सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 209, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 209

६.] गदनिग्रहः । १८९
परं भगन्दरप्लीहशोषकासामयापहः ।
अग्निसंदीपनः पथ्यो बाधिर्यस्थौल्यनाशनः ॥ २८० ॥
मस्तवासव इति ख्यातो लेखनो मेदुरे हितः ।
ज्वरे कुब्जकासवः ।
शतं कुब्जकमूलस्य मृद्वीकार्धशतं तथा ॥ २८१ ॥
मधूकपुष्पकाश्मर्यभागान् दशपलोन्मितान् ।
चतुर्द्रोणेऽम्भसः पक्त्वा शीते पादावशेषिते ॥ २८२ ॥
धातक्या विंशतिपलं गुडस्य च शतत्रयम् ।
कनकस्य तु चत्वारि व्योषं कङ्कोलमेव च ॥ २८३ ॥
एलात्वक्पत्रजातीनां लवङ्गस्य तथैव च ।
भागाः पलप्रमाणांश्च सूक्ष्मचूर्णं तु कारयेत् ॥ २८४ ॥
कौब्जमूलासवो ह्येष मासमात्रं विधारितः ।
शमयेत्सन्निपातोत्थान् ज्वरान् सर्वान् न संशयः ॥२८५॥
नालिकेरासवः ।
नालिकेरोदकं चैव द्रोणमात्रं प्रदापयेत् ।
इक्षो रसस्य द्रोणार्धं शाल्मल्या रसप्रस्थकम् ॥ २८६ ॥
दशमूलरसस्यापि प्रस्थमात्रं तथैव च ।
घृतभाण्डे विनिक्षिप्य मध्ये चूर्णं निवेशयेत् ॥ २८७ ॥
चातुर्जातकधातक्योः पलान् षोडशसंख्यया ।
शाणमात्रा तु कस्तूरी केशरं तगरं तथा ॥ २८८ ॥
चन्दनं देवपुष्पं च पलमात्रं पृथक् पृथक् ।
मासादूर्ध्वं पिबेच्चामुं रूपे कामसमो भवेत् ॥ ८९ ॥
वृद्धोऽपि तरुणीं गच्छेत् षण्ढोऽपि पुरुषायते ।
वलीपलितसंत्यक्तः शतायुश्चभवेन्नरः ॥ २९० ॥
नालिकेरासवः प्रोक्तः शम्भुना परमेष्ठिना ।
कूष्माण्डासवः ।
कूष्माण्डं जर्जरीकृत्य रसमादाय यत्नतः ॥ २९१ ॥