सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 424, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 424

चत्वारिंशः पटलः । ३४३
निसर्गदुर्गमः कौलः सुगम इव भात्यसौ ।
ब्रह्मविष्णुशिवादीनां प्रभवो यत्र कीर्तितः ॥ ३० ॥
तद्रूपं मे परं धाम ब्रह्मणो व्यक्तजन्मनः ।
सद्गुरोः कृपया लब्धौ तत्र पूजा महोदया ॥ ३१ ॥
ब्रह्मप्रकाशकं तत्त तन्निष्ठं ब्रह्म चोच्यते ।
स्वयं प्रकाशते ब्रह्म यस्य दर्शनतः शिवः ॥ ३२ ॥
स्पर्शनात्पूजयेद्य॑स्य ब्रह्मरायेव निमज्जति ।
आनन्दाब्धौ निमज्ज्येव भवाब्धि स न पश्यति ॥ ३३ ॥
कौलो धर्मस्त्वया प्रोक्तस्तमासाद्य कुलं यजेत् ।
मद्रूपा परमा शक्तिर्लिङ्गरूपी भवान् प्रभुः ॥ ३४ ॥
शुक्रं शिवो रजः शक्तिरिति जानीहि शंकर ।
त्वया मया जगदिदं परिपूर्णं महेश्वर ॥ ३५ ॥
एकैवाहं परं ब्रह्म शिवशक्तीति भेदतः ।
संप्रभिन्नं जगदिदं भ्रम एवात्र कारणम् ॥ ३६ ॥
त्वमहं चेति यत्प्रोक्तं तदविद्या(श्र?भ्र)मो महान् ।
तत्त्वमसि स एवाहं न त्वं नाहं तदेव यत् ॥ ३७ ॥
आवयोर्नहि भेदोऽस्ति युक्त्या बुध्यस्व शंकर ।
मदन्तेस्त्वयि संलीने त्वमेवाहं भवान् प्रभुः ॥ ३८ ॥
आवयोः सरलाकारमभून्मिलितयोः शिव ।
तन्महामोक्षमाप्नोति भोगेनैव महेश्वर ॥ ४६ ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
पूजनान्नहि मे प्रीतिर्यदिहान्यप्रकारतः ॥ ४० ॥


१ 'व' क पाठ । २ 'तम्' क पाठ. । ३ 'रुध्वा' क पाठ । ४ 'ना' ख पाठ ।
५ 'त्वा' क पाठ ।