कारं पाण्डुरं ध्यायेत् पद्मस्योपरि संस्थितम् ॥ ६२ ॥
प्रतिग्रहकृतं पापं स्मरणादेव नश्यति ।
नःकारं रक्तवर्णं तु इन्द्रगोपसमप्रभम् ॥ ६३ ॥
ध्यात्वा प्राणिवधं पापं निर्दहेज्जगदीश्वर ।
क्लिन्कारं रक्तवर्णं तु स्मरेद्द्वज्रसमप्रभम् ॥ ६४ ॥
निर्दहेत् सर्वपापानि नान्यैः पापैः प्रलिप्यते ।
नेकारं तु मुखं पूर्वमुद्यदर्कसमप्रभम् ॥ ६५ ॥
सकृद्ध्यात्वा सुरश्रेष्ठ स गच्छेदू ब्रह्मणः पदम् ।
नीलोत्पलदलश्यामं प्रकारं दक्षिणाननम् ॥ ६६ ॥
सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेद्वैष्णवं पदम् ।
सौम्यं गोरोचनापीतं चोकारं चोत्तराननम् ॥ ६७ ॥
सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेद्रुद्रतां पुनः ।
शरच्चन्द्रनिभं शान्तं दकारं पश्चिमाननम् ॥ ६८ ॥
सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेदैश्र्वरं पदम् ।
यात्कारं च शिरः प्रोक्तमूर्ध्वाननमितीरितम् ॥ ६९ ॥
सकृद् ध्यात्वा सुरश्रेष्ठ सदाशिवपुरं व्रजेत् ।
अक्षराणां तु सर्वेषां वक्ष्यन्ते देवताः क्रमात् ॥ ७० ॥
१ 'र्द्धा' क पाठ ।

सप्तमः पटलः । ७५
अग्निवायुसूर्यविद्युद्यमा वरुण एव च ।
बृहस्पतिस्तु पर्जन्य इन्द्रो गन्धर्व एव च ॥ ७१ ॥
पूषा शिवश्च त्वष्टा च वैसवश्च मरुत्तथा ।
सोमोऽङ्गिरा विश्वेदेवा अश्विनौ च प्रजापतिः ॥ ७२ ॥
सर्वदेवश्च रुद्रश्च ब्रह्मा विष्णुश्च देवताः ।
जपकाले चिन्तयित्वा तासां सायुज्यमाप्नुयात् ॥ ७३ ॥
ललितायास्त्रिभिर्बीजैस्त्रिपदीयं त्रयीमयी ।
एतज्ज्ञात्वा तु मेधावी जपहोमं करोति यः ॥ ७४ ॥
षडङ्गमविधायादौ ध्यायं(तां?स्तां)परदेवताम् ।
न भवेत् सूतकं तस्य मृतकं च न विद्यते ॥ ७५ ॥
यश्चैवं तु न जानाति गायत्रीं च यथाविधि ।
कथितं सूतकं तस्य मृतकं च मयानघ ॥ ७६ ॥
नैव दानफलं तस्य नच यज्ञफलं लभेत् ।
नच तीर्थफलं प्रोक्तं तस्यैवं सूतके सति ॥ ७७ ॥
गायत्र्येषा समाख्याता त्रैपुरी सर्वसिद्धिदा ।
गायन्तं त्रायते यस्माद् गायत्री तेन चोच्यते ॥ ७८ ॥
महापातकयुक्तोऽपि प्रजपेद् दशधा यदि ।
सत्यं सत्यं महादेवि मुक्तो भवति तत्क्षणात् ॥ ७९ ॥
अष्टोत्तरसहस्रं वै जपेदेनामनन्यधीः ।
सर्वपापविनिर्मुक्तो भवेत् पूजाधिकारवान् ॥ ८० ॥
जीवन्मुक्तो जामदग्न्यः शिष्यो मे घोरपातकैः ।
१ ‘तितु’ क पाठ । २ ‘वा’ ख पाठ । ३ ‘स्त्रीपदे’ ख पाठः ।
४ ‘शतावृत्त्या गायत्री जपते यदि’ ख पाठ ।

७६ गन्धर्वतन्त्रे
विमुक्तो मातृहत्याद्यैर्मीननाथस्तथा परः ॥ ८१ ॥
जेगीषव्यश्च चन्द्रश्च वासवश्च विमोचितः ।
गुरुतल्पगमनाद्यैस्तथागस्त्यः प्रमोचितः ॥ ८२ ॥
अभक्ष्यभक्षणात् पापादनयैव विमोचितः ।
चाण्डालगमनाद्यैश्च वशिष्ठश्चापि मोचितः ॥ ८३ ॥
दत्तात्रेयः सुरापानाज्ज्वलनः सर्वभक्षणात् ।
त एव ब्रह्मणाः सर्वे विष्णुना प्रभविष्णुना ॥ ८४ ॥
अनयैव महादेवि सर्व एव प्रमोचिताः ।
देव्युवाच
धन्या चानुगृहीतास्मि त्वया नाथेन शंकर ॥ ८५ ॥
निःसंशयास्मि देवेश भ्रमो द्वैतश्च मे हतः ।
कतिधा सा भवेद् देव तदिदानीं वद प्रभो ॥ ८६ ॥
ईश्वर उवाच
एकैव सा महादेवि बहुधा भिन्नतां गता ।
सौरी च वैष्णवी चैव शाक्ती ब्राह्म्यथ शांभवी ॥ ८७ ॥
तत्तन्त्रे ताः प्रयोक्तव्यास्त्रैपुरीयं प्रकाशिता ।
तर्पणं च त्रिधा प्रोक्तं सांप्रतं तच्छृणु(ख?ष्व)मे ॥८८॥
सोमार्कानलसंघट्टात् स्खलितं यत् परामृतम् ।
तेनामृतेन दिव्येन तर्पयेत् परदेवताम् ॥ ८६ ॥
आन्तरं तर्पणं ह्येतन्मानसं शृणु सांप्रतम् ।
आत्मानं तन्मयं स्मृत्वा सदा संतर्पितात्मवान् ॥ ६० ॥
सर्वदा सर्वकार्येषु संतुष्टः स्थिरमानसः ।
उपविश्य शुचौ देशे ततस्तर्पणमारभेत् ॥ ६१ ॥

