सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 327, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 327

१४६ गन्धर्वतन्त्रे ।
एवमादीनि सर्वाणि [स्पृ?दृ]ष्ट्वा सिद्धिमवाप्नुयात् ।
चाण्डालं गर्दभं काकं गर्तं शून्यममङ्गलम् ॥ ८३ ॥
तैलाभ्यक्तं नरं नग्नं शुष्कवृक्षं सकण्टकम् ।
प्रासादम[ङ्गी?त]लं दृष्ट्वा नरो रोगमवाप्नुयात् ॥ ८४ ॥
दृष्ट्वा दुःस्वप्नकं चैव होमात् सिद्धिमवाप्नुयात् ।
शुभे शुभं वदेत् तस्य जुहुयादशुभे[शुभ?]शतम् ।
अस्त्रेणेति क्रमात् प्रोक्तो विधिः शिष्योऽधिवास[र?ने ॥ ८५॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे गुर्वादिलक्षणदीक्षानिरूपणं
षड्विंशः पटलः ॥ २६ ॥
१ 'शख्या' क पाठ ।