दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 13, कुल 474 में से
संदर्भ में पढ़ेंप्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १३
(२१) तदनुज्ञातेन तेन स संयमी नृपसमीपमनायि ।
(२२) भूपतिरायान्तं तं विलोक्य सम्यग्ज्ञाततदीयगूढचारभावो
निखिलमनुचरनिकरं विसृज्य मन्त्रिजनसमेतः प्रणतमेनं मन्दहासम-
भाषत-'ननु तापस ! देशं सापदेशं भ्रमन्भवांस्तत्र तत्र भवदभिज्ञातं
कथयतु' इति ।
(२३) तेनाभाषि भूभ्रमणबलिना प्राञ्जलिना-'देव ! शिरसि देव-
स्याज्ञामादायैनं निर्दोषं वेषं स्वीकृत्य मालवेन्द्रनगरं प्रविश्य तत्र गूढतरं
वर्तमानस्तस्य राज्ञः समस्तमुदन्तजातं विदित्वा प्रत्यागमम् ।
(२४) मानी मानसारः स्वसैनिकायुष्मत्तान्तराये संप्राये भवतः
(२१) तदनुमतेन राज्ञादिष्टेन । तेन द्वारपालेन । संयमी यतिः । अनायि नीतः
(२२) सम्यक् सुष्ठु ज्ञातोऽवगतस्तदीयस्तत्सम्बन्धी गूढः प्रच्छन्नश्चारभावः
चरत्वं येन सः । प्रणतं कृतनमस्कारम् । एनं यतिम् । मन्दहासं क्रियाविशेषणमि-
दम् । ईषद्व हसन्नित्यर्थः । सापदेशं सकपटम् । यतिवेषच्छलेनेत्यर्थः । तत्र तत्र तेषु
तेषु स्थानेषु । भवता त्वया अभिज्ञातमवगतम् ।
(२३) अभाषि कथितम् । भुवः पृथिव्याः भ्रमणे पर्यटनविषये बली समर्थस्ते-
न । प्राञ्जलिना वद्धाञ्जलिनेति तेनेत्यस्य विशेषणम् । देव राजन् । आदायाङ्गीकृत्य
निर्दोषं दोषवर्जितम् । वेषं यतिरूपम् । तत्र मालवेन्द्रनगरे । गूढतरमतिशयेन गूढं
यथा स्यात्तथा । उदन्तजातं वृत्तान्तसमूहम् ।
(२४) स्वसैनिकानां निजभटानामायुष्मत्ताया आयुष्यस्यान्तरायो विघ्नस्तस्मिन्
करके कहा- हे स्वामिन् ! आपके द्वारा पूजार्ह कोई संन्यासी आपसे भेंट करने द्वार पर आकर
उपस्थित हुए हैं ।
(२१) राजाज्ञा होनेपर द्वारपाल उस संन्यासीको राजसभामें राजाके पास ले आया ।
(२२) राजाने उसे देखकर तथा भली भाँति यह ज्ञात करके कि यह तो हमारा
गुप्तचर है, राजसभासे सभी नौकर-चाकरोंको हटवा दिया । पुनः मन्त्रियोंसहित
प्रणाम करके हँसकर पूछा-हे यतिवर ! इस छद्मवेशमें देशमें विचरण करते हुए आपने जो
बात जानी हो वह कह दें ।
(२३) पृथ्वीभ्रमणमें समर्थ उस यतिने प्राञ्जलि होकर कहा-'हे देव ! आपकी आज्ञाको
शिरोधार्य करके मैं इस निर्दोष वेषको धारणकर मालवेशके नगरमें प्रविष्ट हुआ । वहाँपर
गुप्तरूपसे निवासकर समस्त वृत्तान्तको ज्ञात करके आया हूँ ।
(२४) वृत्त यह है कि अभिमानी मानसार युद्धमें अपने वीरोंके नाशसे तथा आपदा१