सप्तमः पटलः । ७७
तर्पयित्वा गुरूनादौ मूलदेवीं च तर्पयेत् ।
बीजद्वयं ततो विद्या हुतभुग्दयितान्विता ॥ ६२ ॥
ततो देव्याः स्वनामान्ते तर्पयामि नमःपदम् ।
देवान् पितॄन् ऋषींश्चैव तर्पयेत् कुलवारिणा ॥ ६३ ॥
तर्पणादौ प्रयुञ्जीत तृप्यतां वृद्धभैरवः ।
तथैव परमेशानि विष्णुं रुद्रं प्रजापतिम् ॥ ६४ ॥
एवं ऋषीन् प्रतर्प्याथ पितॄनपि च भैरवान् ।
तृप्यतां सुन्दरी माता पिता भैरवस्तृप्यताम् ॥ ६५॥
आदौ त्रिपुरपूर्वं च तर्पणे विनियोजयेत् ।
श्राद्धे विवाहे दाने च स्नाने चानङ्गपूजने ॥ ६६ ॥
सर्वदा सर्वकार्येषु तान्त्रिके वैदिके तथा ।
त्रिपुरभैरवं चैव स्मरेत् त्रिपुरसुन्दरीम् ॥ ६७ ॥
स्वविद्यां संस्मरन् कुर्यात् क्रियां सर्वत्र चोदिताम् ।
द्विजातीनां च संस्कारो वेदोक्तः समुदाहृतः ॥ ६८ ॥
तेषां तु तत्र तत्रापि विद्यया विधिमाचरेत् ।
अन्येषामपि वर्णानां विद्ययैव समापयेत् ॥ ६९ ॥
विद्यया संस्कृतो यस्तु स एव ब्राह्मणो मतः ।
निघ(नो?ने)विद्यया दाहो विद्ययान्यत् समाचरेत् ॥१००॥
तेनैव तन्मयी सिद्धिः सर्वत्र भवति ध्रुवम् ।
यावन्न दीयते देवि सूर्यायार्घ्यं विधानतः ॥ १०१ ॥
विधिना विहिता पूजा तावत् केन प्रगृह्यते ।
मार्तण्डभैरवायार्घ्यं दूर्वाभिः सिततण्डुलैः ॥ १०२ ॥
१ 'यात्' क पाठः । २ 'शि' क पाठ. ।

७८ गन्धर्वतन्त्रे ।
रक्तपुष्पैश्चन्दनैश्च सगणाय निवेदयेत् ।
‡ शिवबीजं वह्निसंस्थं वामनेत्रविभूषितम् ॥ १०३ ॥
नादबिन्दुकलायुक्तं हंसःपदमथो लिखेत् ।
मार्तण्डभैरवायेति प्रकाशशक्ति चालिखेत् ॥ १०४ ॥
सहितायेति चोक्त्वा वै इदमर्घ्यमतः परम् ।
वह्निजायान्वितं कृत्वा सूर्यायार्घ्यं निवेदयेत् ॥ १०५ ॥
न दद्याद्भास्करायार्घ्यं शंखतोयैर्महेश्वरि ।
सर्वदेवमयं सूर्य्यं सर्वदेवनमस्कृतम् ॥ १०६ ॥
पूजयित्वा विधानेन प्रदक्षिणमनुव्रजन् ।
प्रणम्य भगवन्तं वै सर्वपापैः प्रमुच्यते ॥ १०७ ॥
यः सदा पूजयेद् देवं दृष्ट्वा वा प्रणमेत् प्रभुम् ।
पूजितं दैवतत्वेन ब्रह्माण्डान्तरगोचरम् ॥ १०८ ॥
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां यदुदाहृतम् ।
सकृत् प्रदक्षिणां देवि दद्यात् तत्फलमञ्जसा ॥ १०६ ॥
तीर्थानां दर्शने यद्यत् तत्तद्भास्करदर्शनात् ।
सर्वतीर्थामृतैः स्नातो स सदा सूर्यरश्मिभिः ॥ ११० ॥
अथ त्रिपुरगायत्र्या देव्यै चार्घ्यं निवेदयेत् ।
सूर्यमण्डलसंस्थायै पूर्वोक्तध्यानयोगतः ॥ १११ ॥
चक्रराजं हृदि ध्यात्वा तत्र देवीं समानयेत् ।
अष्टोत्तरशतावृत्त्या जपन् विद्यामनन्यधीः ॥ ११२ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे स्नानसंध्योपासनादिविधिर्नाम
सप्तमः पटलः ॥ ७ ॥
१ 'य' ख पाठ । ‡ शिवेत्यादिना ह्रींबीजोद्धार कृत । § गुप्तदीक्षाविषये इद बोध्यम् ।