सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 557, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 557

पाकाध्यायः ५२९
आठ, डेढ़, तीन, तीन और पाँच मास में फल होता है।।१६।।
यथाक्रमेण श्रवणादीनां नक्षत्राणां पाकः। तद्यथा--सप्तभिर्मासैः श्रवणस्य पाकः।
अष्टभिर्धनिष्ठायाः। अध्यर्धेन सार्धेन मासेन शतभिषजः। त्रिभिः पूर्वायाः। त्रिभिरुत्तरायाः।
पञ्चभी रेवत्याः। एवमनेन क्रमेण श्रवणादीनां नक्षत्राणां पाकः।
अत्र पाकाध्याये येषामुत्पातानां पाको नोक्तस्तेषां भूकम्पाध्याये उक्तः; यथा—
पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्दैवराट् च सप्ताहात्।
सद्यः फलति च वरुणो येषु न कालोऽद्भुतेषूक्तः।। इति।।१६।।
अद्भुते दृष्टे शान्त्यादिकं कृत्वाऽद्भुतशान्तिं नयेत्; अन्यथा पाकभेदो भवेत्येत-
ज्ज्ञापयितुमाह—
निगदितसमये न दृश्यते चेदधिकतरं द्विगुणे प्रपच्यते तत्।
यदि न कनकरत्नगोप्रदानैरुपशमितं विधिवद् द्विजैश्च शान्त्या ।।१७।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पाकाध्यायो
नाम सप्तनवतितमोऽध्यायः ।।९७।।
यदि पूर्वोक्त समय में फल दिखाई न दे तो उससे द्विगुणित तुल्य काल में अधिक
फल होता है; परन्तु ब्राह्मणों के द्वारा सुवर्ण, रत्न और गौ का दान आदि शान्ति करने से
शान्त नहीं होने पर ही द्विगुणित काल में फल होता है।।१७।।
इति 'विमला' हिन्दीटीकायां पाकाध्यायः सप्तनवतितमः ।।९७।।
निगदितसमये यथोक्तकाले चेद्यदि न दृश्यते पाकस्तदा तस्मात् पाकोऽधिकतरं
द्विगुणे काले प्रपच्यते पाकमायाति। यदि कनकप्रदानेन सुवर्णदानेन, रत्नानां मणीनां
प्रदानेन, गवां धेनूनां प्रदानेन। एतैस्तथा द्विजैर्ब्राह्मणैश्च विधिवत् शान्त्या नोपशमितम्
तदाऽधिकतरमतीवाधिकं द्विगुणे काले समये। यस्याद्भुतस्य काल उक्तस्तस्मिन् द्विगुणे
तत् प्रपच्यते पाकमायातीति।।१७।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ पाकाध्यायो
नाम सप्तनवतितमोऽध्यायः ।।९७।।
बृ० भ० द्वि०-३४
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA