दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 470, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
४७० दशकुमारचरितम्।
वद्भक्तिमुपलप्स्यते। भवन्तश्च पितृसन्निधौ न सुखमवाप्स्यन्ति' इति।
महर्षेराज्ञामधिगम्य ते पितुर्बानप्रस्थाश्रमाधिगमप्रतिषेधाग्रहमत्यजन्।
राजवाहनं पुष्पपुरेऽवस्थाप्य तदनुज्ञया सर्वेऽपि परिजनाः स्वानि स्वानि
राज्यानि प्रतिपाल्य स्वेच्छया पित्रोः समीपे गतागतमकुर्वन्। एवमव-
स्थितास्ते राजवाहनप्रमुखाः सर्वेऽपि कुमारा राजवाहनाज्ञया सर्वमपि
वसुधावलंयं न्यायेन परिपालयन्तः परस्परमैकमत्येन वर्तमानाः पुरंदर-
प्रभृतिभिरप्यतिदुर्लभानि राज्यसुखान्वन्वभूवन्।
इति श्रीमद्दामहोपाध्यायकविकुलसार्वभौमनिखिलविद्याकुमुदिनी-
शर्वरीश्वरसरस्वतीनिःश्वसितकविदण्डिपण्डितविरचितं
दशकुमारचरितं सम्पूर्णम्।
वयसि वर्तमान इति भावः। न सुखमवाप्स्यन्तीत्यस्यायं भावः—पितुः समीपे-
ऽवस्थानेन भवतां स्वाधीनता न भविष्यति। स्वाधीनस्य यथा सुखं न तथा
पराधीनस्येति। वानप्रस्थाश्रमाधिगमस्य वानप्रस्थाश्रमग्रहणस्य प्रतिषेधो निषे-
धस्तस्याग्रहो निर्बन्धस्तम्। गतागतं यातायाताम्। वसुधावलंयं भूमण्डलम्।
पूर्वबङ्गजनेद्योतिग्रामेऽस्मिन् धानुकशव्यके। कुब्जात्रेयमणवंश-प्रादुर्भूतो द्विजाग्रणीः॥
शशिभूषणतामाप्तास्तातो मे शशिभूषणः। जननी शारदादेवी काश्यापान्वयसम्भवा॥
महामहाद्युपाध्यायो द्वितीय इव गौतमः। स वामाचरणन्यायाचार्यवर्यो ममाग्रजः॥
ताराचरणनामाहं किङ्करोऽस्मि विपश्चिताम्। व्याख्यां दशकुमारस्य कौतुकेन व्यधामिमाम्॥
शाकेऽग्निरसस्र्त्विन्दुमिते मकरसंक्रमे। विश्वेशानुग्रहात्काश्यां समाप्तिसमयमागतम्॥
इति श्रीताराचरणभट्टाचार्यकृता बालविबोधिनी टीका समाप्ता।
आश्रम सेवन करनेसे न रोका—अपने हठको त्याग दिया। राजवाहनको पुष्पपुरमें
राज्यसिंहासनपर बैठाकर वे सब अपने-अपने राज्यका शासन करने लगे। स्वेच्छासे
कभी-कभी पिता-माताके दर्शनार्थ आ जाया करते। इस रीति से वे सभी कुमार राज्य-
वाहनकी आज्ञासे पूरे भूमण्डलका न्यायसे शासन करने लगे। एकमत होकर राज्य
करते हुए उन लोगों द्वारा, इन्द्रादि देवोंको जो सुख प्राप्त नहीं होते, वे अति दुर्लभ सुख-
भोग भोगे गये।
इस प्रकार पं० श्री केदारनाथशर्मा कृत 'बालक्रीड़ा' हिन्दी टीका समाप्त हुई।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu