दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 92, कुल 474 में से
संदर्भ में पढ़ें६२ दशकुमारचरितम्। [ पूर्वपीठिकायां
करुणाकृष्टचेतास्तमवदत्—'राजन्, इह जन्मनि भवतः शापफलाभावो
भवतु । मद्वचनस्यामोघतया भाविनि जनने शरीरान्तरं गतायाः अस्याः
सरसिजाक्ष्या रसेन रमणो भूत्वा मुहूर्त्तद्वयं मच्छरणयुगलबन्धकारितया
मासद्वयं शृङ्खलानिगडितचरणो रमणीवियोगविषादमनुभूय पश्चादनेक-
कालं वल्लभया सह राज्यसुखं लभस्व' इति ।
(१४) तदनु जातिस्मरत्वमपि तयोरन्वगृह्णात् । 'तस्मान्मरालबन्धनं
न करणीयं त्वया' इति । सापि भर्तृदारिका तद्वचनाकर्णनाभिज्ञातस्वपुरा-
तनजननवृत्तान्ता 'नूनमयं मत्प्राणवल्लभः' इति मनसि जानती रागपल्ल-
वितमानसा समन्दहासमवोचत्—'सौम्य, पुरा शाम्बो यज्ञवतीसन्देशपरि-
पालनाय तथाविधं हंसबन्धनमकार्षीत् । तथा हि लोके पण्डिता अपि
दाक्षिण्येनाकार्यं कुर्वन्ति' इति । कन्याकुमारावेवमन्योन्यपुरातनजनन-
भविष्यति । जनने जन्मनि । ( जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भव इत्यमरः ) ।
शरीरान्तरङ्गतायाः अन्यदेहं प्राप्तायाः। रसेन अनुरागेण । रमणो वल्लभः। मुहू-
र्त्तैति-त्वया तु मुहूर्त्तद्वयमेव मच्छरणयुगलस्य बन्धनं कृतं तेन पुनर्मासद्वयं तत्फलं
त्वया भोक्तव्यमित्यर्थः । शृङ्खलया निगडितौ बद्धौ चरणौ यस्य सः । अनेककालं
दीर्घकालं यावत् ।
(१४) अन्वगृह्णात् अनुज्ञातवान् । तद्वचनस्य राजवाहनवाक्यस्य आकर्णनेन
श्रवणेन अभिज्ञातः स्मृतः स्वपुरातनजननस्य निजपूर्वजन्मनो वृत्तान्तो यया सा ।
रागेणानुरागेण पल्लवितं प्रफुल्लं मानसं यस्याः सा । दाक्षिण्येन परच्छन्दानुरोधेन ।
अकार्यमनुचितम् । कन्याकुमारौ अवन्तिसुन्दरीराजवाहनौ । एवमित्थम् । अन्यो-
होगा । उस समय तुम दोनोंको इस जीवनकी स्मृति भी बनी रहेगी तथा मुझे दो मुहूर्त्त
बाँधा है अतः तुम्हें दो मास शृङ्खलाबद्ध होकर रमणीवियोग अवश्य सहना पड़ेगा ।
तत्पश्चात् उस रमणीके साथ अति कालतक राज्यसुख भोगोगे ।
(१४) फिर तुरत ही उन तपस्वीने एक और वरदान देकर कहा 'जाओ तुम
लोगोंको जाति-स्मरत्व' रहे ( पूर्वजन्मकी बात याद रहे )। अतः हे राजपुत्री ! आपसे
कहता हूँ कि आप राजहंसको न बाँधें । राजकुमारीको भी राजकुमारकी बातें सुन-
कर पूर्व जीवनकी स्मृति हो आई और दृढ़ प्रतीति हो गयी कि ये ही मेरे प्राणप्रिय
उस जीवनके हैं । निश्चयानन्तर उसका मुख-कमल विकसित हो गया तथा वह
प्रेमसे हँसकर कहने लगी-हे सौम्य ! उस समय राजा शाम्बने रानी यज्ञवतीके
आदेशानुसार राजहंसको पकड़कर बाँधा था । इससे विदित होता है कि