सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 12, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 12

१२ दशकुमारचरितम् । [ पूर्वपीठिकायां
नारायण सकललोकैककारणं निरन्तरमर्चयामास ।
(१७) अथ कदाचित्तदग्रमहिषी 'देवि देवेन कल्पवल्लीफलमाप्नुहि'
इति प्रभातसमये सुस्वप्नमवलोकितवती ।
(१८) सा तदा दयितमनोरथपुष्पभूतं गर्भमधत्त ।
(१९) राजापि सम्पन्न्यक्कृताखण्डलः सुहृन्नृपमण्डलं समाहूय
निजसम्पन्मनोरथानुरूपं देव्याः सीमन्तोत्सवं व्यधत्त ।
(२०) एकदा हितैः सुहृन्मन्त्रिपुरोहितैः सभायां सिंहासनासीनो
गुणैरहीनो ललाटतटन्यस्ताञ्जलिना द्वारपालेन व्यज्ञापि-‘देव ! देवसन्दर्श-
नलालसमानसः कोऽपि देवेन विरच्यार्चनाहों यतिर्द्वारदेशमध्यास्ते' इति ।
पुत्रकतया । एककारणमादिहेतुम् । गौरिला कुम्भिनी क्षमेत्यमरः ।
(१७) तस्य राजहंसस्य । अग्रमहिषी प्रधानराज्ञी । देवेन राज्ञा सह । कल्प-
वल्लीफलं कल्पलताफलम् ।
(१८) दयितस्य वल्लभस्य यो मनोरथः पुत्रप्राप्तिरूपोऽभिलाषस्तदेव फलं
तस्य पुष्पभूतं कुसुममिव भूतम् ।
(१९) सम्पदा समृद्ध्या न्यक्कृतस्तिरस्कृत आखण्डल इन्द्रो येन सः । समृ-
द्धया महेन्द्रादप्यधिकः। सुहृदां मित्रभूतानां नृपाणां मण्डलं समूहम्। स्वस्य सम्पदः
समृद्धेः मनोरथस्याभिलाषस्य चानुरूपं सदृशम् । सीमन्तोत्सवं संस्कारविशेषम् ।
(२०) हितैः हितकाङ्क्षिभिः । गुणैः राजगुणैरहीनोऽन्यूनः सर्वगुणसम्पन्न
इत्यर्थः । ललाटतटे भालदेशे न्यस्तो धृतोऽञ्जलिर्येन तेन । व्यज्ञापि निवेदितः ।
देवस्य भवतः सन्दर्शनेऽवलोकने लालसमभिलाषि मानसं यस्य सः । देवेन भवता।
विरच्यां कर्त्तव्यां अर्चनां पूजामर्हतीति । भवतोऽपि पूज्य इत्यर्थः । यतिः संन्यासी ।
कारण सम्पूर्ण लोकोंके आदिकारण नारायण भगवान्‌की निरन्तर पूजा में संलग्न हो गये ।
(१७) एक दिन प्रातःकाल उनकी महारानीने स्वप्नमें देखा कि उनसे किसीने आकर
कहा—'हे देवि ( राजा ) द्वारा प्रदत्त कल्पवृक्षका यह फल आप ग्रहण करें।'
(१८) उसके बाद उस महिषीने पतिके मनोरथ-पुष्पभूत गर्भको धारण किया ।
(१९) अपने ऐश्वर्य-विभवसे इन्द्रको भी पराभव दिखानेवाले उन राजा हंसवाहनने
सुहृद्र राजाओंके मण्डलोंको बुलाकर अपने मनोरथ तथा विभवके अनुसार महारानीका
सीमन्तोन्नयन संस्कार किया ।
(२०) एक दिन सर्वगुणसम्पन्न मगधपति अपने हितैषी मित्रों एवं मन्त्रियों तथा पुरो-
धाओंके साथ राजसभामें सिंहासनासीन थे। उसी समय द्वारपालने राजसभामें आकर प्रणाम