सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 371, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 371

२६० गन्धर्वतन्त्रे ।
लाजा मुष्टिप्रमाणाः स्युर्घृतं कर्षप्रमाणकम् ।
चुल्लुकार्धं मधु क्षीरमन्नं ग्रासमितं भवेत् ॥ २८ ॥
समग्रैश्च सखण्डैश्च फलानां च यथेच्छया ।
रम्भाफलं चतुःखण्डं लघु चेत् खण्डितं नहि ॥ २६ ॥
नारिकेलस्य खण्डं तु स्थूलं कुर्यान्मनःप्रियम् ।
प[र?र्व]स्थाने चेत्तुदण्डं मनःसंतोषकारकम् ॥ ३० ॥
द्राक्षाफलं समग्रं स्याद् गुञ्जामानं ततो भवेत् ।
कर्पूरकौ(षि ? शि)कादीनां ꕤ मनःसंतोषकारकम् ॥ ३१ ॥
एतदाहुतिमानं च कथितं सर्वसिद्धिकृत् ।
किंशुकैः पापसंघातनाशकैरथवा प्रिये ॥ ३२ ॥
नानाद्रव्यैः पृथग्भूतैः संगृहीतैर्वरानने ।
यथाशक्त्या तु मिलितैर्होमं कुर्याद्विचक्षणः ॥
सर्वविघ्नसमूहं तन्नाशयेन्नात्र संशयः ॥ ३३ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे होमतद्रव्य-
विधिनिरूपणं नामैकत्रिंशः पटलः ॥ ३१ ॥
ꕤ कौशिको मृगमद आदिना घुसृण ग्राह्यम् ।
१ 'हा' क पाठ ।