बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 608, कुल 760 में से
संदर्भ में पढ़ें५८० बृहत्संहिता
नेतरेषाम्। दुर्वृत्तानां चेष्टा सफला न भवति। वृत्तमिदं सुवृत्ता। तल्लक्षणम्—
यमौ नसौ रौ गश्चेद् द्विरसमुनिभिः स्याद्विरामैः सुवृत्ता।
य आदिलघुः। मस्त्रिगुरुः। नस्त्रिलघुः। सोऽन्तगुरुः। रलमध्यः। द्वौ रेफौ। सोऽन्ते
गुरुः। द्वे यती रसैः षड्भिर्भवतः। तृतीया मुनिभिः सप्तभिः। एतैर्विरामैः सुवृत्ता स्याद्
भवेत्। अन्येषां मेघविस्फूर्जिता।
न्यासः— य म न स र र गु
।ऽऽ ऽऽऽ ।।। ।।ऽ ऽ।ऽ ऽ।ऽ ऽ
तथा च यवनेश्वरः—
हृद्रोगशोकाध्वविवाहदैन्यक्रोधक्षयव्याधिभयार्तिदोषान् ।
स्थाने शशाङ्कस्य रविः करोति व्यर्थश्रमोद्वेगमपि द्वितीये॥
तृतीयसंस्थो धनमानधर्मस्थानासनप्रीतिसुखप्रदोऽर्कः।
चतुर्थगस्तु क्षतजप्रवृत्तिर्ज्वरामयो भेदविवादकारी।।
नृपावमर्दात्मजबन्धुशोकव्याधिप्रदः पञ्चमसंस्थितोऽर्कः।।
आरोग्यसौख्यारिविनाशहर्षख्यातिक्रियासिद्धिकरश्च षष्ठः।।
जामित्रसंस्थो रुधिरप्रवृत्तिज्वरक्लमाजीर्णविषाध्वकारी।
सूर्योऽष्टमे स्त्रीसुतबन्धुदुःखव्याधिप्रदोपद्रवमृत्युकृत् स्यात्।।
दैन्यस्थितिभ्रंशगुरुस्वबन्धुप्रद्वेषकृत् स्यान्नवमाश्रितोऽर्कः।
मेषूरणस्थो द्विचतुष्पदस्त्रीहिरण्यरौप्याम्बरलाभकर्ता।।
एकादशे स्थानयशःप्रहर्षमिष्टान्नारोग्यसुखप्रदोऽर्कः।
स्थाने निरुक्तं शशिनो विधिज्ञैः क्रियाफलाघातकृदन्त्यराशौ।। इति।।७।।
अथ चन्द्रमसो जन्मद्वितीयतृतीयचतुर्थस्थस्य फलं शिखरिण्याऽऽह—
शशी जन्मन्यन्नप्रवरशयनाच्छादनकरो
द्वितीये मानार्थान् ग्लपयति सविघ्नश्च भवति।
तृतीये वस्त्रस्त्रीधनविजयसौख्यानि लभते
चतुर्थेऽविश्वासः शिखरिणि भुजङ्गेन सदृशः ॥८॥
यदि चन्द्रमा जन्मराशि में हो तो अन्न, उत्तम शय्या और वस्त्र को देता है। द्वितीय
में हो तो पूजा और धन का नाश तथा विघ्न करता है। तृतीय में हो तो वस्त्र, धन, विजय
और सुख का लाभ कराता है तथा जिसके चतुर्थ राशि में चन्द्र हो, उसको शिखरी
( पर्वत ) पर सर्प की तरह सब पर अविश्वास रहता है। यह शिखरिणी छन्द है॥८॥
शशी जन्मनीति। शशी चन्द्रः। जन्मनि जन्मराशौ स्थितः। अन्नप्रवराणि प्रधानानि
शयनानि आस्तरणानि आच्छादनानि वस्त्राणि करोति। द्वितीय इति। द्वितीये स्थाने मानं
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA