सामग्री पर जाएँ
सर्वकोश
चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

Charaka Samhita Part 1 with Hindi Translation

महर्षि चरक व अग्निवेश द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished639 पृष्ठ

पृष्ठ 359, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 359

अ० २७ ] सूत्रस्थानम् ३४१
मधुरं बृंहणं बल्यमाम्रातं तर्पणं गुरु ।
सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्यति ॥ १२७ ॥
तालशस्यानि सिद्धानि नारिकेलफलानि च ।
बृंहणस्निग्धशीतानि बल्यानि मधुराणि च ॥ १२८ ॥
मधुरामलकषायं च विष्टम्भि गुरु शीतलम् ।
पित्तश्लेष्मकरं भव्यं ग्राहि वक्त्रविशोधनम् ॥ १२९ ॥
अम्लं परूषकं द्राक्षा बदराण्यारुकाणि च ।
पित्त-श्लेष्म-प्रकोपीणि कर्कन्धुलकुचान्यपि ॥ १३० ॥
नात्युष्णं गुरु संपक्वं स्वादुप्रायं मुखप्रियम् ।
बृंहणं जीर्यति क्षिप्रं नातिदोषलमारुकम् ॥ १३१ ॥
द्विविधं शीतमुष्णं च मधुरं चाम्लमेव च ।
गुरु पारावतं ज्ञेयमरुच्यत्यग्निनाशनम् ॥ १३२ ॥
भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते ।
तथैवाल्पान्तरगुणं तूदमम्लपरूषकात् ॥ १३३ ॥
कषायमधुरं टङ्कं वातलं गुरु शीतलम् ।
कपित्थं विषकण्ठघ्नमामं संग्राहि वातलम् ॥ १३४ ॥
मधुरामलकषायत्वात्सौगन्ध्याच्च रुचिप्रदम् ।
तदेव पक्वं दोषघ्नं विषघ्नं ग्राहि गुर्वपि ॥ १३५ ॥
बिल्वं तु दुर्जरं सिद्धं दोषलं पूतिमारुतम् ।
स्निग्धोष्णतीक्ष्णं तद्बालं दीपनं कफवातजित् ॥ १३६ ॥
वातपित्तकरं बालमापूर्णं पित्तवर्धनम् ।
पक्वमाम्रं जयेद्वायुं मांसशुक्रबलप्रदम् ॥ १३७ ॥
कषायमधुरप्रायं गुरु विष्टम्भि शीतलम् ।
जाम्बवं कफपित्तघ्नं ग्राहि वातकरं परम् ॥ १३८ ॥
मधुरं बदरं स्निग्धं भेदनं वातपित्तजित् ।
तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते ॥ १३९ ॥
कषायमधुरं शीतं ग्राहि सिम्बितिकाफलम् ।
गाङ्गेरुकं करीरं च बिम्बीतोदनधन्वनम् ॥ १४० ॥
मधुरं सकषायं च शीतं पित्तकफापहम् ।
संपक्वं पनस मोचं राजादनफलानि च ॥ १४१ ॥
स्वादूनि सकषायाणि स्निग्धशीतगुरूणि च ।