दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 16, कुल 474 में से
संदर्भ में पढ़ें१६ दशकुमारचरितम् । [ पूर्वपीठिकायां
स्थैयेचर्याञ्चितसमरतुलितामरेश्वरस्य मगधेश्वरस्य तस्योपरि पुरा पुरा-
रातिदत्तां गदां प्राहिणोत् ।
( ३१ ) निशितशरनिकरशकलीकृतापि सा पशुपतिशासनस्यावन्ध्य-
तया सूतं निहत्य रथस्थं राजानं मूर्च्छितमकार्षीत् ।
( ३२ ) ततो वीतप्रग्रहा अक्षतविग्रहा वाहा रथमादाय दैवगत्यान्तः-
पुरशरण्यं महारण्यं प्राविशन् ।
( ३३ ) मालवनाथो जयलक्ष्मीसनाथो मगधराज्यं प्राज्यं समाक्रम्य
पुष्पपुरमध्यक्षतिष्ठत् ।
( ३४ ) तत्र हेतिततिहतिश्रान्ता अमात्या दैवगत्यानुत्क्रान्तजीविता
धानां नानाप्रकाराणामायुधानास्त्राणां स्थैर्येण स्थिरताया चर्यया प्रयोगेणाञ्चिते
युक्ते समरे तुलितः समीकृतोऽमरेश्वर इन्द्रो येन तस्य । पुरा प्राक् । पुरारातिवृत्तां
महेश्वरार्पिताम् । प्राहिणोत् न्यक्षिपत् प्राहरदित्यर्थः ।
( ३१ ) निशितेन तीक्ष्णेन शरनिकरेण बाणसमूहेन शकलीकृता खण्डीकृतापि ।
सा गदा । पशुपतिशासनस्य शिववाक्यस्य । अवन्ध्यतया अव्यर्थतया । सूतं
सारथिम् ।
( ३२ ) वीता मुक्ताः प्रग्रहा रश्मयो येषां ते । अक्षतो विग्रहः शरीरं येषां ते ।
वाहा अश्वाः । 'वाजिवाहार्वगन्धर्वे'त्यमरः । अन्तःपुरशरण्यं राजस्त्रीणामाश्रयभूतम् ।
( ३३ ) जयलक्ष्म्या विजयश्रिया सनाथो युक्तः । प्राज्यं प्रभूतं विशालमित्यर्थः ।
( ३४ ) तत्र महारण्ये । हेतीनामस्त्राणां ततिभिः समुदायैर्हत्या प्रहारेण
श्रान्ताः क्लान्ताः । दैवगत्या शुभादृष्टवशेन । अनुत्क्रान्तं न निर्गतं जीवितं प्राणा
मालवेश राजा मानसारने अनेकों प्रकारके शस्त्रोंके प्रयोग करनेमें निपुण एवं इन्द्रके समान
योद्धा मगधेन्द्रके ऊपर महेश्वरसे प्राप्त गदा मार दी ।
( ३१ ) यद्यपि मगधेशने अपने तीक्ष्ण बाणोंके प्रहारोंसे उस गदा को खण्ड-खण्ड कर
काट दिया । परन्तु भगवान् शिवजीके प्रभावसे उस गदाने रथके सारथीको मारकर
मगधेशको भी मूर्च्छित कर दिया ।
( ३२ ) तब रथके घोड़ोंने, जो वीत-प्रग्रह ( बेलगाम ) तथा अक्षतविग्रह थे, उस रथको
खींचते-खिंचाते उसी स्थानपर सौभाग्यसे ला दिया जहाँपर अन्तःपुरकी रमणियाँ सेनाकी
रक्षामें थी—अर्थात् विन्ध्याटवी पहुँचा दिया ।
( ३३ ) मालवेशने भी विजयश्रीको प्राप्त करके प्रवृद्ध राज्य मगधकी राजधानी पुष्पपुरी
प्रवेश किया और राज्यशासन करने लगा ।
( ३४ ) युद्धमें शस्त्रोंके प्रहारोंसे ताडित होकर मूर्च्छित परन्तु दैवगतिसे जीवित मन्त्रि
Nepal Sanskrit University, Balmeeki Campus, Kathmandu