सामग्री पर जाएँ
सर्वकोश
चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

Charaka Samhita Part 1 with Hindi Translation

महर्षि चरक व अग्निवेश द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished639 पृष्ठ

पृष्ठ 360, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 360

३४२ चरकसंहिता [ अ० २७
कषायविशदत्वाच्च सौगन्ध्याच्च रुचिप्रदम् ॥ १४२ ॥
अवदंशक्षमं रूक्षं वातलं लवलीफलं ।
नीपं सभागकं पीलु तृणशून्यं१ विकङ्कतम् ॥ १४३ ॥
प्राचीनामलकं चैव दोषघ्नं गरहारि च ।
ऐङ्गुदं तिक्तमधुरं स्निग्धोष्णं कफवातजित् ॥ १४४ ॥
तिन्दुकं कफपित्तघ्नं कषायमधुरं लघु ।
विद्यादामलके सर्वान् रसाँल्लवणवर्जितान् ॥ १४५ ॥
स्वेद-मेदः-कफोत्क्लेद-पित्तरोग-विनाशनम् ।
रूक्षं स्वादु कषायाम्लं कफपित्तहरं परम् ॥ १४६ ॥
रसासृङ्-मांस-मेदो-जान्दोषान् हन्ति बिभीतकम् ।
स्वरभेद-कफोत्क्लेद-पित्तरोग-विनाशनम् ।
अम्लं कषायमधुरं वातघ्नं ग्राहि दीपनम् ॥ १४७ ॥
स्निग्धोष्णं दाडिमं हृद्यं कफपित्ताविरोधि च ।
रूक्षाम्लं दाडिमं यत्तु तत्पित्तानिलकोपनम् ॥ १४८ ॥
मधुरं पित्तनुद्दोषं तद्धि दाडिममुत्तमम् ।
वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्मणि शस्यते ॥ १४९ ॥
अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः ।
गुणैस्तैरेव संयुक्तं भेदनं त्वम्लवेतसम् ॥ १५० ॥
शू लेऽरुचौ विबन्धे च मन्देऽग्नौ मद्यविप्लवे ।
हिक्काकासे च श्वासे च वम्यां वर्चोगदेषु च ॥ १५१ ॥
वातश्लेष्मसमुत्थेषु सर्वेष्वेतेषु दिश्यते ।
केशरं मातुलुङ्गस्य लघु शीतमतोऽन्यथा ॥ १५२ ॥
गुर्वी त्वगस्य कटुका मारुतस्य च नाशिनी ।
रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः ॥ १५३ ॥
कर्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः ।
मधुरं किंचिदम्लं च हृद्यं भक्तप्ररोचनम् ॥ १५४ ॥
दुर्जरं वातशमनं नागरङ्गफलं गुरु ।
वातामाभिषुकाक्षोट-मकूलक-निकोचकाः ॥ १५५ ॥
गुरूष्णस्निग्धमधुराः सोष्माणो बलप्रदाः ।
वातघ्ना बृंहणा वृष्याः कफपित्ताभिवर्धनाः ॥ १५६ ॥
१. शतातकं, शतातकमिति च पाठौ ।