सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 17, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 17

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७
निशान्तवातलब्धसंज्ञाः कथंचिदाश्वस्य राजानं समन्तादन्वीक्ष्यानवलो-
कितवन्तो दैन्यवन्तो देवीमवापुः ।
( ३५ ) वसुमती तु तेभ्यो निखिलसैन्यक्षतिं राज्ञोऽदृश्यत्वं चाकर्ण्यो-
द्विग्ना शोकसागरमग्ना रमणानुगमने मतिं व्यधत्त । .
( ३६ ) 'कल्याणि, भूरमणमरणमनिश्चितम् । किञ्च दैवज्ञकथितो
मथितोद्धतारातिः सार्वभौमोऽभिरामो भविता सुकुमारः कुमारस्त्वदुदरे
वसति । तस्माद्य तव मरणमनुचितम्' इति भूपितैभाषितैरमात्यपुरोहि-
तैरनुनीयमानया तया क्षणं क्षणहीनया तूष्णीमस्थायि ।
येषां ते । निशान्तवातेन प्राभातिकवायुना लब्धा पुनः प्राप्ता संज्ञा चैतन्यं यैस्ते ।
समन्तादितस्ततः । अन्वीक्ष्य अन्विष्य । दैन्यवन्तोऽतिविषण्णाः । देवीं महिषीं
वसुमतीम् ।
( ३५ ) तेभ्योऽमात्येभ्यः । तत्सकाशादित्यर्थः । निखिलसैन्यक्षतिं सकलसैन्य-
विनाशम् । अदृश्यत्वमन्तर्धानम् । आकर्ण्य श्रुत्वा । उद्विग्ना व्याकुला । रमणानुग-
मने पतिमनु मरणे मतिं व्यधत्त निश्चयं कृतवती ।
( ३६ ) कल्याणि हे मङ्गलमयि ! राज्ञीसम्बोधनमेतत् । भूरमणस्य राज्ञो मरणं
मृत्युः दैवज्ञैर्ज्योतिषिकैः । कथित आदिष्टः । मथिता मर्दिता उद्धता दृप्ता अरातयः
शत्रवो येन सः । मथिष्यमाणा इत्यर्थे मथिता इति । सार्वभौमश्चक्रवर्त्ती । अभिरामो
मनोहरः । भविता भावी जनिष्यमाण इत्यर्थः । सुकुमारः कोमलः । कुमारः पुत्रः ।
तस्मात् गर्भवत्त्वात् । अनुचितमयुक्तम् । भूषितमलङ्कृतं शोभनमिति भावःभाषितं
कथनं येषां तैः । क्षणहीनया उत्सवशून्यया । अस्थायि स्थितम् । स्थाधातोर्भावे लुङ् ।
प्रातःकालिक शीतल पवनके स्पर्शसे उद्बोधित होकर स्वस्थ हो गये । और चारों ओर
राजा राजहंसको खोजने लगे । किन्तु, जब वे उन्हें न पा सके तो खिन्न होकर महारानीके
समीप पहुँचे ।
( ३५ ) महारानी वसुमती सेनाकी क्षति तथा राजाकी अदृश्यताकी बातें मन्त्रियोंके
मुखोंसे जानकर अति दुःखी हुई और उद्विग्नमनसे शोकसागरमें निमग्न होकर पतिका
अनुगमग करनेका निश्चय कर लिया - मरनेको उद्यत हो गयीं ।
( ३६ ) इसपर अमात्योंने एकत्र होकर कहा—'हे कल्याणि ! प्रथमतः तो राजाका
मरण अनिश्चित है तथा दूसरे दैवज्ञोंके कथनानुसार आपके उदरमें सुकुमार राजकुमार है
जो चक्रवर्ती एवं शत्रुओंको नाश करनेवाला होगा । अतः आपका मरना इस समय
अनुचित है। इस प्रकारके प्ररोचक वचनोंको श्रवणकर-मन्त्रियों और पुरोहितोंके समझाने
पर रानी वसुमती उत्सवहीना होकर कुछ भी उत्तर न दे सकीं । चुप होकर बैठी रहीं।
२ द० कृ० पृ०