सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 143, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 143

६२. गन्धर्वतन्त्रे ।
इति विद्यात् स्वमात्मानं समाधिः परिकीर्तितः ॥ ७६ ॥
समाधौ स्वस्वरूपोऽसौ तुरीयस्वर एव हि ।
तुरीयांशः पराशक्तिर्बिन्द्वात्मा ब्रह्म केवलम् ॥ ७७ ॥
प्रज्ञात्मानं वदन्त्येके एकेऽपि ब्रह्म केवलम् ।
जीवमीश्वरभावेन विद्यात् सोऽहमिति ध्रुवम् ॥ ७८ ॥
यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ।
समुद्रे लीयते तद्वज्जगदात्मनि लीयते ॥ ७९ ॥
यस्यैवं परमात्मा [स?स्वा]पृथग्भूतः प्रकाशितः ।
स याति परं भावं स्वयं साक्षात् परामृतम् ॥ ८० ॥
यदा मनसि चैतन्यं भाति सर्वात्मकं सदा ।
योगिनोऽव्यवधानेन तदा संपद्यते स्वयं ॥ ८१ ॥
यदा भूतानि सर्वाणि स्वात्मन्येवाभिपश्यति ।
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते [स?त]दा ॥ ८२ ॥
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।
एकीभूतः परेणासौ तदा भवति केवलः ॥ ८३ ॥
यदौ जन्मजरादुःखव्याधीनामेव भेषजम् ।
केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा <sup>१</sup>शिवः ॥ ८४ ॥
तस्माद्विज्ञानतो मुक्तिर्नान्यथा भवकोटिभिः ।
मन्त्रौषधिबलैर्यद्वज्जीर्यते भक्षितं विषम् ॥ ८५ ॥
तद्वत् सर्वाणि कर्माणि जीर्यन्ति ज्ञानिनः क्षणात् ।
देहाभिमाने गलिते विदिते परमात्मनि ॥ ८६ ॥
१ 'प्रिये' ख पाठ । २ 'सदा' क. पाठ. ।